वाल्मीकि रामायण

बालकाण्ड सर्ग 65 | श्रीमद्वाल्मीकि रामायण

🌿 सर्ग 65: विश्वामित्र की घोर तपस्या, उन्हें ब्राह्मणत्व की प्राप्ति तथा राजा जनक का उनकी प्रशंसा करके उनसे विदा ले राजभवन को लौटना
Vishwamitra's severe penance, his attainment of Brahminhood, and King Janaka praising him and taking leave to return to his palace
कुल श्लोक: 40
श्लोक 1
अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः।
पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम्॥
॥ 1.65.1 ॥
श्लोक 2
मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम्।
चकाराप्रतिमं राम तपः परमदुष्करम्॥
॥ 1.65.2 ॥
श्लोक 3
पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम्।
विघ्नैर्बहुभिराधूतं क्रोधो नान्तरमाविशत्॥
॥ 1.65.3 ॥
श्लोक 4
स कृत्वा निश्चयं राम तप आतिष्ठताव्ययम्।
तस्य वर्षसहस्रस्य व्रते पूर्णे महाव्रतः॥ भोक्तुमारब्धवानन्नं तस्मिन् काले रघूत्तम।
॥ 1.65.4 ॥
श्लोक 5
इन्द्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत॥
॥ 1.65.5 ॥
श्लोक 6
तस्मै दत्त्वा तदा सिद्धं सर्वं विप्राय निश्चितः।
निःशेषितेऽन्ने भगवानभुक्त्वैव महातपाः॥
॥ 1.65.6 ॥
श्लोक 7
न किंचिदवदद् विप्रं मौनव्रतमुपास्थितः।

