वाल्मीकि रामायण

बालकाण्ड सर्ग 63 | श्रीमद्वाल्मीकि रामायण

🌿 सर्ग 63: विश्वामित्र को ऋषि एवं महर्षिपद की प्राप्ति, मेनका द्वारा उनका तपोभंग तथा ब्रह्मर्षिपद की प्राप्ति के लिये उनकी घोर तपस्या
Vishwamitra attains the status of Rishi and Maharshi, Menaka disturbs his penance, and his severe penance to attain the status of Brahmarshi
कुल श्लोक: 26
श्लोक 1
पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम्।
अभ्यगच्छन् सुराः सर्वे तपः फलचिकीर्षवः॥
॥ 1.63.1 ॥
श्लोक 2
अब्रवीत् सुमहातेजा ब्रह्मा सुरुचिरं वचः।
ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः॥
॥ 1.63.2 ॥
श्लोक 3
तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात्।
विश्वामित्रो महातेजा भूयस्तेपे महत् तपः॥
॥ 1.63.3 ॥
श्लोक 4
ततः कालेन महता मेनका परमाप्सराः।
पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे ॥
॥ 1.63.4 ॥
श्लोक 5
तां ददर्श महातेजा मेनकां कुशिकात्मजः।
रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा॥
॥ 1.63.5 ॥
श्लोक 6
कन्दर्पदर्पवशगो मुनिस्तामिदमब्रवीत्।
अप्सरः स्वागतं तेऽस्तु वस चेह ममाश्रमे॥
॥ 1.63.6 ॥
श्लोक 7
अनुगृह्णीष्व भद्रं ते मदनेन विमोहितम्।

इत्युक्ता सा वरारोहा तत्र वासमथाकरोत्॥
॥ 1.63.7 ॥
श्लोक 8
तपसो हि महाविघ्नो विश्वामित्रमुपागमत्।
तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव॥ विश्वामित्राश्रमे सौम्ये सुखेन व्यतिचक्रमः।
॥ 1.63.8 ॥
श्लोक 9
अथ काले गते तस्मिन् विश्वामित्रो महामुनिः॥ सव्रीड इव संवृत्तश्चिन्ताशोकपरायणः।
॥ 1.63.9 ॥
श्लोक 10
बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दन॥ सर्वं सुराणां कर्मैतत् तपोऽपहरणं महत्।
॥ 1.63.10 ॥
श्लोक 11
अहोरात्रापदेशेन गताः संवत्सरा दश॥ काममोहाभिभूतस्य विघ्नोऽयं प्रत्युपस्थितः।
॥ 1.63.11 ॥
श्लोक 12
स निःश्वसन् मुनिवरः पश्चात्तापेन दुःखितः॥
॥ 1.63.12 ॥
श्लोक 13
भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम्।
मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः॥ उत्तरं पर्वतं राम विश्वामित्रो जगाम ह।
॥ 1.63.13 ॥
श्लोक 14
स कृत्वा नैष्ठिकी बुद्धिं जेतुकामो महायशाः॥ कौशिकीतीरमासाद्य तपस्तेपे दुरासदम्।
॥ 1.63.14 ॥
श्लोक 15
तस्य वर्षसहस्राणि घोरं तप उपासतः॥ उत्तरे पर्वते राम देवतानामभूद् भयम्।
॥ 1.63.15 ॥
श्लोक 16
आमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः॥ महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः।
॥ 1.63.16 ॥
श्लोक 17
देवतानां वचः श्रुत्वा सर्वलोकपितामहः ॥ अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्।
॥ 1.63.17 ॥
श्लोक 18
महर्षे स्वागतं वत्स तपसोग्रेण तोषितः॥ महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक।
॥ 1.63.18 ॥
श्लोक 19
ब्रह्मणस्तु वचः श्रुत्वा विश्वामित्रस्तपोधनः॥ प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम्।
॥ 1.63.19 ॥
श्लोक 20
ब्रह्मर्षिशब्दमतुलं स्वार्जितैः कर्मभिः शुभैः॥ यदि मे भगवन्नाह ततोऽहं विजितेन्द्रियः।
॥ 1.63.20 ॥
श्लोक 21
तमुवाच ततो ब्रह्मा न तावत् त्वं जितेन्द्रियः॥ यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः।
॥ 1.63.21 ॥
श्लोक 22
विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः॥ ऊर्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन्।
॥ 1.63.22 ॥
श्लोक 23
घर्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः॥ शिशिरे सलिलेशायी रात्र्यहानि तपोधनः।
॥ 1.63.23 ॥
श्लोक 24
एवं वर्षसहस्रं हि तपो घोरमुपागमत्॥
॥ 1.63.24 ॥
श्लोक 25
तस्मिन् संतप्यमाने तु विश्वामित्रे महामुनौ।
संतापः सुमहानासीत् सुराणां वासवस्य च॥
॥ 1.63.25 ॥
श्लोक 26
रम्भामप्सरसं शक्रः सर्वैः सह मरुद्गणैः।
उवाचात्महितं वाक्यमहितं कौशिकस्य च॥
॥ 1.63.26 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिषष्टितमः सर्गः॥६३॥
हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में तिरसठवाँ सर्ग पूरा हुआ। ६३॥
🔍 शब्दार्थ
संस्कृत शब्द हिंदी अर्थ
इति इस प्रकार (अव्यय)
आर्षे ऋषि द्वारा कथित (सप्तमी विभक्ति)
श्रीमद्रामायणे श्रीमद्रामायण में (सप्तमी विभक्ति)
वाल्मीकीये वाल्मीकि द्वारा रचित (सप्तमी विभक्ति)
आदिकाव्ये आदिकाव्य में (सप्तमी विभक्ति)
बालकाण्डे बालकाण्ड में (सप्तमी विभक्ति)
त्रिषष्टितमः तिरसठवाँ (प्रथमा विभक्ति)
सर्गः सर्ग (प्रथमा विभक्ति)
॥६३॥ संख्या ६३ (सर्ग संख्या)

ॐ श्रीरामाय नमः

वाल्मीकि रामायणम् | श्रीरामसमर्पितम्

www.valmikiramayan.in