🌿 सर्ग 45: देवताओं और दैत्यों द्वारा क्षीर-समुद्र मन्थन, भगवान् रुद्र द्वारा हालाहल विष का पान, देवासुर-संग्राम में दैत्यों का संहार
Churning of the milk ocean by gods and demons, Lord Rudra consuming the Halahala poison, and the destruction of demons in the battle between gods and demons
कुल श्लोक: 45
श्लोक 1
विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः।
विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत्॥
विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत्॥
॥ 1.45.1 ॥
श्लोक 2
अत्यद्भुतमिदं ब्रह्मन् कथितं परमं त्वया।
गंगावतरणं पुण्यं सागरस्यापि पूरणम्॥
गंगावतरणं पुण्यं सागरस्यापि पूरणम्॥
॥ 1.45.2 ॥
श्लोक 3
क्षणभूतेव नौ रात्रिः संवृत्तेयं परंतप।
इमां चिन्तयतोः सर्वां निखिलेन कथां तव॥
इमां चिन्तयतोः सर्वां निखिलेन कथां तव॥
॥ 1.45.3 ॥
श्लोक 4
तस्य सा शर्वरी सर्वा मम सौमित्रिणा सह।
जगाम चिन्तयानस्य विश्वामित्र कथां शुभाम्॥
जगाम चिन्तयानस्य विश्वामित्र कथां शुभाम्॥
॥ 1.45.4 ॥
श्लोक 5
ततः प्रभाते विमले विश्वामित्रं तपोधनम्।
उवाच राघवो वाक्यं कृताह्निकमरिंदमः॥
उवाच राघवो वाक्यं कृताह्निकमरिंदमः॥
॥ 1.45.5 ॥
श्लोक 6
गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम्।
तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम्॥
तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम्॥
॥ 1.45.6 ॥
श्लोक 7
नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम्।
भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता॥
भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता॥
॥ 1.45.7 ॥
श्लोक 8
तस्य तद् वचनं श्रुत्वा राघवस्य महात्मनः।
संतारं कारयामास सर्षिसङ्घस्य कौशिकः॥
संतारं कारयामास सर्षिसङ्घस्य कौशिकः॥
॥ 1.45.8 ॥
श्लोक 9
उत्तरं तीरमासाद्य सम्पूज्यर्षिगणं ततः।
गंगाकूले निविष्टास्ते विशालां ददृशुः पुरीम्॥
गंगाकूले निविष्टास्ते विशालां ददृशुः पुरीम्॥
॥ 1.45.9 ॥
श्लोक 10
ततो मुनिवरस्तूर्णं जगाम सहराघवः।
विशाला नगरी रम्यां दिव्यां स्वर्गोपमां तदा॥
विशाला नगरी रम्यां दिव्यां स्वर्गोपमां तदा॥
॥ 1.45.10 ॥
श्लोक 11
अथ रामो मुनिश्रेष्ठं विश्वामित्रं महामुनिम्।
पप्रच्छ प्राञ्जलिर्भूत्वा विशाला तूत्तमां पुरीम्॥
पप्रच्छ प्राञ्जलिर्भूत्वा विशाला तूत्तमां पुरीम्॥
॥ 1.45.11 ॥
श्लोक 12
कतमो राजवंशोऽयं विशालायां महामुने।
श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे ॥
श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे ॥
॥ 1.45.12 ॥
श्लोक 13
तस्य तद् वचनं श्रुत्वा रामस्य मुनिपुंगवः।
आख्यातुं तत्समारेभे विशालायाः पुरातनम्॥
आख्यातुं तत्समारेभे विशालायाः पुरातनम्॥
॥ 1.45.13 ॥
श्लोक 14
श्रूयतां राम शक्रस्य कथां कथयतः श्रुताम्।
अस्मिन् देशे हि यद् वृत्तं शृणु तत्त्वेन राघव॥
अस्मिन् देशे हि यद् वृत्तं शृणु तत्त्वेन राघव॥
