वाल्मीकि रामायण

बालकाण्ड सर्ग 49 | श्रीमद्वाल्मीकि रामायण

🌿 सर्ग 49: पितृ देवताओं द्वारा इन्द्र को भेड़े के अण्डकोष से युक्त करना तथा भगवान् श्रीराम के द्वारा अहल्या का उद्धार एवं उन दोनों दम्पति के द्वारा इनका सत्कार
The Pitru Devatas endow Indra with a ram's testicles, and Lord Shri Rama redeems Ahalya and is honored by the couple
कुल श्लोक: 22
श्लोक 1
अफलस्तु ततः शक्रो देवानग्निपुरोगमान्।
अब्रवीत् त्रस्तनयनः सिद्धगन्धर्वचारणान्॥
॥ 1.49.1 ॥
श्लोक 2
कुर्वता तपसो विघ्नं गौतमस्य महात्मनः।
क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम्॥
॥ 1.49.2 ॥
श्लोक 3
अफलोऽस्मि कृतस्तेन क्रोधात् सा च निराकृता।
शापमोक्षेण महता तपोऽस्यापहृतं मया॥
॥ 1.49.3 ॥
श्लोक 4
तन्मां सुरवराः सर्वे सर्षिसङ्गाः सचारणाः।
सुरकार्यकरं यूयं सफलं कर्तुमर्हथ॥
॥ 1.49.4 ॥
श्लोक 5
शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमाः।
पितृदेवानुपेत्याहुः सर्वे सह मरुद्गणैः॥
॥ 1.49.5 ॥
श्लोक 6
अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः।
मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छत॥
॥ 1.49.6 ॥
श्लोक 7
अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति।
भवतां हर्षणार्थं च ये च दास्यन्ति मानवाः।
अक्षयं हि फलं तेषां यूयं दास्यथ पुष्कलम्॥
॥ 1.49.7 ॥
श्लोक 8
अग्नेस्तु वचनं श्रुत्वा पितृदेवाः समागताः।
उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेशयन्॥
॥ 1.49.8 ॥
श्लोक 9
तदाप्रभृति काकुत्स्थ पितृदेवाः समागताः।
अफलान् भुञ्जते मेषान् फलैस्तेषामयोजयन्॥
॥ 1.49.9 ॥
श्लोक 10
इन्द्रस्तु मेषवृषणस्तदाप्रभृति राघव।
गौतमस्य प्रभावेण तपसा च महात्मनः॥
॥ 1.49.10 ॥
श्लोक 11
तदागच्छ महातेज आश्रमं पुण्यकर्मणः।
तारयैनां महाभागामहल्यां देवरूपिणीम्॥
॥ 1.49.11 ॥
श्लोक 12
विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः।
विश्वामित्रं पुरस्कृत्य आश्रमं प्रविवेश ह॥
॥ 1.49.12 ॥
श्लोक 13
ददर्श च महाभागां तपसा द्योतितप्रभाम्।
लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरैः ॥
॥ 1.49.13 ॥
श्लोक 14
प्रयत्नान्निर्मितां धात्रा दिव्यां मायामयीमिव।
धूमेनाभिपरीतांगी दीप्तामग्निशिखामिव॥ सतुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव।
॥ 1.49.14 ॥
श्लोक 15
मध्येऽम्भसो दुराधर्षां दीप्ता सूर्यप्रभामिव॥
॥ 1.49.15 ॥
श्लोक 16
सा हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह।
त्रयाणामपि लोकानां यावद् रामस्य दर्शनम्।
शापस्यान्तमुपागम्य तेषां दर्शनमागता॥
॥ 1.49.16 ॥
श्लोक 17
राघवौ तु तदा तस्याः पादौ जगृहतुर्मुदा।
स्मरन्ती गौतमवचः प्रतिजग्राह सा हि तौ॥ पाद्यमर्घ्यं तथाऽऽतिथ्यं चकार सुसमाहिता।
॥ 1.49.17 ॥
श्लोक 18
प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा॥
॥ 1.49.18 ॥
श्लोक 19
पुष्पवृष्टिर्महत्यासीद् देवदुन्दुभिनिःस्वनैः।
गन्धर्वाप्सरसां चैव महानासीत् समुत्सवः ॥
॥ 1.49.19 ॥
श्लोक 20
साधु साध्विति देवास्तामहल्यां समपूजयन्।
तपोबलविशुद्धांगी गौतमस्य वशानुगाम्॥
॥ 1.49.20 ॥
श्लोक 21
गौतमोऽपि महातेजा अहल्यासहितः सुखी।
रामं सम्पूज्य विधिवत् तपस्तेपे महातपाः॥
॥ 1.49.21 ॥
श्लोक 22
रामोऽपि परमां पूजां गौतमस्य महामुनेः।
सकाशाद् विधिवत् प्राप्य जगाम मिथिलां ततः॥
॥ 1.49.22 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनपञ्चाशः सर्गः॥४९॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में उनचासवाँ सर्ग पूरा हुआ॥ ४९॥
🔍 शब्दार्थ
संस्कृत शब्द हिंदी अर्थ
इति इस प्रकार (अव्यय)
आर्षे ऋषि द्वारा कथित (सप्तमी विभक्ति)
श्रीमद्रामायणे श्रीमद्रामायण में (सप्तमी विभक्ति)
वाल्मीकीये वाल्मीकि द्वारा रचित (सप्तमी विभक्ति)
आदिकाव्ये आदिकाव्य में (सप्तमी विभक्ति)
बालकाण्डे बालकाण्ड में (सप्तमी विभक्ति)
एकोनपञ्चाशः उनचासवाँ (प्रथमा विभक्ति)
सर्गः सर्ग (प्रथमा विभक्ति)
॥४९॥ संख्या ४९ (सर्ग संख्या)

ॐ श्रीरामाय नमः

वाल्मीकि रामायणम् | श्रीरामसमर्पितम्

www.valmikiramayan.in