वाल्मीकि रामायण

बालकाण्ड सर्ग 10 | श्रीमद्वाल्मीकि रामायण

🌿 सर्ग 10: अंगदेश में ऋष्यश्रृंग के आने तथा शान्ता के साथ विवाह होने के प्रसंग का विस्तार के साथ वर्णन
A detailed description of Rishyashringa's arrival in Angadesha and his marriage to Shanta
कुल श्लोक: 33
श्लोक 1
सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तदा।
यथर्ण्यश्रृंगस्त्वानीतो येनोपायेन मन्त्रिभिः।
तन्मे निगदितं सर्वं शृणु मे मन्त्रिभिः सह ॥
॥ 1.10.1 ॥
श्लोक 2
रोमपादमुवाचेदं सहामात्यः पुरोहितः।
उपायो निरपायोऽयमस्माभिरभिचिन्तितः॥
॥ 1.10.2 ॥
श्लोक 3
ऋष्यशृंगो वनचरस्तपःस्वाध्यायसंयुतः।
अनभिज्ञस्तु नारीणां विषयाणां सुखस्य च॥
॥ 1.10.3 ॥
श्लोक 4
इन्द्रियार्थैरभिमतैर्नरचित्तप्रमाथिभिः।
पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम्॥
॥ 1.10.4 ॥
श्लोक 5
गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलंकृताः।
प्रलोभ्य विविधोपायैरानेष्यन्तीह सत्कृताः॥
॥ 1.10.5 ॥
श्लोक 6
श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम्।
पुरोहितो मन्त्रिणश्च तदा चक्रुश्च ते तथा॥
॥ 1.10.6 ॥
श्लोक 7
वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुर्महत्।
आश्रमस्याविदूरेऽस्मिन् यत्नं कुर्वन्ति दर्शने॥
॥ 1.10.7 ॥
श्लोक 8
ऋषेः पुत्रस्य धीरस्य नित्यमाश्रमवासिनः।
पितुः स नित्यसंतुष्टो नातिचक्राम चाश्रमात्॥
॥ 1.10.8 ॥
श्लोक 9
न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना।
स्त्री वा पुमान् वा यच्चान्यत् सत्त्वं नगरराष्ट्रजम्॥
॥ 1.10.9 ॥
श्लोक 10
ततः कदाचित् तं देशमाजगाम यदृच्छया।
विभाण्डकसुतस्तत्र ताश्चापश्यद् वरांगनाः॥
॥ 1.10.10 ॥
श्लोक 11
ताश्चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरम्।
ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन्॥
॥ 1.10.11 ॥
श्लोक 12
कस्त्वं किं वर्तसे ब्रह्मन् ज्ञातुमिच्छामहे वयम्।
एकस्त्वं विजने दूरे वने चरसि शंस नः॥
॥ 1.10.12 ॥
श्लोक 13
अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियः।
हार्दी तस्य मतिर्जाता आख्यातुं पितरं स्वकम्॥
॥ 1.10.13 ॥
श्लोक 14
पिता विभाण्डकोऽस्माकं तस्याहं सुत औरसः।
ऋष्यशृंग इति ख्यातं नाम कर्म च मे भुवि॥
॥ 1.10.14 ॥
श्लोक 15
इहाश्रमपदोऽस्माकं समीपे शुभदर्शनाः।
करिष्ये वोऽत्र पूजां वै सर्वेषां विधिपूर्वकम्॥
॥ 1.10.15 ॥
श्लोक 16
ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिरास वै।
तदाश्रमपदं द्रष्टुं जग्मुः सर्वास्ततोऽङ्गनाः॥
॥ 1.10.16 ॥
श्लोक 17
गतानां तु ततः पूजामृषिपुत्रश्चकार ह।
इदमर्ध्यमिदं पाद्यमिदं मूलं फलं च नः॥
॥ 1.10.17 ॥
श्लोक 18
प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः।