॥ 1.45.14 ॥
श्लोक 15
पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः।
अदितेश्च महाभागा वीर्यवन्तः सुधार्मिकाः॥
अदितेश्च महाभागा वीर्यवन्तः सुधार्मिकाः॥
॥ 1.45.15 ॥
श्लोक 16
ततस्तेषां नरव्याघ्र बुद्धिरासीन्महात्मनाम्।
अमरा विजराश्चैव कथं स्यामो निरामयाः॥
अमरा विजराश्चैव कथं स्यामो निरामयाः॥
॥ 1.45.16 ॥
श्लोक 17
तेषां चिन्तयतां तत्र बुद्धिरासीद विपश्चिताम्।
क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै॥
क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै॥
॥ 1.45.17 ॥
श्लोक 18
ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम्।
मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः॥
मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः॥
॥ 1.45.18 ॥
श्लोक 19
अथ वर्षसहस्रेण योकत्रसर्पशिरांसि च।
वमन्तोऽतिविषं तत्र ददंशुर्दशनैः शिलाः॥
वमन्तोऽतिविषं तत्र ददंशुर्दशनैः शिलाः॥
॥ 1.45.19 ॥
श्लोक 20
उत्पपाताग्निसंकाशं हालाहलमहाविषम्।
तेन दग्धं जगत् सर्वं सदेवासुरमानुषम्॥
तेन दग्धं जगत् सर्वं सदेवासुरमानुषम्॥
॥ 1.45.20 ॥
श्लोक 21
अथ देवा महादेवं शङ्करं शरणार्थिनः।
जग्मुः पशुपतिं रुद्रं त्राहि त्राहीति तुष्टवुः ॥
जग्मुः पशुपतिं रुद्रं त्राहि त्राहीति तुष्टवुः ॥
॥ 1.45.21 ॥
श्लोक 22
एवमुक्तस्ततो देवैर्देवदेवेश्वरः प्रभुः।
प्रादुरासीत् ततोऽत्रैव शङ्खचक्रधरो हरिः॥
प्रादुरासीत् ततोऽत्रैव शङ्खचक्रधरो हरिः॥
॥ 1.45.22 ॥
श्लोक 23
उवाचैनं स्मितं कृत्वा रुद्रं शूलधरं हरिः।
दैवतैर्मथ्यमाने तु यत्पूर्वं समुपस्थितम्॥ तत् त्वदीयं सुरश्रेष्ठ सुराणामग्रतो हि यत्।
दैवतैर्मथ्यमाने तु यत्पूर्वं समुपस्थितम्॥ तत् त्वदीयं सुरश्रेष्ठ सुराणामग्रतो हि यत्।
॥ 1.45.23 ॥
श्लोक 24
अग्रपूजामिह स्थित्वा गृहाणेदं विषं प्रभो॥
॥ 1.45.24 ॥
श्लोक 25
इत्युक्त्वा च सुरश्रेष्ठस्तत्रैवान्तरधीयत।
देवतानां भयं दृष्ट्वा श्रुत्वा वाक्यं तु शाङ्गिणः॥
देवतानां भयं दृष्ट्वा श्रुत्वा वाक्यं तु शाङ्गिणः॥
॥ 1.45.25 ॥
श्लोक 26
हालाहलं विषं घोरं संजग्राहामृतोपमम्।
देवान् विसृज्य देवेशो जगाम भगवान् हरः॥
देवान् विसृज्य देवेशो जगाम भगवान् हरः॥
॥ 1.45.26 ॥
श्लोक 27
ततो देवासुराः सर्वे ममन्थू रघुनन्दन।
प्रविवेशाथ पातालं मन्थानः पर्वतोत्तमः॥
प्रविवेशाथ पातालं मन्थानः पर्वतोत्तमः॥
॥ 1.45.27 ॥
श्लोक 28
ततो देवाः सगन्धर्वास्तुष्टवुर्मधुसूदनम्।
त्वं गतिः सर्वभूतानां विशेषेण दिवौकसाम्॥ पालयास्मान् महाबाहो गिरिमुद्धर्तुमर्हसि।
त्वं गतिः सर्वभूतानां विशेषेण दिवौकसाम्॥ पालयास्मान् महाबाहो गिरिमुद्धर्तुमर्हसि।
॥ 1.45.28 ॥
श्लोक 29
इति श्रुत्वा हृषीकेशः कामठं रूपमास्थितः॥ पर्वतं पृष्ठतः कृत्वा शिश्ये तत्रोदधौ हरिः।
॥ 1.45.29 ॥
श्लोक 30
पर्वताग्रं तु लोकात्मा हस्तेनाक्रम्य केशवः॥ देवानां मध्यतः स्थित्वा ममन्थ पुरुषोत्तमः।
॥ 1.45.30 ॥
श्लोक 31
अथ वर्षसहस्रेण आयुर्वेदमयः पुमान्॥ उदतिष्ठत् सुधर्मात्मा सदण्डः सकमण्डलुः।
