🌿 सर्ग 53: विश्वामित्र का वसिष्ठ से उनकी कामधेनु को माँगना और उनका देने से अस्वीकार करना
Vishwamitra asks Vasishtha for his Kamadhenu and Vasishtha refuses to give it
कुल श्लोक: 25
श्लोक 1
एवमुक्ता वसिष्ठेन शबला शत्रुसूदन।
विदधे कामधुक् कामान् यस्य यस्येप्सितं यथा॥
विदधे कामधुक् कामान् यस्य यस्येप्सितं यथा॥
॥ 1.53.1 ॥
श्लोक 2
इक्षून् मधूंस्तथा लाजान् मैरेयांश्च वरासवान्।
पानानि च महार्हाणि भक्ष्यांश्चोच्चावचानपि॥
पानानि च महार्हाणि भक्ष्यांश्चोच्चावचानपि॥
॥ 1.53.2 ॥
श्लोक 3
उष्णाढ्यस्यौदनस्यात्र राशयः पर्वतोपमाः।
मृष्टान्यन्नानि सूपांश्च दधिकुल्यास्तथैव च ॥
मृष्टान्यन्नानि सूपांश्च दधिकुल्यास्तथैव च ॥
॥ 1.53.3 ॥
श्लोक 4
नानास्वादुरसानां च खाण्डवानां तथैव च।
भोजनानि सुपूर्णानि गौडानि च सहस्रशः॥
भोजनानि सुपूर्णानि गौडानि च सहस्रशः॥
॥ 1.53.4 ॥
श्लोक 5
सर्वमासीत् सुसंतुष्टं हृष्टपुष्टजनायुतम्।
विश्वामित्रबलं राम वसिष्ठेन सुतर्पितम्॥
विश्वामित्रबलं राम वसिष्ठेन सुतर्पितम्॥
॥ 1.53.5 ॥
श्लोक 6
विश्वामित्रो हि राजर्षिर्हृष्टपुष्टस्तदाभवत्।
सान्तःपुरवरो राजा सब्राह्मणपुरोहितः॥
सान्तःपुरवरो राजा सब्राह्मणपुरोहितः॥
॥ 1.53.6 ॥
श्लोक 7
सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा।
युक्तः परमहर्षेण वसिष्ठमिदमब्रवीत्॥
युक्तः परमहर्षेण वसिष्ठमिदमब्रवीत्॥
॥ 1.53.7 ॥
श्लोक 8
पूजितोऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः।
श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद॥
श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद॥
॥ 1.53.8 ॥
श्लोक 9
गवां शतसहस्रेण दीयतां शबला मम।
रत्नं हि भगवन्नेतद् रत्नहारी च पार्थिवः॥ तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज।
रत्नं हि भगवन्नेतद् रत्नहारी च पार्थिवः॥ तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज।
॥ 1.53.9 ॥
श्लोक 10
एवमुक्तस्तु भगवान् वसिष्ठो मुनिपुंगवः॥ विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम्।
॥ 1.53.10 ॥
श्लोक 11
नाहं शतसहस्रेण नापि कोटिशतैर्गवाम्॥ राजन् दास्यामि शबलां राशिभी रजतस्य वा।
॥ 1.53.11 ॥
श्लोक 12
न परित्यागमर्हति मत्सकाशादरिंदम॥
॥ 1.53.12 ॥
श्लोक 13
शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा।
अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च॥
अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च॥
॥ 1.53.13 ॥
श्लोक 14
आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च।
स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा॥
स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा॥
॥ 1.53.14 ॥
श्लोक 15
आयत्तमत्र राजर्षे सर्वमेतन्न संशयः।
सर्वस्वमेतत् सत्येन मम तुष्टिकरी तथा॥ कारणैर्बहुभी राजन् न दास्ये शबलां तव।
सर्वस्वमेतत् सत्येन मम तुष्टिकरी तथा॥ कारणैर्बहुभी राजन् न दास्ये शबलां तव।
॥ 1.53.15 ॥
श्लोक 16
वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत् तदा॥ संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः।
॥ 1.53.16 ॥
श्लोक 17
हैरण्यकक्षप्रैवेयान् सुवर्णाङ्कशभूषितान्॥ ददामि कुञ्जराणां ते सहस्राणि चतुर्दश।
॥ 1.53.17 ॥
श्लोक 18
हैरण्यानां रथानां च श्वेताश्वानां चतुर्युजाम्॥ ददामि ते शतान्यष्टौ किंकिणीकविभूषितान्।
॥ 1.53.18 ॥
श्लोक 19
हयानां देशजातानां कुलजानां महौजसाम्।
सहस्रमेकं दश च ददामि तव सुव्रत॥ नानावर्णविभक्तानां वयःस्थानां तथैव च।
सहस्रमेकं दश च ददामि तव सुव्रत॥ नानावर्णविभक्तानां वयःस्थानां तथैव च।
॥ 1.53.19 ॥
श्लोक 20
ददाम्येकां गवां कोटिं शबला दीयतां मम॥
॥ 1.53.20 ॥
श्लोक 21
यावदिच्छसि रत्नानि हिरण्यं वा द्विजोत्तम।
तावद् ददामि ते सर्वं दीयतां शबला मम॥
तावद् ददामि ते सर्वं दीयतां शबला मम॥
॥ 1.53.21 ॥
श्लोक 22
एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता।
न दास्यामीति शबलां प्राह राजन् कथंचन॥
न दास्यामीति शबलां प्राह राजन् कथंचन॥
॥ 1.53.22 ॥
श्लोक 23
एतदेव हि मे रत्नमेतदेव हि मे धनम्।
एतदेव हि सर्वस्वमेतदेव हि जीवितम्॥
एतदेव हि सर्वस्वमेतदेव हि जीवितम्॥
॥ 1.53.23 ॥
श्लोक 24
दर्शश्च पौर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः।
एतदेव हि मे राजन् विविधाश्च क्रियास्तथा॥
एतदेव हि मे राजन् विविधाश्च क्रियास्तथा॥
॥ 1.53.24 ॥
श्लोक 25
अतोमूलाः क्रियाः सर्वा मम राजन् न संशयः।
बहुना किं प्रलापेन न दास्ये कामदोहिनीम्॥
बहुना किं प्रलापेन न दास्ये कामदोहिनीम्॥
॥ 1.53.25 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिपञ्चाशः सर्गः॥५३॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में तिरपनवाँ सर्ग पूरा हुआ।५३॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में तिरपनवाँ सर्ग पूरा हुआ।५३॥
🔍 शब्दार्थ
| संस्कृत शब्द | हिंदी अर्थ |
|---|---|
| इति | इस प्रकार (अव्यय) |
| आर्षे | ऋषि द्वारा कथित (सप्तमी विभक्ति) |
| श्रीमद्रामायणे | श्रीमद्रामायण में (सप्तमी विभक्ति) |
| वाल्मीकीये | वाल्मीकि द्वारा रचित (सप्तमी विभक्ति) |
| आदिकाव्ये | आदिकाव्य में (सप्तमी विभक्ति) |
| बालकाण्डे | बालकाण्ड में (सप्तमी विभक्ति) |
| त्रिपञ्चाशः | तिरपनवाँ (प्रथमा विभक्ति) |
| सर्गः | सर्ग (प्रथमा विभक्ति) |
| ॥५३॥ | संख्या ५३ (सर्ग संख्या) |