🌿 सर्ग 70: राजा जनक का अपने भाई कुशध्वज को सांकाश्या नगरी से बुलवाना, वसिष्ठजी का श्रीराम और लक्ष्मण के लिये सीता तथा ऊर्मिला को वरण करना
King Janaka summons his brother Kushadhvaja from Sankashya, and Vasishtha asks for Sita and Urmila for Shri Rama and Lakshmana
कुल श्लोक: 45
श्लोक 1
ततः प्रभाते जनकः कृतकर्मा महर्षिभिः ।
उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम्॥
उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम्॥
॥ 1.70.1 ॥
श्लोक 2
भ्राता मम महातेजा वीर्यवानतिधार्मिकः।
कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम्॥ वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम्।
कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम्॥ वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम्।
॥ 1.70.2 ॥
श्लोक 3
सांकाश्यां पुण्यसंकाशां विमानमिव पुष्पकम्॥
॥ 1.70.3 ॥
श्लोक 4
तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः।
प्रीतिं सोऽपि महातेजा इमां भोक्ता मया सह॥
प्रीतिं सोऽपि महातेजा इमां भोक्ता मया सह॥
॥ 1.70.4 ॥
श्लोक 5
एवमुक्ते तु वचने शतानन्दस्य संनिधौ।
आगताः केचिदव्यग्रा जनकस्तान् समादिशत्॥
आगताः केचिदव्यग्रा जनकस्तान् समादिशत्॥
॥ 1.70.5 ॥
श्लोक 6
शासनात् तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः।
समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा॥
समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा॥
॥ 1.70.6 ॥
श्लोक 7
सांकाश्यां ते समागम्य ददृशुश्च कुशध्वजम्।
न्यवेदयन् यथावृत्तं जनकस्य च चिन्तितम्॥
न्यवेदयन् यथावृत्तं जनकस्य च चिन्तितम्॥
॥ 1.70.7 ॥
श्लोक 8
तद्वृत्तं नृपतिः श्रुत्वा दूतश्रेष्ठैर्महाजवैः।
आज्ञया तु नरेन्द्रस्य आजगाम कुशध्वजः॥
आज्ञया तु नरेन्द्रस्य आजगाम कुशध्वजः॥
॥ 1.70.8 ॥
श्लोक 9
स ददर्श महात्मानं जनकं धर्मवत्सलम्।
सोऽभिवाद्य शतानन्दं जनकं चातिधार्मिकम्॥ राजार्हं परमं दिव्यमासनं सोऽध्यरोहत।
सोऽभिवाद्य शतानन्दं जनकं चातिधार्मिकम्॥ राजार्हं परमं दिव्यमासनं सोऽध्यरोहत।
॥ 1.70.9 ॥
श्लोक 10
उपविष्टावुभौ तौ तु भ्रातरावमितद्युती॥ प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम्।
।
।
॥ 1.70.10 ॥
श्लोक 11
गच्छ मन्त्रिपते शीघ्रमिक्ष्वाकुममितप्रभम्॥ आत्मजैः सह दुर्धर्षमानयस्व समन्त्रिणम्।
॥ 1.70.11 ॥
श्लोक 12
औपकार्यां स गत्वा तु रघूणां कुलवर्धनम्॥ ददर्श शिरसा चैनमभिवाद्येदमब्रवीत्।
॥ 1.70.12 ॥
श्लोक 13
अयोध्याधिपते वीर वैदेहो मिथिलाधिपः॥ स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम्।
॥ 1.70.13 ॥
श्लोक 14
मन्त्रिश्रेष्ठवचः श्रुत्वा राजा सर्षिगणस्तथा॥ सबन्धुरगमत् तत्र जनको यत्र वर्तते।
॥ 1.70.14 ॥
श्लोक 15
राजा च मन्त्रिसहितः सोपाध्यायः सबान्धवः॥ वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत्।
॥ 1.70.15 ॥
श्लोक 16
