वाल्मीकि रामायण

बालकाण्ड सर्ग 51 | श्रीमद्वाल्मीकि रामायण

🌿 सर्ग 51: शतानन्द को अहल्या के उद्धार का समाचार बताना, शतानन्द द्वारा श्रीराम का अभिनन्दन करते हुए विश्वामित्रजी के पूर्वचरित्र का वर्णन
Shatananda is informed of Ahalya's redemption, and he welcomes Shri Rama while narrating Vishwamitra's earlier life
कुल श्लोक: 28
श्लोक 1
तस्य तद् वचनं श्रुत्वा विश्वामित्रस्य धीमतः।
हृष्टरोमा महातेजाः शतानन्दो महातपाः॥
॥ 1.51.1 ॥
श्लोक 2
गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः।
रामसंदर्शनादेव परं विस्मयमागतः॥
॥ 1.51.2 ॥
श्लोक 3
एतौ निषण्णौ सम्प्रेक्ष्य शतानन्दो नृपात्मजौ।
सुखासीनौ मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत्॥
॥ 1.51.3 ॥
श्लोक 4
अपि ते मुनिशार्दूल मम माता यशस्विनी।
दर्शिता राजपुत्राय तपोदीर्घमुपागता॥
॥ 1.51.4 ॥
श्लोक 5
अपि रामे महातेजा मम माता यशस्विनी।
वन्यैरुपाहरत् पूजां पूजार्हे सर्वदेहिनाम्॥
॥ 1.51.5 ॥
श्लोक 6
अपि रामाय कथितं यद् वृत्तं तत् पुरातनम्।
मम मातुर्महातेजो देवेन दुरनुष्ठितम्॥
॥ 1.51.6 ॥
श्लोक 7
अपि कौशिक भद्रं ते गुरुणा मम संगता।
मम माता मुनिश्रेष्ठ रामसंदर्शनादितः॥
॥ 1.51.7 ॥
श्लोक 8
अपि मे गुरुणा रामः पूजितः कुशिकात्मज।
इहागतो महातेजाः पूजां प्राप्य महात्मनः॥
॥ 1.51.8 ॥
श्लोक 9
अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज।
इहागतेन रामेण पूजितेनाभिवादितः॥
॥ 1.51.9 ॥
श्लोक 10
तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः।
प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम्॥
॥ 1.51.10 ॥
श्लोक 11
नातिक्रान्तं मुनिश्रेष्ठ यत्कर्तव्यं कृतं मया।
संगता मुनिना पत्नी भार्गवेणेव रेणुका॥
॥ 1.51.11 ॥
श्लोक 12
तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः।
शतानन्दो महातेजा रामं वचनमब्रवीत्॥
॥ 1.51.12 ॥
श्लोक 13
स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव।
विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम्॥
॥ 1.51.13 ॥
श्लोक 14
अचिन्त्यकर्मा तपसा ब्रह्मर्षिरमितप्रभः।
विश्वामित्रो महातेजा वेम्येनं परमां गतिम्॥
॥ 1.51.14 ॥
श्लोक 15
नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चन।
गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः॥
॥ 1.51.15 ॥
श्लोक 16
श्रूयतां चाभिधास्यामि कौशिकस्य महात्मनः।
यथाबलं यथातत्त्वं तन्मे निगदतः शृणु॥
॥ 1.51.16 ॥
श्लोक 17
राजाऽऽसीदेष धर्मात्मा दीर्घकालमरिंदमः।
धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः॥
॥ 1.51.17 ॥
श्लोक 18
प्रजापतिसुतस्त्वासीत् कुशो नाम महीपतिः।
कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः॥
॥ 1.51.18 ॥
श्लोक 19
कुशनाभसुतस्त्वासीद् गाधिरित्येव विश्रुतः।
गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः॥
॥ 1.51.19 ॥
श्लोक 20
विश्वामित्रो महातेजाः पालयामास मेदिनीम्।
बहुवर्षसहस्राणि राजा राज्यमकारयत्॥
॥ 1.51.20 ॥
श्लोक 21
कदाचित् तु महातेजा योजयित्वा वरूथिनीम्।
अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम्॥
॥ 1.51.21 ॥
श्लोक 22
नगराणि च राष्ट्राणि सरितश्च महागिरीन्।
आश्रमान् क्रमशो राजा विचरन्नाजगाम ह॥ वसिष्ठस्याश्रमपदं नानापुष्पलताद्रुमम्।
॥ 1.51.22 ॥
श्लोक 23
नानामृगगणाकीर्णं सिद्धचारणसेवितम्॥
॥ 1.51.23 ॥
श्लोक 24
देवदानवगन्धर्वैः किंनरैरुपशोभितम्।
प्रशान्तहरिणाकीर्णं द्विजसङ्घनिषेवितम्॥ ब्रह्मर्षिगणसंकीर्णं देवर्षिगणसेवितम्।
॥ 1.51.24 ॥
श्लोक 25
तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः॥ सततं संकुलं श्रीमद्ब्रह्मकल्पैर्महात्मभिः ।
॥ 1.51.25 ॥
श्लोक 26
अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा॥ फलमूलाशनैर्दान्तैर्जितदोषैर्जितेन्द्रियैः।
॥ 1.51.26 ॥
श्लोक 27
ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः॥ अन्यैर्वैखानसैश्चैव समन्तादुपशोभितम्।
॥ 1.51.27 ॥
श्लोक 28
वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम्।
ददर्श जयतां श्रेष्ठो विश्वामित्रो महाबलः॥
॥ 1.51.28 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकपञ्चाशः सर्गः॥५१॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में इक्यावनवाँ सर्ग पूरा हुआ।५१॥
🔍 शब्दार्थ
संस्कृत शब्द हिंदी अर्थ
इति इस प्रकार (अव्यय)
आर्षे ऋषि द्वारा कथित (सप्तमी विभक्ति)
श्रीमद्रामायणे श्रीमद्रामायण में (सप्तमी विभक्ति)
वाल्मीकीये वाल्मीकि द्वारा रचित (सप्तमी विभक्ति)
आदिकाव्ये आदिकाव्य में (सप्तमी विभक्ति)
बालकाण्डे बालकाण्ड में (सप्तमी विभक्ति)
एकपञ्चाशः इक्यावनवाँ (प्रथमा विभक्ति)
सर्गः सर्ग (प्रथमा विभक्ति)
॥५१॥ संख्या ५१ (सर्ग संख्या)

ॐ श्रीरामाय नमः

वाल्मीकि रामायणम् | श्रीरामसमर्पितम्

www.valmikiramayan.in