🌿 सर्ग 71: राजा जनक का अपने कुल का परिचय देते हुए श्रीराम और लक्ष्मण के लिये क्रमशः सीता और ऊर्मिला को देने की प्रतिज्ञा करना
King Janaka introduces his lineage and pledges to give Sita and Urmila to Shri Rama and Lakshmana respectively
कुल श्लोक: 24
श्लोक 1
एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः।
श्रोतुमर्हसि भद्रं ते कुलं नः परिकीर्तितम्॥ प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः।
श्रोतुमर्हसि भद्रं ते कुलं नः परिकीर्तितम्॥ प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः।
॥ 1.71.1 ॥
श्लोक 2
वक्तव्यं कुलजातेन तन्निबोध महामते॥
॥ 1.71.2 ॥
श्लोक 3
राजाभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा।
निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः॥
निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः॥
॥ 1.71.3 ॥
श्लोक 4
तस्य पुत्रो मिथिर्नाम जनको मिथिपुत्रकः।
।
प्रथमो जनको राजा जनकादप्युदावसुः॥
।
प्रथमो जनको राजा जनकादप्युदावसुः॥
॥ 1.71.4 ॥
श्लोक 5
उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्धनः।
नन्दिवर्धनसुतः शूरः सुकेतुर्नाम नामतः॥
नन्दिवर्धनसुतः शूरः सुकेतुर्नाम नामतः॥
॥ 1.71.5 ॥
श्लोक 6
सुकेतोरपि धर्मात्मा देवरातो महाबलः।
देवरातस्य राजर्षेर्बृहद्रथ इति स्मृतः॥
देवरातस्य राजर्षेर्बृहद्रथ इति स्मृतः॥
॥ 1.71.6 ॥
श्लोक 7
बृहद्रथस्य शूरोऽभून्महावीरः प्रतापवान्।
महावीरस्य धृतिमान् सुधृतिः सत्यविक्रमः॥
महावीरस्य धृतिमान् सुधृतिः सत्यविक्रमः॥
॥ 1.71.7 ॥
श्लोक 8
सुधृतेरपि धर्मात्मा धृष्टकेतुः सुधार्मिकः।
धृष्टकेतोश्च राजर्षेर्हर्यश्व इति विश्रुतः॥
धृष्टकेतोश्च राजर्षेर्हर्यश्व इति विश्रुतः॥
॥ 1.71.8 ॥
श्लोक 9
हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतीन्धकः।
प्रतीन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः॥
प्रतीन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः॥
॥ 1.71.9 ॥
श्लोक 10
पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः।
देवमीढस्य विबुधो विबुधस्य महीध्रकः॥
देवमीढस्य विबुधो विबुधस्य महीध्रकः॥
॥ 1.71.10 ॥
श्लोक 11
महीध्रकसुतो राजा कीर्तिरातो महाबलः।
कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत॥
कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत॥
॥ 1.71.11 ॥
श्लोक 12
महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत।
स्वर्णरोम्णस्तु राजर्षेर्ह्रस्वरोमा व्यजायत॥
स्वर्णरोम्णस्तु राजर्षेर्ह्रस्वरोमा व्यजायत॥
॥ 1.71.12 ॥
श्लोक 13
तस्य पुत्रद्वयं राज्ञो धर्मज्ञस्य महात्मनः।
ज्येष्ठोऽहमनुजो भ्राता मम वीरः कुशध्वजः॥
ज्येष्ठोऽहमनुजो भ्राता मम वीरः कुशध्वजः॥
॥ 1.71.13 ॥
श्लोक 14
मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य पिता मम।
कुशध्वजं समावेश्य भारं मयि वनं गतः॥
कुशध्वजं समावेश्य भारं मयि वनं गतः॥
॥ 1.71.14 ॥
श्लोक 15
वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम्।
भ्रातरं देवसंकाशं स्नेहात् पश्यन् कुशध्वजम्॥
भ्रातरं देवसंकाशं स्नेहात् पश्यन् कुशध्वजम्॥
॥ 1.71.15 ॥
श्लोक 16
कस्यचित्त्वथ कालस्य सांकाश्यादागतः पुरात्।
सुधन्वा वीर्यवान् राजा मिथिलामवरोधकः॥
सुधन्वा वीर्यवान् राजा मिथिलामवरोधकः॥
॥ 1.71.16 ॥
श्लोक 17
स च मे प्रेषयामास शैवं धनुरनुत्तमम्।
सीता च कन्या पद्माक्षी मह्यं वै दीयतामिति॥
सीता च कन्या पद्माक्षी मह्यं वै दीयतामिति॥
॥ 1.71.17 ॥
श्लोक 18
तस्याप्रदानान्महर्षे युद्धमासीन्मया सह।
स हतोऽभिमुखो राजा सुधन्वा तु मया रणे॥
स हतोऽभिमुखो राजा सुधन्वा तु मया रणे॥
॥ 1.71.18 ॥
श्लोक 19
निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम्।
सांकाश्ये भ्रातरं शूरमभ्यषिञ्चं कुशध्वजम्॥
सांकाश्ये भ्रातरं शूरमभ्यषिञ्चं कुशध्वजम्॥
॥ 1.71.19 ॥
श्लोक 20
कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने।
ददामि परमप्रीतो वध्वौ ते मुनिपुंगव॥
ददामि परमप्रीतो वध्वौ ते मुनिपुंगव॥
॥ 1.71.20 ॥
श्लोक 21
सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय वै।
वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम्॥ द्वितीयामूर्मिलां चैव त्रिर्वदामि न संशयः।
वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम्॥ द्वितीयामूर्मिलां चैव त्रिर्वदामि न संशयः।
॥ 1.71.21 ॥
श्लोक 22
ददामि परमप्रीतो वध्वौ ते मुनिपुंगव॥
॥ 1.71.22 ॥
श्लोक 23
रामलक्ष्मणयो राजन् गोदानं कारयस्व ह।
पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु॥
पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु॥
॥ 1.71.23 ॥
श्लोक 24
मघा ह्यद्य महाबाहो तृतीयदिवसे प्रभो।
फल्गुन्यामुत्तरे राजंस्तस्मिन् वैवाहिकं कुरु।
रामलक्ष्मणयोरर्थे दानं कार्यं सुखोदयम्॥
फल्गुन्यामुत्तरे राजंस्तस्मिन् वैवाहिकं कुरु।
रामलक्ष्मणयोरर्थे दानं कार्यं सुखोदयम्॥
॥ 1.71.24 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकसप्ततितमः सर्गः॥७१॥
हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में इकहत्तरवाँ सर्ग पूरा हुआ ।७१॥
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में इकहत्तरवाँ सर्ग पूरा हुआ ।७१॥
🔍 शब्दार्थ
| संस्कृत शब्द | हिंदी अर्थ |
|---|---|
| इति | इस प्रकार (अव्यय) |
| आर्षे | ऋषि द्वारा कथित (सप्तमी विभक्ति) |
| श्रीमद्रामायणे | श्रीमद्रामायण में (सप्तमी विभक्ति) |
| वाल्मीकीये | वाल्मीकि द्वारा रचित (सप्तमी विभक्ति) |
| आदिकाव्ये | आदिकाव्य में (सप्तमी विभक्ति) |
| बालकाण्डे | बालकाण्ड में (सप्तमी विभक्ति) |
| एकसप्ततितमः | इकहत्तरवाँ (प्रथमा विभक्ति) |
| सर्गः | सर्ग (प्रथमा विभक्ति) |
| ॥७१॥ | संख्या ७१ (सर्ग संख्या) |