वाल्मीकि रामायण

बालकाण्ड सर्ग 9 | श्रीमद्वाल्मीकि रामायण

🌿 सर्ग 9: सुमन्त्र का दशरथ को ऋष्यशृंग मुनि को बुलाने की सलाह देते हुए उनके अंगदेश जाने और शान्ता से विवाह का प्रसंग सुनाना
Sumantra advises Dasharatha to invite Rishyashringa Muni, narrating the story of his going to Angadesha and his marriage to Shanta
कुल श्लोक: 20
श्लोक 1
एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत्।
श्रूयतां तत् पुरावृत्तं पुराणे च मया श्रुतम्॥
॥ 1.9.1 ॥
श्लोक 2
ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः।
सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम्॥ ऋषीणां संनिधौ राजंस्तव पुत्रागमं प्रति॥
॥ 1.9.2 ॥
श्लोक 3
काश्यपस्य च पुत्रोऽस्ति विभाण्डक इति श्रुतः।
ऋष्यशृंग इति ख्यातस्तस्य पुत्रो भविष्यति।
स वने नित्यसंवृद्धो मुनिर्वनचरः सदा॥
॥ 1.9.3 ॥
श्लोक 5
नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात्।
दैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः।
लोकेषु प्रथितं राजन् विप्रैश्च कथितं सदा॥
॥ 1.9.5 ॥
श्लोक 6
तस्यैवं वर्तमानस्य कालः समभिवर्तत।
अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम्॥
॥ 1.9.6 ॥
श्लोक 7
एतस्मिन्नेव काले तु रोमपादः प्रतापवान्।
अंगेषु प्रथितो राजा भविष्यति महाबलः।
तस्य व्यतिक्रमाद् राज्ञो भविष्यति सुदारुणा।
अनावृष्टिः सुघोरा वै सर्वलोकभयावहा॥
॥ 1.9.7 ॥
श्लोक 9
अनावृष्टयां तु वृत्तायां राजा दुःखसमन्वितः।
ब्राह्मणाञ्छ्रुतसंवृद्धान् समानीय प्रवक्ष्यति।
भवन्तः श्रुतकर्माणो लोकचारित्रवेदिनः।
समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत्॥
॥ 1.9.9 ॥
श्लोक 11
इत्युक्तास्ते ततो राज्ञा सर्वे ब्राह्मणसत्तमाः।
वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः॥
॥ 1.9.11 ॥
श्लोक 12
विभाण्डकसुतं राजन् सर्वोपायैरिहानय।
आनाय्य तु महीपाल ऋष्यश्रृंगं सुसत्कृतम्।
विभाण्डकसुतं राजन् ब्राह्मणं वेदपारगम्।
प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः॥
॥ 1.9.12 ॥
श्लोक 14
तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते।
केनोपायेन वै शक्यमिहानेतुं स वीर्यवान्॥
॥ 1.9.14 ॥
श्लोक 15
ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान्।
पुरोहितममात्यांश्च प्रेषयिष्यति सत्कृतान्॥
॥ 1.9.15 ॥
श्लोक 16
ते तु राज्ञो वचः श्रुत्वा व्यथिता विनताननाः।
न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम्॥
॥ 1.9.16 ॥
श्लोक 17
वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तान् क्षमान्।
आनेष्यामो वयं विप्रं न च दोषो भविष्यति॥
॥ 1.9.17 ॥
श्लोक 18
एवमंगाधिपेनैव गणिकाभिरृषेः सुतः।
आनीतोऽवर्षयद् देवः शान्ता चास्मै प्रदीयते॥
॥ 1.9.18 ॥
श्लोक 19
ऋष्यश्रृंगस्तु जामाता पुत्रांस्तव विधास्यति।
सनत्कुमारकथितमेतावद् व्याहृतं मया॥
॥ 1.9.19 ॥
श्लोक 20
अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत।
यथर्ण्यश्रृंगस्त्वानीतो येनोपायेन सोच्यताम्॥
॥ 1.9.20 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे नवमः सर्गः॥९॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्डमें नवाँ सर्ग पूरा हुआ॥९॥
🔍 शब्दार्थ
संस्कृत शब्द हिंदी अर्थ
इति इस प्रकार (अव्यय, समाप्ति सूचक)
आर्षे ऋषि प्रोक्त में (सप्तमी विभक्ति)
श्रीमद्रामायणे श्रीरामायण में (सप्तमी विभक्ति)
वाल्मीकीये वाल्मीकि द्वारा रचित में (सप्तमी विभक्ति)
आदिकाव्ये आदिकाव्य में (सप्तमी विभक्ति)
बालकाण्डे बालकाण्ड में (सप्तमी विभक्ति)
नवमः नवाँ (प्रथमा विभक्ति)
सर्गः सर्ग (प्रथमा विभक्ति)
॥९॥ ॥९॥ (सर्ग संख्या)

ॐ श्रीरामाय नमः

वाल्मीकि रामायणम् | श्रीरामसमर्पितम्

www.valmikiramayan.in