वाल्मीकि रामायण

बालकाण्ड सर्ग 73 | श्रीमद्वाल्मीकि रामायण

🌿 सर्ग 73: श्रीराम आदि चारों भाइयों का विवाह
The marriage of Shri Rama and his three brothers
कुल श्लोक: 40
श्लोक 1
यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम्।
तस्मिंस्तु दिवसे वीरो युधाजित् समुपेयिवान्॥ पुत्रः केकयराजस्य साक्षाद्भरतमातुलः।
॥ 1.73.1 ॥
श्लोक 2
दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत्॥
॥ 1.73.2 ॥
श्लोक 3
केकयाधिपती राजा स्नेहात् कुशलमब्रवीत्।
येषां कुशलकामोऽसि तेषां सम्प्रत्यनामयम्॥ स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपतिः।
॥ 1.73.3 ॥
श्लोक 4
तदर्थमुपयातोऽहमयोध्यां रघुनन्दन॥
॥ 1.73.4 ॥
श्लोक 5
श्रुत्वा त्वहमयोध्यायां विवाहार्थं तवात्मजान्।
मिथिलामुपयातांस्तु त्वया सह महीपते॥ त्वरयाभ्युपयातोऽहं द्रष्टुकामः स्वसुः सुतम्।
॥ 1.73.5 ॥
श्लोक 6
अथ राजा दशरथः प्रियातिथिमुपस्थितम्॥ दृष्ट्वा परमसत्कारैः पूजनार्हमपूजयत्।
॥ 1.73.6 ॥
श्लोक 7
ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभिः॥ प्रभाते पुनरुत्थाय कृत्वा कर्माणि तत्त्ववित् ।
॥ 1.73.7 ॥
श्लोक 8
ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत्॥
॥ 1.73.8 ॥
श्लोक 9
युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः।

