🌿 सर्ग 64: विश्वामित्र का रम्भा को शाप देकर पुनः घोर तपस्या के लिये दीक्षा लेना
Vishwamitra curses Rambha and again takes initiation for severe penance
कुल श्लोक: 20
श्लोक 1
सुरकार्यमिदं रम्भे कर्तव्यं सुमहत् त्वया।
लोभनं कौशिकस्येह काममोहसमन्वितम्॥
लोभनं कौशिकस्येह काममोहसमन्वितम्॥
॥ 1.64.1 ॥
श्लोक 2
तथोक्ता साप्सरा राम सहस्राक्षेण धीमता।
वीडिता प्राञ्जलिर्वाक्यं प्रत्युवाच सुरेश्वरम्॥
वीडिता प्राञ्जलिर्वाक्यं प्रत्युवाच सुरेश्वरम्॥
॥ 1.64.2 ॥
श्लोक 3
अयं सुरपते घोरो विश्वामित्रो महामुनिः।
क्रोधमुत्स्रक्ष्यते घोरं मयि देव न संशयः॥
क्रोधमुत्स्रक्ष्यते घोरं मयि देव न संशयः॥
॥ 1.64.3 ॥
श्लोक 4
ततो हि मे भयं देव प्रसादं कर्तुमर्हसि।
एवमुक्तस्तया राम सभयं भीतया तदा॥ तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम्।
एवमुक्तस्तया राम सभयं भीतया तदा॥ तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम्।
॥ 1.64.4 ॥
श्लोक 5
मा भैषी रम्भे भद्रं ते कुरुष्व मम शासनम्॥
॥ 1.64.5 ॥
श्लोक 6
कोकिलो हृदयग्राही माधवे रुचिरद्रुमे।
अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः॥
अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः॥
॥ 1.64.6 ॥
श्लोक 7
त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम्।
तमृषिं कौशिकं भद्रे भेदयस्व तपस्विनम्॥
तमृषिं कौशिकं भद्रे भेदयस्व तपस्विनम्॥
॥ 1.64.7 ॥
श्लोक 8
सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम्।
लोभयामास ललिता विश्वामित्रं शुचिस्मिता॥
लोभयामास ललिता विश्वामित्रं शुचिस्मिता॥
॥ 1.64.8 ॥
श्लोक 9
कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम्।
सम्प्रहृष्टेन मनसा स चैनामन्ववैक्षत॥
सम्प्रहृष्टेन मनसा स चैनामन्ववैक्षत॥
॥ 1.64.9 ॥
श्लोक 10
अथ तस्य च शब्देन गीतेनाप्रतिमेन च।
दर्शनेन च रम्भाया मुनिः संदेहमागतः॥
दर्शनेन च रम्भाया मुनिः संदेहमागतः॥
॥ 1.64.10 ॥
श्लोक 11
सहस्राक्षस्य तत्सर्वं विज्ञाय मुनिपुंगवः।
रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः॥
रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः॥
॥ 1.64.11 ॥
श्लोक 12
यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम्।
दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे॥
दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे॥
॥ 1.64.12 ॥
श्लोक 13
ब्राह्मणः सुमहातेजास्तपोबलसमन्वितः।
उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम्॥
उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम्॥
॥ 1.64.13 ॥
श्लोक 14
एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः।
अशक्नुवन् धारयितुं कोपं संतापमात्मनः॥
अशक्नुवन् धारयितुं कोपं संतापमात्मनः॥
॥ 1.64.14 ॥
श्लोक 15
तस्य शापेन महता रम्भा शैली तदाभवत्।
वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः॥
वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः॥
॥ 1.64.15 ॥
श्लोक 16
कोपेन च महातेजास्तपोऽपहरणे कृते।
इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः॥
इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः॥
॥ 1.64.16 ॥
श्लोक 17
बभूवास्य मनश्चिन्ता तपोऽपहरणे कृते।
नैवं क्रोधं गमिष्यामि न च वक्ष्ये कथंचन॥
नैवं क्रोधं गमिष्यामि न च वक्ष्ये कथंचन॥
॥ 1.64.17 ॥
श्लोक 18
अथवा नोच्छ्वसिष्यामि संवत्सरशतान्यपि।
अहं हि शोषयिष्यामि आत्मानं विजितेन्द्रियः॥
अहं हि शोषयिष्यामि आत्मानं विजितेन्द्रियः॥
॥ 1.64.18 ॥
श्लोक 19
तावद् यावद्धि मे प्राप्तं ब्राह्मण्यं तपसार्जितम्।
अनुच्छ्वसन्नभुञ्जानस्तिष्ठेयं शाश्वतीः समाः॥
अनुच्छ्वसन्नभुञ्जानस्तिष्ठेयं शाश्वतीः समाः॥
॥ 1.64.19 ॥
श्लोक 20
नहि मे तप्यमानस्य क्षयं यास्यन्ति मूर्तयः।
एवं वर्षसहस्रस्य दीक्षां स मुनिपुंगवः।
चकाराप्रतिमां लोके प्रतिज्ञां रघुनन्दन॥
एवं वर्षसहस्रस्य दीक्षां स मुनिपुंगवः।
चकाराप्रतिमां लोके प्रतिज्ञां रघुनन्दन॥
॥ 1.64.20 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःषष्टितमः सर्गः॥६४॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में चौंसठवाँ सर्ग पूरा हुआ।६४॥
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में चौंसठवाँ सर्ग पूरा हुआ।६४॥
🔍 शब्दार्थ
| संस्कृत शब्द | हिंदी अर्थ |
|---|---|
| इति | इस प्रकार (अव्यय) |
| आर्षे | ऋषि द्वारा कथित (सप्तमी विभक्ति) |
| श्रीमद्रामायणे | श्रीमद्रामायण में (सप्तमी विभक्ति) |
| वाल्मीकीये | वाल्मीकि द्वारा रचित (सप्तमी विभक्ति) |
| आदिकाव्ये | आदिकाव्य में (सप्तमी विभक्ति) |
| बालकाण्डे | बालकाण्ड में (सप्तमी विभक्ति) |
| चतुःषष्टितमः | चौंसठवाँ (प्रथमा विभक्ति) |
| सर्गः | सर्ग (प्रथमा विभक्ति) |
| ॥६४॥ | संख्या ६४ (सर्ग संख्या) |