ऋषेर्भीताश्च शीघ्रं तु गमनाय मतिं दधुः॥
॥ 1.10.18 ॥
श्लोक 19
अस्माकमपि मुख्यानि फलानीमानि हे द्विज।
गृहाण विप्र भद्रं ते भक्षयस्व च मा चिरम्॥
॥ 1.10.19 ॥
श्लोक 20
ततस्तास्तं समालिङ्ग्य सर्वा हर्षसमन्विताः।
मोदकान् प्रददुस्तस्मै भक्ष्यांश्च विविधाञ्छुभान्॥
॥ 1.10.20 ॥
श्लोक 21
तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते।
अनास्वादितपूर्वाणि वने नित्यनिवासिनाम्॥
॥ 1.10.21 ॥
श्लोक 22
आपृच्छ्य च तदा विप्रं व्रतचर्यां निवेद्य च।
गच्छन्ति स्मापदेशात्ता भीतास्तस्य पितुः स्त्रियः॥
॥ 1.10.22 ॥
श्लोक 23
गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः।
अस्वस्थहृदयश्चासीद् दुःखाच्च परिवर्तते॥
॥ 1.10.23 ॥
श्लोक 24
ततोऽपरेधुस्तं देशमाजगाम स वीर्यवान्।
विभाण्डकसुतः श्रीमान् मनसाचिन्तयन्मुहुः।
मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलंकृताः॥
॥ 1.10.24 ॥
श्लोक 25
दृष्ट्वैव च ततो विप्रमायान्तं हृष्टमानसाः।
उपसृत्य ततः सर्वास्तास्तमूचुरिदं वचः।
एह्याश्रमपदं सौम्य अस्माकमिति चाब्रुवन्॥
॥ 1.10.25 ॥
श्लोक 27
चित्राण्यत्र बहूनि स्युर्मूलानि च फलानि च।
तत्राप्येष विशेषेण विधिर्हि भविता ध्रुवम्॥
॥ 1.10.27 ॥
श्लोक 28
श्रुत्वा तु वचनं तासां सर्वासां हृदयंगमम्।
गमनाय मतिं चक्रे तं च निन्युस्तथा स्त्रियः॥
॥ 1.10.28 ॥
श्लोक 29
तत्र चानीयमाने तु विप्रे तस्मिन् महात्मनि।
ववर्ष सहसा देवो जगत् प्रह्लादयंस्तदा ॥
॥ 1.10.29 ॥
श्लोक 30
वर्षेणैवागतं विप्रं तापसं स नराधिपः।
प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः॥
॥ 1.10.30 ॥
श्लोक 31
अर्घ्यं च प्रददौ तस्मै न्यायतः सुसमाहितः।
वरं प्रसादं विप्रेन्द्रान्मा विप्रं मन्युराविशेत्॥
॥ 1.10.31 ॥
श्लोक 32
अन्तःपुरं प्रवेश्यास्मै कन्यां दत्त्वा यथाविधि।
शान्तां शान्तेन मनसा राजा हर्षमवाप सः॥
॥ 1.10.32 ॥
श्लोक 33
एवं स न्यवसत् तत्र सर्वकामैः सुपूजितः।
ऋष्यश्रृंगो महातेजाः शान्तया सह भार्यया॥
॥ 1.10.33 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे दशमः सर्गः॥१०॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्डमें दसवाँ सर्ग पूरा हुआ॥ १० ॥
🔍 शब्दार्थ
संस्कृत शब्द हिंदी अर्थ
इति इस प्रकार (अव्यय, समाप्ति सूचक)
आर्षे ऋषि प्रोक्त में (सप्तमी विभक्ति)
श्रीमद्रामायणे श्रीरामायण में (सप्तमी विभक्ति)
वाल्मीकीये वाल्मीकि द्वारा रचित में (सप्तमी विभक्ति)
आदिकाव्ये आदिकाव्य में (सप्तमी विभक्ति)
बालकाण्डे बालकाण्ड में (सप्तमी विभक्ति)
दशमः दसवाँ (प्रथमा विभक्ति)
सर्गः सर्ग (प्रथमा विभक्ति)
॥१०॥ ॥१०॥ (सर्ग संख्या)

ॐ श्रीरामाय नमः

वाल्मीकि रामायणम् | श्रीरामसमर्पितम्

www.valmikiramayan.in