वाल्मीकि रामायण

बालकाण्ड सर्ग 60 | श्रीमद्वाल्मीकि रामायण

🌿 सर्ग 60: ऋषियोंद्वारा यज्ञ का आरम्भ, त्रिशंकु का सशरीर स्वर्गगमन, इन्द्र द्वारा स्वर्ग से उनके गिराये जाने पर क्षुब्ध हुए विश्वामित्र का नूतन देवसर्ग के लिये उद्योग
The sages begin the sacrifice, Trishanku ascends to heaven in his mortal body, and when Indra casts him down, an enraged Vishwamitra endeavors to create a new heaven
कुल श्लोक: 32
श्लोक 1
तपोबलहतान् ज्ञात्वा वासिष्ठान् समहोदयान्।
ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत॥
॥ 1.60.1 ॥
श्लोक 2
अयमिक्ष्वाकुदायादस्त्रिशङ्कुरिति विश्रुतः।
धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः॥
॥ 1.60.2 ॥
श्लोक 3
स्वेनानेन शरीरेण देवलोकजिगीषया।
यथायं स्वशरीरेण देवलोकं गमिष्यति॥ तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह।
॥ 1.60.3 ॥
श्लोक 4
विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः॥ ऊचुः समेताः सहसा धर्मज्ञा धर्मसंहितम्।
॥ 1.60.4 ॥
श्लोक 5
अयं कुशिकदायादो मुनिः परमकोपनः॥ यदाह वचनं सम्यगेतत् कार्यं न संशयः।
॥ 1.60.5 ॥
श्लोक 6
अग्निकल्पो हि भगवान् शापं दास्यति रोषतः॥ तस्मात् प्रवर्त्यतां यज्ञः सशरीरो यथा दिवि।
गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा॥
॥ 1.60.6 ॥
श्लोक 7
ततः प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठत।
एवमुक्त्वा महर्षयः संजह्रुस्ताः क्रियास्तदा ॥
॥ 1.60.7 ॥
श्लोक 8
याजकश्च महातेजा विश्वामित्रोऽभवत् क्रतौ।
ऋत्विजश्चानुपूर्व्येण मन्त्रवन्मन्त्रकोविदाः॥ चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि।
॥ 1.60.8 ॥
श्लोक 9
ततः कालेन महता विश्वामित्रो महातपाः॥ चकारावाहनं तत्र भागार्थं सर्वदेवताः।
॥ 1.60.9 ॥
श्लोक 10
नाभ्यागमंस्तदा तत्र भागार्थं सर्वदेवताः॥
॥ 1.60.10 ॥
श्लोक 11
ततः कोपसमाविष्टो विश्वामित्रो महामुनिः।
स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत्॥
॥ 1.60.11 ॥
श्लोक 12
पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर।
एष त्वां स्वशरीरेण नयामि स्वर्गमोजसा ॥
॥ 1.60.12 ॥
श्लोक 13
दुष्प्रापं स्वशरीरेण स्वर्गं गच्छ नरेश्वर।
स्वार्जितं किंचिदप्यस्ति मया हि तपसः फलम्॥ राजंस्त्वं तेजसा तस्य सशरीरो दिवं व्रज।
॥ 1.60.13 ॥
श्लोक 14
उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः॥ दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा।
॥ 1.60.14 ॥
श्लोक 15
स्वर्गलोकं गतं दृष्ट्वा त्रिशङ्कुं पाकशासनः॥ सह सर्वैः सुरगणैरिदं वचनमब्रवीत्।
॥ 1.60.15 ॥
श्लोक 16
त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः॥ गुरुशापहतो मूढ पत भूमिमवाक्शिराः।
॥ 1.60.16 ॥
श्लोक 17
एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत् पुनः॥ विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम्।
॥ 1.60.17 ॥
श्लोक 18
तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः॥ रोषमाहारयत् तीव्रं तिष्ठ तिष्ठति चाब्रवीत्।
॥ 1.60.18 ॥
श्लोक 19
ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः॥ सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः।
॥ 1.60.19 ॥
श्लोक 20
नक्षत्रवंशमपरमसृजत् क्रोधमूर्च्छितः॥
॥ 1.60.20 ॥
श्लोक 21
दक्षिणां दिशमास्थाय ऋषिमध्ये महायशाः।
सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः॥ अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः।
॥ 1.60.21 ॥
श्लोक 22
दैवतान्यपि स क्रोधात् स्रष्टुं समुपचक्रमे॥
॥ 1.60.22 ॥
श्लोक 23
ततः परमसम्भ्रान्ताः सर्षिसङ्गाः सुरासुराः।
विश्वामित्रं महात्मानमूचुः सानुनयं वचः॥
॥ 1.60.23 ॥
श्लोक 24
अयं राजा महाभाग गुरुशापपरिक्षतः।
सशरीरो दिवं यातुं नार्हत्येव तपोधन॥
॥ 1.60.24 ॥
श्लोक 25
तेषां तद् वचनं श्रुत्वा देवानां मुनिपुंगवः।
अब्रवीत् सुमहद् वाक्यं कौशिकः सर्वदेवताः॥
॥ 1.60.25 ॥
श्लोक 26
सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य भूपतेः।
आरोहणं प्रतिज्ञातं नानृतं कर्तुमुत्सहे॥
॥ 1.60.26 ॥
श्लोक 27
स्वर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः।
नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ॥ यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः।
यत् कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ॥
॥ 1.60.27 ॥
श्लोक 28
एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनिपुंगवम्।
एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशः॥ गगने तान्यनेकानि वैश्वानरपथाद् बहिः।
॥ 1.60.28 ॥
श्लोक 29
नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिःषु जाज्वलन्॥ अवाक्शिरास्त्रिशङ्कुश्च तिष्ठत्वमरसंनिभः।
॥ 1.60.29 ॥
श्लोक 30
अनुयास्यन्ति चैतानि ज्योतींषि नृपसत्तमम्॥ कृतार्थं कीर्तिमन्तं च स्वर्गलोकगतं यथा।
॥ 1.60.30 ॥
श्लोक 31
विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः॥ ऋषिमध्ये महातेजा बाढमित्येव देवताः।
॥ 1.60.31 ॥
श्लोक 32
ततो देवा महात्मानो ऋषयश्च तपोधनाः।
जग्मुर्यथागतं सर्वे यज्ञस्यान्ते नरोत्तम ॥
॥ 1.60.32 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षष्टितमः सर्गः॥६०॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में साठवाँ सर्ग पूरा हुआ।६०॥
🔍 शब्दार्थ
संस्कृत शब्द हिंदी अर्थ
इति इस प्रकार (अव्यय)
आर्षे ऋषि द्वारा कथित (सप्तमी विभक्ति)
श्रीमद्रामायणे श्रीमद्रामायण में (सप्तमी विभक्ति)
वाल्मीकीये वाल्मीकि द्वारा रचित (सप्तमी विभक्ति)
आदिकाव्ये आदिकाव्य में (सप्तमी विभक्ति)
बालकाण्डे बालकाण्ड में (सप्तमी विभक्ति)
षष्टितमः साठवाँ (प्रथमा विभक्ति)
सर्गः सर्ग (प्रथमा विभक्ति)
॥६०॥ संख्या ६० (सर्ग संख्या)

ॐ श्रीरामाय नमः

वाल्मीकि रामायणम् | श्रीरामसमर्पितम्

www.valmikiramayan.in