वाल्मीकि रामायण

बालकाण्ड सर्ग 47 | श्रीमद्वाल्मीकि रामायण

🌿 सर्ग 47: दिति का अपने पुत्रों को मरुद्गण बनाकर देवलोक में रखने के लिये इन्द्र से अनुरोध, इक्ष्वाकु-पुत्र विशाल द्वारा विशाला नगरी का निर्माण
Diti's request to Indra to make her sons the Marutganas and place them in heaven, and the founding of Vishala city by Ikshvaku's son Vishala
कुल श्लोक: 22
श्लोक 1
सप्तधा तु कृते गर्भे दितिः परमदुःखिता।
सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत्॥
॥ 1.47.1 ॥
श्लोक 2
ममापराधाद् गर्भोऽयं सप्तधा शकलीकृतः।
नापराधो हि देवेश तवात्र बलसूदन॥
॥ 1.47.2 ॥
श्लोक 3
प्रियं त्वत्कृतमिच्छामि मम गर्भविपर्यये।
मरुतां सप्त सप्तानां स्थानपाला भवन्तु ते॥
॥ 1.47.3 ॥
श्लोक 4
वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रक।
मारुता इति विख्याता दिव्यरूपा ममात्मजाः॥
॥ 1.47.4 ॥
श्लोक 5
ब्रह्मलोकं चरत्वेक इन्द्रलोकं तथापरः।
दिव्यवायुरिति ख्यातस्तृतीयोऽपि महायशाः॥
॥ 1.47.5 ॥
श्लोक 6
चत्वारस्तु सुरश्रेष्ठ दिशो वै तव शासनात्।
संचरिष्यन्ति भद्रं ते कालेन हि ममात्मजाः॥ त्वत्कृतेनैव नाम्ना वै मारुता इति विश्रुताः।
॥ 1.47.6 ॥
श्लोक 7
तस्यास्तद् वचनं श्रुत्वा सहस्राक्षः पुरंदरः॥ उवाच प्राञ्जलिर्वाक्यमतीदं बलसूदनः।
॥ 1.47.7 ॥
श्लोक 8
सर्वमेतद यथोक्तं ते भविष्यति न संशयः॥ विचरिष्यन्ति भद्रं ते देवरूपास्तवात्मजाः।
॥ 1.47.8 ॥
श्लोक 9
एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने॥ जग्मतुस्त्रिदिवं राम कृतार्थाविति नः श्रुतम्।
॥ 1.47.9 ॥
श्लोक 10
एष देशः स काकुत्स्थ महेन्द्राध्युषितः पुरा॥ दितिं यत्र तपःसिद्धामेवं परिचचार सः।
॥ 1.47.10 ॥
श्लोक 11
इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परमधार्मिकः॥ अलम्बुषायामुत्पन्नो विशाल इति विश्रुतः।
॥ 1.47.11 ॥
श्लोक 12
तेन चासीदिह स्थाने विशालेति पुरी कृता॥
॥ 1.47.12 ॥
श्लोक 13
विशालस्य सुतो राम हेमचन्द्रो महाबलः।
सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः॥
॥ 1.47.13 ॥
श्लोक 14
सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः।
धूम्राश्वतनयश्चापि सृञ्जयः समपद्यत॥
॥ 1.47.14 ॥
श्लोक 15
सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान्।
कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः॥
॥ 1.47.15 ॥
श्लोक 16
कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान्।
सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः॥
॥ 1.47.16 ॥
श्लोक 17
तस्य पुत्रो महातेजाः सम्प्रत्येष पुरीमिमाम्।
आवसत् परमप्रख्यः सुमति र्नाम दुर्जयः॥
॥ 1.47.17 ॥
श्लोक 18
इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः।
दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः॥
॥ 1.47.18 ॥
श्लोक 19
इहाद्य रजनीमेकां सुखं स्वप्स्यामहे वयम्।
श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि ॥
॥ 1.47.19 ॥
श्लोक 20
सुमतिस्तु महातेजा विश्वामित्रमुपागतम्।
श्रुत्वा नरवर श्रेष्ठः प्रत्यागच्छन्महायशाः॥
॥ 1.47.20 ॥
श्लोक 21
पूजां च परमां कृत्वा सोपाध्यायः सबान्धवः।
प्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत्॥
॥ 1.47.21 ॥
श्लोक 22
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे विषयं मुने।
सम्प्राप्तो दर्शनं चैव नास्ति धन्यतरो मम॥
॥ 1.47.22 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तचत्वारिंशः सर्गः॥४७॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में सैंतालीसवाँ सर्ग पूरा हुआ।४७॥
🔍 शब्दार्थ
संस्कृत शब्द हिंदी अर्थ
इति इस प्रकार (अव्यय)
आर्षे ऋषि द्वारा कथित (सप्तमी विभक्ति)
श्रीमद्रामायणे श्रीमद्रामायण में (सप्तमी विभक्ति)
वाल्मीकीये वाल्मीकि द्वारा रचित (सप्तमी विभक्ति)
आदिकाव्ये आदिकाव्य में (सप्तमी विभक्ति)
बालकाण्डे बालकाण्ड में (सप्तमी विभक्ति)
सप्तचत्वारिंशः सैंतालीसवाँ (प्रथमा विभक्ति)
सर्गः सर्ग (प्रथमा विभक्ति)
॥४७॥ संख्या ४७ (सर्ग संख्या)

ॐ श्रीरामाय नमः

वाल्मीकि रामायणम् | श्रीरामसमर्पितम्

www.valmikiramayan.in