🌿 सर्ग 7: राजमन्त्रियों के गुण और नीति का वर्णन
Description of the qualities and policies of the royal ministers
कुल श्लोक: 24
श्लोक 1
तस्यामात्या गुणैरासन्निक्ष्वाकोः सुमहात्मनः।
मन्त्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रताः॥१॥
मन्त्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रताः॥१॥
॥ 1.7.1 ॥
श्लोक 2
अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः।
शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः॥२॥
शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः॥२॥
॥ 1.7.2 ॥
श्लोक 3
धृष्टिर्जयन्तो विजयः सुराष्ट्रो राष्ट्रवर्धनः ।
अकोपो धर्मपालश्च सुमन्त्रश्चाष्टमोऽर्थवित्॥३॥
अकोपो धर्मपालश्च सुमन्त्रश्चाष्टमोऽर्थवित्॥३॥
॥ 1.7.3 ॥
श्लोक 4
ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ।
वसिष्ठो वामदेवश्च मन्त्रिणश्च तथापरे॥४॥
वसिष्ठो वामदेवश्च मन्त्रिणश्च तथापरे॥४॥
॥ 1.7.4 ॥
श्लोक 5
सुयज्ञोऽप्यथ जाबालिः काश्यपोऽप्यथ गौतमः।
मार्कण्डेयस्तु दीर्घायुस्तथा कात्यायनो द्विजः॥५॥
मार्कण्डेयस्तु दीर्घायुस्तथा कात्यायनो द्विजः॥५॥
॥ 1.7.5 ॥
श्लोक 6
एतैर्ब्रह्मर्षिभिर्नित्यमृत्विजस्तस्य पौर्वकाः।
विद्याविनीता हीमन्तः कुशला नियतेन्द्रियाः॥६॥
विद्याविनीता हीमन्तः कुशला नियतेन्द्रियाः॥६॥
॥ 1.7.6 ॥
श्लोक 7
श्रीमन्तश्च महात्मानः शस्त्रज्ञा दृढविक्रमाः।
कीर्तिमन्तः प्रणिहिता यथावचनकारिणः॥७॥
कीर्तिमन्तः प्रणिहिता यथावचनकारिणः॥७॥
॥ 1.7.7 ॥
श्लोक 8
तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः।
क्रोधात् कामार्थहेतोर्वा न ब्रूयुरनृतं वचः॥८॥
क्रोधात् कामार्थहेतोर्वा न ब्रूयुरनृतं वचः॥८॥
॥ 1.7.8 ॥
श्लोक 9
तेषामविदितं किंचित् स्वेषु नास्ति परेषु वा।
क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम्॥९॥
क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम्॥९॥
॥ 1.7.9 ॥
श्लोक 10
कुशला व्यवहारेषु सौहृदेषु परीक्षिताः।
प्राप्तकालं यथा दण्डं धारयेयुः सुतेष्वपि॥१०॥
प्राप्तकालं यथा दण्डं धारयेयुः सुतेष्वपि॥१०॥
॥ 1.7.10 ॥
श्लोक 11
कोशसंग्रहणे युक्ता बलस्य च परिग्रहे।
अहितं चापि पुरुषं न हिंस्युरविदूषकम्॥११॥
अहितं चापि पुरुषं न हिंस्युरविदूषकम्॥११॥
॥ 1.7.11 ॥
श्लोक 12
वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः।
शुचीनां रक्षितारश्च नित्यं विषयवासिनाम्॥१२॥
शुचीनां रक्षितारश्च नित्यं विषयवासिनाम्॥१२॥
॥ 1.7.12 ॥
श्लोक 13
ब्रह्मक्षत्रमहिंसन्तस्ते कोशं समपूरयन्।
सुतीक्ष्णदण्डाः सम्प्रेक्ष्य पुरुषस्य बलाबलम्॥१३॥
सुतीक्ष्णदण्डाः सम्प्रेक्ष्य पुरुषस्य बलाबलम्॥१३॥
॥ 1.7.13 ॥
श्लोक 14
शुचीनामेकबुद्धीनां सर्वेषां सम्प्रजानताम्।
नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित्॥१४॥
नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित्॥१४॥
॥ 1.7.14 ॥