तथैवासीत् पुनर्मौनमनुच्छ्वासं चकार ह॥
॥ 1.65.7 ॥
श्लोक 8
अथ वर्षसहस्रं च नोच्छ्वसन् मुनिपुंगवः।
तस्यानुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत॥
॥ 1.65.8 ॥
श्लोक 9
त्रैलोक्यं येन सम्भ्रान्तमातापितमिवाभवत्।
ततो देवर्षिगन्धर्वाः पन्नगोरगराक्षसाः॥ मोहितास्तपसा तस्य तेजसा मन्दरश्मयः।
॥ 1.65.9 ॥
श्लोक 10
कश्मलोपहताः सर्वे पितामहमथाब्रुवन्॥
॥ 1.65.10 ॥
श्लोक 11
बहुभिः कारणैर्देव विश्वामित्रो महामुनिः।
लोभितः क्रोधितश्चैव तपसा चाभिवर्धते॥
॥ 1.65.11 ॥
श्लोक 12
नह्यस्य वृजिनं किंचिद् दृश्यते सूक्ष्ममप्युत।
न दीयते यदि त्वस्य मनसा यदभीप्सितम्॥ विनाशयति त्रैलोक्यं तपसा सचराचरम्।
॥ 1.65.12 ॥
श्लोक 13
व्याकुलाश्च दिशः सर्वा न च किंचित् प्रकाशते॥
॥ 1.65.13 ॥
श्लोक 14
सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः।
प्रकम्पते च वसुधा वायुर्वातीह संकुलः॥
॥ 1.65.14 ॥
श्लोक 15
ब्रह्मन् न प्रतिजानीमो नास्तिको जायते जनः।
सम्मूढमिव त्रैलोक्यं सम्प्रक्षुभितमानसम्॥
॥ 1.65.15 ॥
श्लोक 16
भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा।
बुद्धिं न कुरुते यावन्नाशे देव महामुनिः॥ तावत् प्रसादो भगवन्नग्निरूपो महाद्युतिः।
॥ 1.65.16 ॥
श्लोक 17
कालाग्निना यथा पूर्वं त्रैलोक्यं दह्यतेऽखिलम्॥ देवराज्यं चिकीर्षते दीयतामस्य यन्मनः।
॥ 1.65.17 ॥
श्लोक 18
ततः सुरगणाः सर्वे पितामहपुरोगमाः॥ विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन्।
॥ 1.65.18 ॥
श्लोक 19
ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताः॥ ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक।
॥ 1.65.19 ॥
श्लोक 20
दीर्घमायुश्च ते ब्रह्मन् ददामि समरुद्गणः॥ स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम्।
॥ 1.65.20 ॥
श्लोक 21
पितामहवचः श्रुत्वा सर्वेषां त्रिदिवौकसाम्॥ कृत्वा प्रणामं मुदितो व्याजहार महामुनिः।
॥ 1.65.21 ॥
श्लोक 22
ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च ॥ ॐकारोऽथ वषट्कारो वेदाश्च वरयन्तु माम्।
॥ 1.65.22 ॥
श्लोक 23
क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि॥ ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः।
॥ 1.65.23 ॥
श्लोक 24
यद्येवं परमः कामः कृतो यान्तु सुरर्षभाः॥
॥ 1.65.24 ॥
श्लोक 25
ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः।
सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत्॥
॥ 1.65.25 ॥
श्लोक 26
ब्रह्मर्षिस्त्वं न संदेहः सर्वं सम्पद्यते तव।
इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम्॥
॥ 1.65.26 ॥
श्लोक 27
विश्वामित्रोऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यमुत्तमम्।
पूजयामास ब्रह्मर्षि वसिष्ठं जपतां वरम्॥
॥ 1.65.27 ॥
श्लोक 28
कृतकामो महीं सर्वां चचार तपसि स्थितः।
एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना॥
॥ 1.65.28 ॥
श्लोक 29
एष राम मुनिश्रेष्ठ एष विग्रहवांस्तपः।
एष धर्मः परो नित्यं वीर्यस्यैष परायणम्॥
॥ 1.65.29 ॥
श्लोक 30
एवमुक्त्वा महातेजा विरराम द्विजोत्तमः।
शतानन्दवचः श्रुत्वा रामलक्ष्मणसंनिधौ॥ जनकः प्राञ्जलिर्वाक्यमुवाच कुशिकात्मजम्।
॥ 1.65.30 ॥
श्लोक 31
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगव॥ यज्ञं काकुत्स्थसहितः प्राप्तवानसि कौशिक।
॥ 1.65.31 ॥
श्लोक 32
पावितोऽहं त्वया ब्रह्मन् दर्शनेन महामुने॥
॥ 1.65.32 ॥
श्लोक 33
गुणा बहुविधाः प्राप्तास्तव संदर्शनान्मया।
विस्तरेण च वै ब्रह्मन् कीर्त्यमानं महत्तपः॥ श्रुतं मया महातेजो रामेण च महात्मना।
॥ 1.65.33 ॥
श्लोक 34
सदस्यैः प्राप्य च सदः श्रुतास्ते बहवो गुणाः॥
॥ 1.65.34 ॥
श्लोक 35
अप्रमेयं तपस्तुभ्यमप्रमेयं च ते बलम्।
अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज॥
॥ 1.65.35 ॥
श्लोक 36
तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो।
कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम्॥
॥ 1.65.36 ॥
श्लोक 37
श्वः प्रभाते महातेजो द्रष्टुमर्हसि मां पुनः।
स्वागतं जपतां श्रेष्ठ मामनुज्ञातुमर्हसि ॥
॥ 1.65.37 ॥
श्लोक 38
एवमुक्तो मुनिवरः प्रशस्य पुरुषर्षभम्।
विससर्जाशु जनकं प्रीतं प्रीतमनास्तदा॥
॥ 1.65.38 ॥
श्लोक 39
एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः।
प्रदक्षिणं चकाराशु सोपाध्यायः सबान्धवः॥
॥ 1.65.39 ॥
श्लोक 40
विश्वामित्रोऽपि धर्मात्मा सहरामः सलक्ष्मणः।
स्ववासमभिचक्राम पूज्यमानो महात्मभिः॥
॥ 1.65.40 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चषष्टितमः सर्गः॥६५॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में पैंसठवाँ सर्ग पूरा हुआ। ६५॥
🔍 शब्दार्थ
संस्कृत शब्द हिंदी अर्थ
इति इस प्रकार (अव्यय)
आर्षे ऋषि द्वारा कथित (सप्तमी विभक्ति)
श्रीमद्रामायणे श्रीमद्रामायण में (सप्तमी विभक्ति)
वाल्मीकीये वाल्मीकि द्वारा रचित (सप्तमी विभक्ति)
आदिकाव्ये आदिकाव्य में (सप्तमी विभक्ति)
बालकाण्डे बालकाण्ड में (सप्तमी विभक्ति)
पञ्चषष्टितमः पैंसठवाँ (प्रथमा विभक्ति)
सर्गः सर्ग (प्रथमा विभक्ति)
॥६५॥ संख्या ६५ (सर्ग संख्या)

ॐ श्रीरामाय नमः

वाल्मीकि रामायणम् | श्रीरामसमर्पितम्

www.valmikiramayan.in