विदितं ते महाराज इक्ष्वाकुकुलदैवतम्॥ वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषिः।
॥ 1.70.16 ॥
श्लोक 17
विश्वामित्राभ्यनुज्ञातः सह सर्वैर्महर्षिभिः॥ एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम्।
॥ 1.70.17 ॥
श्लोक 18
तूष्णीभूते दशरथे वसिष्ठो भगवानृषिः॥ उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोधसम्।
॥ 1.70.18 ॥
श्लोक 19
अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः॥ तस्मान्मरीचिः संजज्ञे मरीचेः कश्यपः सुतः।
॥ 1.70.19 ॥
श्लोक 20
विवस्वान् कश्यपाज्जज्ञे मनुर्वैवस्वतः स्मृतः॥
॥ 1.70.20 ॥
श्लोक 21
मनुः प्रजापतिः पूर्वमिक्ष्वाकुश्च मनोः सुतः।
तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम्॥
तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम्॥
॥ 1.70.21 ॥
श्लोक 22
इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरित्येव विश्रुतः।
कुक्षेरथात्मजः श्रीमान् विकुक्षिरुदपद्यत॥
कुक्षेरथात्मजः श्रीमान् विकुक्षिरुदपद्यत॥
॥ 1.70.22 ॥
श्लोक 23
विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान्।
बाणस्य तु महातेजा अनरण्यः प्रतापवान्॥
बाणस्य तु महातेजा अनरण्यः प्रतापवान्॥
॥ 1.70.23 ॥
श्लोक 24
अनरण्यात् पृथुर्जज्ञे त्रिशङ्कस्तु पृथोरपि।
त्रिशङ्कोरभवत् पुत्रो धुन्धुमारो महायशाः॥
त्रिशङ्कोरभवत् पुत्रो धुन्धुमारो महायशाः॥
॥ 1.70.24 ॥
श्लोक 25
धुन्धुमारान्महातेजा युवनाश्वो महारथः।
युवनाश्वसुतश्चासीन्मान्धाता पृथिवीपतिः॥
युवनाश्वसुतश्चासीन्मान्धाता पृथिवीपतिः॥
॥ 1.70.25 ॥
श्लोक 26
मान्धातुस्तु सुतः श्रीमान् सुसन्धिरुदपद्यत।
सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित्॥
सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित्॥
॥ 1.70.26 ॥
श्लोक 27
यशस्वी ध्रुवसन्धेस्तु भरतो नाम नामतः।
भरतात् तु महातेजा असितो नाम जायत॥
भरतात् तु महातेजा असितो नाम जायत॥
॥ 1.70.27 ॥
श्लोक 28
यस्यैते प्रतिराजान उदपद्यन्त शत्रवः।
हैहयास्तालजङ्घाश्च शूराश्च शशबिन्दवः॥
हैहयास्तालजङ्घाश्च शूराश्च शशबिन्दवः॥
॥ 1.70.28 ॥
श्लोक 29
तांश्च स प्रतियुध्यन् वै युद्धे राजा प्रवासितः।
हिमवन्तमुपागम्य भार्याभ्यां सहितस्तदा ॥
हिमवन्तमुपागम्य भार्याभ्यां सहितस्तदा ॥
॥ 1.70.29 ॥
श्लोक 30
असितोऽल्पबलो राजा कालधर्ममुपेयिवान्।
द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः॥ एका गर्भविनाशार्थं सपत्न्यै सगरं ददौ।
।
द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः॥ एका गर्भविनाशार्थं सपत्न्यै सगरं ददौ।
।
॥ 1.70.30 ॥
श्लोक 31
ततः शैलवरे रम्ये बभूवाभिरतो मुनिः॥ भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः।
॥ 1.70.31 ॥
श्लोक 32
तत्र चैका महाभागा भार्गवं देववर्चसम्॥ ववन्दे पद्मपत्राक्षी काङ्क्षन्ती सुतमुत्तमम्।
॥ 1.70.32 ॥
श्लोक 33
तमृषिं साभ्युपागम्य कालिन्दी चाभ्यवादयत्॥
॥ 1.70.33 ॥
श्लोक 34
स तामभ्यवदद् विप्रः पुत्रेप्सुं पुत्रजन्मनि।
