🌿 सर्ग 48: मुनियों सहित श्रीराम का मिथिलापुरी में पहुँचना, विश्वामित्रजी का उनसे अहल्या को शाप प्राप्त होने की कथा सुनाना
Shri Rama's arrival in Mithila with the sages, and Vishwamitra narrating the story of Ahalya's curse to him
कुल श्लोक: 33
श्लोक 1
पृष्ट्वा तु कुशलं तत्र परस्परसमागमे।
कथान्ते सुमतिर्वाक्यं व्याजहार महामुनिम्॥
कथान्ते सुमतिर्वाक्यं व्याजहार महामुनिम्॥
॥ 1.48.1 ॥
श्लोक 2
इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ।
गजसिंहगती वीरौ शार्दूलवृषभोपमौ॥
गजसिंहगती वीरौ शार्दूलवृषभोपमौ॥
॥ 1.48.2 ॥
श्लोक 3
पद्मपत्रविशालाक्षौ खड्गतूणधनुर्धरौ।
अश्विनाविव रूपेण समुपस्थितयौवनौ॥
अश्विनाविव रूपेण समुपस्थितयौवनौ॥
॥ 1.48.3 ॥
श्लोक 4
यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ।
कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने॥
कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने॥
॥ 1.48.4 ॥
श्लोक 5
भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम्।
परस्परेण सदृशौ प्रमाणेङ्गितचेष्टितैः ॥
परस्परेण सदृशौ प्रमाणेङ्गितचेष्टितैः ॥
॥ 1.48.5 ॥
श्लोक 6
किमर्थं च नरश्रेष्ठौ सम्प्राप्तौ दुर्गमे पथि।
वरायुधधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः॥
वरायुधधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः॥
॥ 1.48.6 ॥
श्लोक 7
तस्य तद् वचनं श्रुत्वा यथावृत्तं न्यवेदयत्।
सिद्धाश्रमनिवासं च राक्षसानां वधं यथा।
विश्वामित्रवचः श्रुत्वा राजा परमविस्मितः॥
सिद्धाश्रमनिवासं च राक्षसानां वधं यथा।
विश्वामित्रवचः श्रुत्वा राजा परमविस्मितः॥
॥ 1.48.7 ॥
श्लोक 8
अतिथी परमं प्राप्तौ पुत्रौ दशरथस्य तौ।
पूजयामास विधिवत् सत्कारार्हौ महाबलौ॥
पूजयामास विधिवत् सत्कारार्हौ महाबलौ॥
॥ 1.48.8 ॥
श्लोक 9
ततः परमसत्कारं सुमतेः प्राप्य राघवौ।
उष्य तत्र निशामेकां जग्मतुर्मिथिलां ततः॥
उष्य तत्र निशामेकां जग्मतुर्मिथिलां ततः॥
॥ 1.48.9 ॥
श्लोक 10
तां दृष्ट्वा मुनयः सर्वे जनकस्य पुरीं शुभाम्।
साधु साध्विति शंसन्तो मिथिलां समपूजयन्॥
साधु साध्विति शंसन्तो मिथिलां समपूजयन्॥
॥ 1.48.10 ॥
श्लोक 11
मिथिलोपवने तत्र आश्रमं दृश्य राघवः।
पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुंगवम्॥
पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुंगवम्॥
॥ 1.48.11 ॥
श्लोक 12
इदमाश्रमसंकाशं किं न्विदं मुनिवर्जितम्।
श्रोतुमिच्छामि भगवन् कस्यायं पूर्व आश्रमः॥
श्रोतुमिच्छामि भगवन् कस्यायं पूर्व आश्रमः॥
॥ 1.48.12 ॥
श्लोक 13
तच्छ्रुत्वा राघवेणोक्तं वाक्यं वाक्यविशारदः।
प्रत्युवाच महातेजा विश्वामित्रो महामुनिः॥
प्रत्युवाच महातेजा विश्वामित्रो महामुनिः॥
॥ 1.48.13 ॥
श्लोक 14
हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव।
यस्यैतदाश्रमपदं शप्तं कोपान्महात्मनः॥
यस्यैतदाश्रमपदं शप्तं कोपान्महात्मनः॥
॥ 1.48.14 ॥
श्लोक 15
गौतमस्य नरश्रेष्ठ पूर्वमासीन्महात्मनः।
आश्रमो दिव्यसंकाशः सुरैरपि सुपूजितः ॥
आश्रमो दिव्यसंकाशः सुरैरपि सुपूजितः ॥
॥ 1.48.15 ॥
श्लोक 16
स चात्र तप आतिष्ठदहल्यासहितः पुरा।
वर्षपूगान्यनेकानि राजपुत्र महायशः॥
वर्षपूगान्यनेकानि राजपुत्र महायशः॥
॥ 1.48.16 ॥
श्लोक 17
तस्यान्तरं विदित्वा च सहस्राक्षः शचीपतिः।
मुनिवेषधरो भूत्वा अहल्यामिदमब्रवीत्॥
मुनिवेषधरो भूत्वा अहल्यामिदमब्रवीत्॥