भ्रातृभिः सहितो रामः कृतकौतुकमंगलः॥ वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि।
॥ 1.73.9 ॥
श्लोक 10
वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत्॥
॥ 1.73.10 ॥
श्लोक 11
राजा दशरथो राजन् कृतकौतुकमंगलैः।
पुत्रैर्नरवरश्रेष्ठो दातारमभिकाङ्क्षते॥
॥ 1.73.11 ॥
श्लोक 12
दातृप्रतिग्रहीतृभ्यां सर्वार्थाः सम्भवन्ति हि।
स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम्॥
॥ 1.73.12 ॥
श्लोक 13
इत्युक्तः परमोदारो वसिष्ठेन महात्मना।
प्रत्युवाच महातेजा वाक्यं परमधर्मवित्॥
॥ 1.73.13 ॥
श्लोक 14
कः स्थितः प्रतिहारो मे कस्याज्ञां सम्प्रतीक्षते।
स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव॥ कृतकौतुकसर्वस्वा वेदिमूलमुपागताः।
॥ 1.73.14 ॥
श्लोक 15
मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेरिवार्चिषः॥
॥ 1.73.15 ॥
श्लोक 16
सद्योऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठितः ।
अविघ्नं क्रियतां सर्वं किमर्थं हि विलम्ब्यते॥
॥ 1.73.16 ॥
श्लोक 17
तद् वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा।
प्रवेशयामास सुतान् सर्वानृषिगणानपि॥
॥ 1.73.17 ॥
श्लोक 18
ततो राजा विदेहानां वसिष्ठमिदमब्रवीत्।
कारयस्व ऋषे सर्वामृषिभिः सह धार्मिक॥ रामस्य लोकरामस्य क्रियां वैवाहिकीं प्रभो।
॥ 1.73.18 ॥
श्लोक 19
तथेत्युक्त्वा तु जनकं वसिष्ठो भगवानृषिः॥ विश्वामित्रं पुरस्कृत्य शतानन्दं च धार्मिकम्।
॥ 1.73.19 ॥
श्लोक 20
प्रपामध्ये तु विधिवद् वेदिं कृत्वा महातपाः॥ अलंचकार तां वेदिं गन्धपुष्पैः समन्ततः।
॥ 1.73.20 ॥
श्लोक 21
सुवर्णपालिकाभिश्च चित्रकुम्भैश्च साङ्कुरैः॥ अङ्कुराढ्यैः शरावैश्च धूपपात्रैः सधूपकैः।
॥ 1.73.21 ॥
श्लोक 22
शङ्खपात्रैः स्रुवैः स्रग्भिः पात्रैरर्घ्यादिपूजितैः॥ लाजपूर्णैश्च पात्रीभिरक्षतैरपि संस्कृतैः।
॥ 1.73.22 ॥
श्लोक 23
दर्भैः समैः समास्तीर्य विधिवन्मन्त्रपूर्वकम्॥ अग्निमाधाय तं वेद्यां विधिमन्त्रपुरस्कृतम्।
॥ 1.73.23 ॥
श्लोक 24
जुहावाग्नौ महातेजा वसिष्ठो मुनिपुंगवः॥
॥ 1.73.24 ॥
श्लोक 25
ततः सीतां समानीय सर्वाभरणभूषिताम्।
समक्षमग्नेः संस्थाप्य राघवाभिमुखे तदा ॥ अब्रवीज्जनको राजा कौसल्यानन्दवर्धनम्।
॥ 1.73.25 ॥
श्लोक 26
इयं सीता मम सुता सहधर्मचरी तव॥ प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना।
॥ 1.73.26 ॥
श्लोक 27
पतिव्रता महाभागा छायेवानुगता सदा॥
॥ 1.73.27 ॥
श्लोक 28
इत्युक्त्वा प्राक्षिपद् राजा मन्त्रपूतं जलं तदा।
साधुसाध्विति देवानामृषीणां वदतां तदा ॥
॥ 1.73.28 ॥
श्लोक 29
देवदुन्दुभिनिर्घोषः पुष्पवर्षो महानभूत्।
एवं दत्त्वा सुतां सीतां मन्त्रोदकपुरस्कृताम्॥ अब्रवीज्जनको राजा हर्षेणाभिपरिप्लुतः।
॥ 1.73.29 ॥
श्लोक 30
लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया॥ प्रतीच्छ पाणिं गृह्णीष्व मा भूत् कालस्य पर्ययः।
॥ 1.73.30 ॥
श्लोक 31
तमेवमुक्त्वा जनको भरतं चाभ्यभाषत ॥ गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन।
॥ 1.73.31 ॥
श्लोक 32
शत्रुघ्नं चापि धर्मात्मा अब्रवीन्मिथिलेश्वरः॥ श्रुतकीर्तेर्महाबाहो पाणिं गृह्णीष्व पाणिना।
॥ 1.73.32 ॥
श्लोक 33
सर्वे भवन्तः सौम्याश्च सर्वे सुचरितव्रताः॥ पत्नीभिः सन्तु काकुत्स्था मा भूत् कालस्य पर्ययः।
॥ 1.73.33 ॥
श्लोक 34
जनकस्य वचः श्रुत्वा पाणीन् पाणिभिरस्पृशन्॥ चत्वारस्ते चतसृणां वसिष्ठस्य मते स्थिताः।
॥ 1.73.34 ॥
श्लोक 35
अग्निं प्रदक्षिणं कृत्वा वेदिं राजानमेव च ॥ ऋषींश्चापि महात्मानः सहभार्या रघूद्वहाः।
॥ 1.73.35 ॥
श्लोक 36
यथोक्तेन ततश्चक्रुर्विवाहं विधिपूर्वकम्॥
॥ 1.73.36 ॥
श्लोक 37
पुष्पवृष्टिर्महत्यासीदन्तरिक्षात् सुभास्वरा।
दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिःस्वनैः॥ ननृतुश्चाप्सरःसङ्घा गन्धर्वाश्च जगुः कलम्।
॥ 1.73.37 ॥
श्लोक 38
विवाहे रघुमुख्यानां तदद्भुतमदृश्यत॥
॥ 1.73.38 ॥
श्लोक 39
ईदृशे वर्तमाने तु तूर्योद्घुष्टनिनादिते।
त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः॥
॥ 1.73.39 ॥
श्लोक 40
अथोपकार्यां जग्मुस्ते सभार्या रघुनन्दनाः।
राजाप्यनुययौ पश्यन् सर्षिसङ्गः सबान्धवः॥
॥ 1.73.40 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिसप्ततितमः सर्गः॥७३॥
हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में तिहत्तरवाँ सर्ग पूरा हुआ।७३॥
🔍 शब्दार्थ
संस्कृत शब्द हिंदी अर्थ
इति इस प्रकार (अव्यय)
आर्षे ऋषि द्वारा कथित (सप्तमी विभक्ति)
श्रीमद्रामायणे श्रीमद्रामायण में (सप्तमी विभक्ति)
वाल्मीकीये वाल्मीकि द्वारा रचित (सप्तमी विभक्ति)
आदिकाव्ये आदिकाव्य में (सप्तमी विभक्ति)
बालकाण्डे बालकाण्ड में (सप्तमी विभक्ति)
त्रिसप्ततितमः तिहत्तरवाँ (प्रथमा विभक्ति)
सर्गः सर्ग (प्रथमा विभक्ति)
॥७३॥ संख्या ७३ (सर्ग संख्या)

ॐ श्रीरामाय नमः

वाल्मीकि रामायणम् | श्रीरामसमर्पितम्

www.valmikiramayan.in