तव कुक्षौ महाभागे सुपुत्रः सुमहाबलः॥ महावीर्यो महातेजा अचिरात् संजनिष्यति।
तव कुक्षौ महाभागे सुपुत्रः सुमहाबलः॥ महावीर्यो महातेजा अचिरात् संजनिष्यति।
॥ 1.70.34 ॥
श्लोक 35
गरेण सहितः श्रीमान् मा शुचः कमलेक्षणे॥
॥ 1.70.35 ॥
श्लोक 36
च्यवनं च नमस्कृत्य राजपुत्री पतिव्रता।
पत्या विरहिता तस्मात् पुत्रं देवी व्यजायत॥
पत्या विरहिता तस्मात् पुत्रं देवी व्यजायत॥
॥ 1.70.36 ॥
श्लोक 37
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया।
सह तेन गरेणैव संजातः सगरोऽभवत्॥
सह तेन गरेणैव संजातः सगरोऽभवत्॥
॥ 1.70.37 ॥
श्लोक 38
सगरस्यासमञ्जस्तु असमञ्जादथांशुमान्।
दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः॥
दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः॥
॥ 1.70.38 ॥
श्लोक 39
भगीरथात् ककुत्स्थश्च ककुत्स्थाच्च रघुस्तथा।
रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः॥
रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः॥
॥ 1.70.39 ॥
श्लोक 40
कल्माषपादोऽप्यभवत् तस्माज्जातस्तु शङ्खणः।
सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात्॥
सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात्॥
॥ 1.70.40 ॥
श्लोक 41
शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरुः सुतः।
मरोः प्रशुश्रुकस्त्वासीदम्बरीषः प्रशुश्रुकात्॥
मरोः प्रशुश्रुकस्त्वासीदम्बरीषः प्रशुश्रुकात्॥
॥ 1.70.41 ॥
श्लोक 42
अम्बरीषस्य पुत्रोऽभून्नहुषश्च महीपतिः।
नहुषस्य ययातिस्तु नाभागस्तु ययातिजः॥ नाभागस्य बभूवाज अजाद् दशरथोऽभवत्।
नहुषस्य ययातिस्तु नाभागस्तु ययातिजः॥ नाभागस्य बभूवाज अजाद् दशरथोऽभवत्।
॥ 1.70.42 ॥
श्लोक 43
अस्माद् दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ॥
॥ 1.70.43 ॥
श्लोक 44
आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम्।
इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम्॥
इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम्॥
॥ 1.70.44 ॥
श्लोक 45
रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप।
सदृशाभ्यां नरश्रेष्ठ सदृशे दातुमर्हसि ॥
सदृशाभ्यां नरश्रेष्ठ सदृशे दातुमर्हसि ॥
॥ 1.70.45 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्ततितमः सर्गः॥७०॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में सत्तरवाँ सर्ग पूरा हुआ।७०॥
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में सत्तरवाँ सर्ग पूरा हुआ।७०॥
🔍 शब्दार्थ
| संस्कृत शब्द | हिंदी अर्थ |
|---|---|
| इति | इस प्रकार (अव्यय) |
| आर्षे | ऋषि द्वारा कथित (सप्तमी विभक्ति) |
| श्रीमद्रामायणे | श्रीमद्रामायण में (सप्तमी विभक्ति) |
| वाल्मीकीये | वाल्मीकि द्वारा रचित (सप्तमी विभक्ति) |
| आदिकाव्ये | आदिकाव्य में (सप्तमी विभक्ति) |
| बालकाण्डे | बालकाण्ड में (सप्तमी विभक्ति) |
| सप्ततितमः | सत्तरवाँ (प्रथमा विभक्ति) |
| सर्गः | सर्ग (प्रथमा विभक्ति) |
| ॥७०॥ | संख्या ७० (सर्ग संख्या) |