॥ 1.48.17 ॥
श्लोक 18
ऋतुकालं प्रतीक्षन्ते नार्थिनः सुसमाहिते।
संगमं त्वहमिच्छामि त्वया सह सुमध्यमे॥
संगमं त्वहमिच्छामि त्वया सह सुमध्यमे॥
॥ 1.48.18 ॥
श्लोक 19
मुनिवेषं सहस्राक्षं विज्ञाय रघुनन्दन।
मतिं चकार दुर्मेधा देवराजकुतूहलात्॥
मतिं चकार दुर्मेधा देवराजकुतूहलात्॥
॥ 1.48.19 ॥
श्लोक 20
अथाब्रवीत् सुरश्रेष्ठं कृतार्थेनान्तरात्मना।
कृतार्थास्मि सुरश्रेष्ठ गच्छ शीघ्रमितः प्रभो॥ आत्मानं मां च देवेश सर्वथा रक्ष गौतमात्।
कृतार्थास्मि सुरश्रेष्ठ गच्छ शीघ्रमितः प्रभो॥ आत्मानं मां च देवेश सर्वथा रक्ष गौतमात्।
॥ 1.48.20 ॥
श्लोक 21
इन्द्रस्तु प्रहसन् वाक्यमहल्यामिदमब्रवीत्॥ सुश्रोणि परितुष्टोऽस्मि गमिष्यामि यथागतम्।
॥ 1.48.21 ॥
श्लोक 22
एवं संगम्य तु तदा निश्चक्रामोटजात् ततः॥ स सम्भ्रमात् त्वरन् राम शङ्कितो गौतमं प्रति।
॥ 1.48.22 ॥
श्लोक 23
गौतमं स ददर्शाथ प्रविशन्तं महामुनिम्॥ देवदानवदुर्धर्षं तपोबलसमन्वितम्।
॥ 1.48.23 ॥
श्लोक 24
तीर्थोदकपरिक्लिन्नं दीप्यमानमिवानलम्॥ गृहीतसमिधं तत्र सकुशं मुनिपुंगवम्।
॥ 1.48.24 ॥
श्लोक 25
दृष्ट्वा सुरपतिस्त्रस्तो विषण्णवदनोऽभवत्॥ अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः।
॥ 1.48.25 ॥
श्लोक 26
दुर्वृत्तं वृत्तसम्पन्नो रोषाद् वचनमब्रवीत्॥
॥ 1.48.26 ॥
श्लोक 27
मम रूपं समास्थाय कृतवानसि दुर्मते।
अकर्तव्यमिदं यस्माद विफलस्त्वं भविष्यसि॥
अकर्तव्यमिदं यस्माद विफलस्त्वं भविष्यसि॥
॥ 1.48.27 ॥
श्लोक 28
गौतमेनैवमुक्तस्य सुरोषेण महात्मना।
पेततुर्वृषणी भूमौ सहस्राक्षस्य तत्क्षणात्॥
पेततुर्वृषणी भूमौ सहस्राक्षस्य तत्क्षणात्॥
॥ 1.48.28 ॥
श्लोक 29
तथा शप्त्वा च वै शक्रं भार्यामपि च शप्तवान्।
इह वर्षसहस्राणि बहूनि निवसिष्यसि ॥
इह वर्षसहस्राणि बहूनि निवसिष्यसि ॥
॥ 1.48.29 ॥
श्लोक 30
वातभक्षा निराहारा तप्यन्ती भस्मशायिनी।
अदृश्या सर्वभूतानामाश्रमेऽस्मिन् वसिष्यसि॥
अदृश्या सर्वभूतानामाश्रमेऽस्मिन् वसिष्यसि॥
॥ 1.48.30 ॥
श्लोक 31
यदा त्वेतद् वनं घोरं रामो दशरथात्मजः।
आगमिष्यति दुर्धर्षस्तदा पूता भविष्यसि॥
आगमिष्यति दुर्धर्षस्तदा पूता भविष्यसि॥
॥ 1.48.31 ॥
श्लोक 32
तस्यातिथ्येन दुर्वृत्ते लोभमोहविवर्जिता।
मत्सकाशं मुदा युक्ता स्वं वपुर्धारयिष्यसि॥
मत्सकाशं मुदा युक्ता स्वं वपुर्धारयिष्यसि॥
॥ 1.48.32 ॥
श्लोक 33
एवमुक्त्वा महातेजा गौतमो दुष्टचारिणीम्।
इममाश्रममुत्सृज्य सिद्धचारणसेविते।
हिमवच्छिखरे रम्ये तपस्तेपे महातपाः ॥
इममाश्रममुत्सृज्य सिद्धचारणसेविते।
हिमवच्छिखरे रम्ये तपस्तेपे महातपाः ॥
॥ 1.48.33 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डेऽष्टचत्वारिंशः सर्गः॥४८॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में अड़तालीसवाँ सर्ग पूरा हुआ॥४८॥
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में अड़तालीसवाँ सर्ग पूरा हुआ॥४८॥
🔍 शब्दार्थ
| संस्कृत शब्द | हिंदी अर्थ |
|---|---|
| इति | इस प्रकार (अव्यय) |
| आर्षे | ऋषि द्वारा कथित (सप्तमी विभक्ति) |
| श्रीमद्रामायणे | श्रीमद्रामायण में (सप्तमी विभक्ति) |
| वाल्मीकीये | वाल्मीकि द्वारा रचित (सप्तमी विभक्ति) |
| आदिकाव्ये | आदिकाव्य में (सप्तमी विभक्ति) |
| बालकाण्डे | बालकाण्ड में (सप्तमी विभक्ति) |
| अष्टचत्वारिंशः | अड़तालीसवाँ (प्रथमा विभक्ति) |
| सर्गः | सर्ग (प्रथमा विभक्ति) |
| ॥४८॥ | संख्या ४८ (सर्ग संख्या) |