श्लोक 15
क्वचिन्न दुष्टस्तत्रासीत् परदाररतिर्नरः।
प्रशान्तं सर्वमेवासीद् राष्ट्रं पुरवरं च तत्॥१५॥
प्रशान्तं सर्वमेवासीद् राष्ट्रं पुरवरं च तत्॥१५॥
॥ 1.7.15 ॥
श्लोक 16
सुवाससः सुवेषाश्च ते च सर्वे शुचिव्रताः।
हितार्थाश्च नरेन्द्रस्य जाग्रतो नयचक्षुषा॥१६॥
हितार्थाश्च नरेन्द्रस्य जाग्रतो नयचक्षुषा॥१६॥
॥ 1.7.16 ॥
श्लोक 17
गुरोर्गुणगृहीताश्च प्रख्याताश्च पराक्रमैः।
विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयाः॥१७॥
विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयाः॥१७॥
॥ 1.7.17 ॥
श्लोक 18
अभितो गुणवन्तश्च न चासन् गुणवर्जिताः।
संधिविग्रहतत्त्वज्ञाः प्रकृत्या सम्पदान्विताः॥१८॥
संधिविग्रहतत्त्वज्ञाः प्रकृत्या सम्पदान्विताः॥१८॥
॥ 1.7.18 ॥
श्लोक 19
मन्त्रसंवरणे शक्ताः शक्ताः सूक्ष्मासु बुद्धिषु।
नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः॥१९॥
नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः॥१९॥
॥ 1.7.19 ॥
श्लोक 20
ईदृशैस्तैरमात्यैश्च राजा दशरथोऽनघः।
उपपन्नो गुणोपेतैरन्वशासद् वसुन्धराम्॥२०॥
उपपन्नो गुणोपेतैरन्वशासद् वसुन्धराम्॥२०॥
॥ 1.7.20 ॥
श्लोक 21
अवेक्ष्यमाणश्चारेण प्रजा धर्मेण रक्षयन्।
प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन्॥२१॥
प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन्॥२१॥
॥ 1.7.21 ॥
श्लोक 22
विश्रुतस्त्रिषु लोकेषु वदान्यः सत्यसंगरः।
स तत्र पुरुषव्याघ्रः शशास पृथिवीमिमाम्॥२२॥
स तत्र पुरुषव्याघ्रः शशास पृथिवीमिमाम्॥२२॥
॥ 1.7.22 ॥
श्लोक 23
नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः।
मित्रवान्नतसामन्तः प्रतापहतकण्टकः।
स शशास जगद् राजा दिवि देवपतिर्यथा॥२३॥
मित्रवान्नतसामन्तः प्रतापहतकण्टकः।
स शशास जगद् राजा दिवि देवपतिर्यथा॥२३॥
॥ 1.7.23 ॥
श्लोक 24
तैर्मन्त्रिभिर्मन्त्रहिते निविष्टैर्वृतोऽनुरक्तैः कुशलैः समर्थैः ।
स पार्थिवो दीप्तिमवाप युक्तस्तेजोमयैर्गोभिरिवोदितोऽर्कः॥२४॥
स पार्थिवो दीप्तिमवाप युक्तस्तेजोमयैर्गोभिरिवोदितोऽर्कः॥२४॥
॥ 1.7.24 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तमः सर्गः ॥७॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके बालकाण्डमें सातवाँ सर्ग पूरा हुआ॥७॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके बालकाण्डमें सातवाँ सर्ग पूरा हुआ॥७॥
🔍 शब्दार्थ
| संस्कृत शब्द | हिंदी अर्थ |
|---|---|
| इति | इस प्रकार (अव्यय, समाप्ति सूचक) |
| आर्षे | ऋषि प्रोक्त में (सप्तमी विभक्ति) |
| श्रीमद्रामायणे | श्रीरामायण में (सप्तमी विभक्ति) |
| वाल्मीकीये | वाल्मीकि द्वारा रचित में (सप्तमी विभक्ति) |
| आदिकाव्ये | आदिकाव्य में (सप्तमी विभक्ति) |
| बालकाण्डे | बालकाण्ड में (सप्तमी विभक्ति) |
| सप्तमः | सातवाँ (प्रथमा विभक्ति) |
| सर्गः | सर्ग (प्रथमा विभक्ति) |
| ॥७॥ | ॥७॥ (सर्ग संख्या) |