🌿 सर्ग 8: राजा दशरथ का पुत्र के लिये अश्वमेधयज्ञ का प्रस्ताव और मन्त्रियों तथा ब्राह्मणों द्वारा उनका अनुमोदन
King Dasharatha proposes an Ashwamedha Yajna for a son, which is approved by ministers and Brahmins
कुल श्लोक: 24
श्लोक 1
तस्य चैवंप्रभावस्य धर्मज्ञस्य महात्मनः।
सुतार्थं तप्यमानस्य नासीद् वंशकरः सुतः॥१॥
सुतार्थं तप्यमानस्य नासीद् वंशकरः सुतः॥१॥
॥ 1.8.1 ॥
श्लोक 2
चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः।
सुतार्थं वाजिमेधेन किमर्थं न यजाम्यहम्॥२॥
सुतार्थं वाजिमेधेन किमर्थं न यजाम्यहम्॥२॥
॥ 1.8.2 ॥
श्लोक 3
स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान्।
मन्त्रिभिः सह धर्मात्मा सर्वैरपि कृतात्मभिः॥३॥
मन्त्रिभिः सह धर्मात्मा सर्वैरपि कृतात्मभिः॥३॥
॥ 1.8.3 ॥
श्लोक 4
ततोऽब्रवीन्महातेजाः सुमन्त्रं मन्त्रिसत्तम।
शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान्॥४॥
शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान्॥४॥
॥ 1.8.4 ॥
श्लोक 5
ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः।
समानयत् स तान् सर्वान् समस्तान् वेदपारगान्॥५॥
समानयत् स तान् सर्वान् समस्तान् वेदपारगान्॥५॥
॥ 1.8.5 ॥
श्लोक 6
सुयज्ञं वामदेवं च जाबालिमथ काश्यपम्।
पुरोहितं वसिष्ठं च ये चाप्यन्ये द्विजोत्तमाः॥६॥
पुरोहितं वसिष्ठं च ये चाप्यन्ये द्विजोत्तमाः॥६॥
॥ 1.8.6 ॥
श्लोक 7
तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा।
इदं धर्मार्थसहितं श्लक्ष्णं वचनमब्रवीत्॥७॥
इदं धर्मार्थसहितं श्लक्ष्णं वचनमब्रवीत्॥७॥
॥ 1.8.7 ॥
श्लोक 8
मम लालप्यमानस्य सुतार्थं नास्ति वै सुखम्।
तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम॥८॥
तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम॥८॥
॥ 1.8.8 ॥
श्लोक 9
तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा।
कथं प्राप्स्याम्यहं कामं बुद्धिरत्रविचिन्त्यताम्॥९॥
कथं प्राप्स्याम्यहं कामं बुद्धिरत्रविचिन्त्यताम्॥९॥
॥ 1.8.9 ॥
श्लोक 10
ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन्।
वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखेरितम्॥१०॥
वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखेरितम्॥१०॥
॥ 1.8.10 ॥
श्लोक 11
ऊचुश्च परमप्रीताः सर्वे दशरथं वचः।
सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम्॥११॥
सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम्॥११॥
॥ 1.8.11 ॥
श्लोक 12
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्।
सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव।
यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता॥१२॥
सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव।
यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता॥१२॥
॥ 1.8.12 ॥
श्लोक 13
ततस्तुष्टोऽभवद् राजा श्रुत्वैतद् द्विजभाषितम्।
अमात्यानब्रवीद् राजा हर्षव्याकुललोचनः॥१३॥
अमात्यानब्रवीद् राजा हर्षव्याकुललोचनः॥१३॥
॥ 1.8.13 ॥
श्लोक 14
सम्भाराः सम्भ्रियन्तां मे गुरूणां वचनादिह।
समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम्॥१४॥
समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम्॥१४॥
॥ 1.8.14 ॥
श्लोक 15
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्।
शान्तयश्चापि वर्धन्तां यथाकल्पं यथाविधि॥१५॥
शान्तयश्चापि वर्धन्तां यथाकल्पं यथाविधि॥१५॥
॥ 1.8.15 ॥
श्लोक 16
शक्यः प्राप्तुमयं यज्ञः सर्वेणापि महीक्षिता।
नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे॥१६॥
नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे॥१६॥
॥ 1.8.16 ॥
श्लोक 17
छिद्रं हि मृगयन्ते स्म विद्वांसो ब्रह्मराक्षसाः।
विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति॥१७॥
विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति॥१७॥
॥ 1.8.17 ॥
श्लोक 18
तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते।
तथा विधानं क्रियतां समर्थाः साधनेष्विति॥१८॥
तथा विधानं क्रियतां समर्थाः साधनेष्विति॥१८॥
॥ 1.8.18 ॥
श्लोक 19
तथेति चाब्रुवन् सर्वे मन्त्रिणः प्रतिपूजिताः।
पार्थिवेन्द्रस्य तद् वाक्यं यथापूर्वं निशम्य ते॥१९॥
पार्थिवेन्द्रस्य तद् वाक्यं यथापूर्वं निशम्य ते॥१९॥
॥ 1.8.19 ॥
श्लोक 20
तथा द्विजास्ते धर्मज्ञा वर्धयन्तो नृपोत्तमम्।
अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम्॥२०॥
अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम्॥२०॥
॥ 1.8.20 ॥
श्लोक 21
विसर्जयित्वा तान् विप्रान् सचिवानिदमब्रवीत्।
ऋत्विग्भिरुपसंदिष्टो यथावत् क्रतुराप्यताम्॥२१॥
ऋत्विग्भिरुपसंदिष्टो यथावत् क्रतुराप्यताम्॥२१॥
॥ 1.8.21 ॥
श्लोक 22
इत्युक्त्वा नृपशार्दूलः सचिवान् समुपस्थितान्।
विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः॥२२॥
विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः॥२२॥
॥ 1.8.22 ॥
श्लोक 23
ततः स गत्वा ताः पत्नीनरेन्द्रो हृदयंगमाः।
उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात्॥२३॥
उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात्॥२३॥
॥ 1.8.23 ॥
श्लोक 24
तासां तेनातिकान्तेन वचनेन सुवर्चसाम्।
मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये॥२४॥
मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये॥२४॥
॥ 1.8.24 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टमः सर्गः॥८॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में आठवाँ सर्ग पूरा हुआ।
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में आठवाँ सर्ग पूरा हुआ।
🔍 शब्दार्थ
| संस्कृत शब्द | हिंदी अर्थ |
|---|---|
| इति | इस प्रकार (अव्यय, समाप्ति सूचक) |
| आर्षे | ऋषि प्रोक्त में (सप्तमी विभक्ति) |
| श्रीमद्रामायणे | श्रीरामायण में (सप्तमी विभक्ति) |
| वाल्मीकीये | वाल्मीकि द्वारा रचित में (सप्तमी विभक्ति) |
| आदिकाव्ये | आदिकाव्य में (सप्तमी विभक्ति) |
| बालकाण्डे | बालकाण्ड में (सप्तमी विभक्ति) |
| अष्टमः | आठवाँ (प्रथमा विभक्ति) |
| सर्गः | सर्ग (प्रथमा विभक्ति) |
| ॥८॥ | ॥८॥ (सर्ग संख्या) |