॥ 1.45.31 ॥
श्लोक 32
पूर्वं धन्वन्तरिर्नाम अप्सराश्च सुवर्चसः॥
॥ 1.45.32 ॥
श्लोक 33
अप्सु निर्मथनादेव रसात् तस्माद् वरस्त्रियः।
उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन्॥
उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन्॥
॥ 1.45.33 ॥
श्लोक 34
षष्टिः कोट्योऽभवंस्तासामप्सराणां सुवर्चसाम्।
असंख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः॥
असंख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः॥
॥ 1.45.34 ॥
श्लोक 35
न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः।
अप्रतिग्रहणादेव ता वै साधारणाः स्मृताः॥
अप्रतिग्रहणादेव ता वै साधारणाः स्मृताः॥
॥ 1.45.35 ॥
श्लोक 36
वरुणस्य ततः कन्या वारुणी रघुनन्दन।
उत्पपात महाभागा मार्गमाणा परिग्रहम्॥
उत्पपात महाभागा मार्गमाणा परिग्रहम्॥
॥ 1.45.36 ॥
श्लोक 37
दितेः पुत्रा न तां राम जगृहुर्वरुणात्मजाम्।
अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम्॥
अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम्॥
॥ 1.45.37 ॥
श्लोक 38
असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताः।
हृष्टाः प्रमुदिताश्चासन् वारुणीग्रहणात् सुराः॥
हृष्टाः प्रमुदिताश्चासन् वारुणीग्रहणात् सुराः॥
॥ 1.45.38 ॥
श्लोक 39
उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम्।
उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम्॥
उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम्॥
॥ 1.45.39 ॥
श्लोक 40
अथ तस्य कृते राम महानासीत् कुलक्षयः।
अदितेस्तु ततः पुत्रा दितिपुत्रानयोधयन्॥
अदितेस्तु ततः पुत्रा दितिपुत्रानयोधयन्॥
॥ 1.45.40 ॥
श्लोक 41
एकतामगमन् सर्वे असुरा राक्षसैः सह।
युद्धमासीन्महाघोरं वीर त्रैलोक्यमोहनम्॥
युद्धमासीन्महाघोरं वीर त्रैलोक्यमोहनम्॥
॥ 1.45.41 ॥
श्लोक 42
यदा क्षयं गतं सर्वं तदा विष्णुर्महाबलः।
अमृतं सोऽहरत् तूर्णं मायामास्थाय मोहिनीम्॥
अमृतं सोऽहरत् तूर्णं मायामास्थाय मोहिनीम्॥
॥ 1.45.42 ॥
श्लोक 43
ये गताभिमुखं विष्णुमक्षरं पुरुषोत्तमम्।
सम्पिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना॥
सम्पिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना॥
॥ 1.45.43 ॥
श्लोक 44
अदितेरात्मजा वीरा दितेः पुत्रान् निजघ्निरे।
अस्मिन् घोरे महायुद्धे दैतेयादित्ययो र्भृशम्॥
अस्मिन् घोरे महायुद्धे दैतेयादित्ययो र्भृशम्॥
॥ 1.45.44 ॥
श्लोक 45
निहत्य दितिपुत्रांस्तु राज्यं प्राप्य पुरंदरः।
शशास मुदितो लोकान् सर्षिसङ्घान् सचारणान्॥
शशास मुदितो लोकान् सर्षिसङ्घान् सचारणान्॥
॥ 1.45.45 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चचत्वारिंशः सर्गः॥४५॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में पैंतालीसवाँ सर्ग पूरा हुआ।४५॥
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में पैंतालीसवाँ सर्ग पूरा हुआ।४५॥
🔍 शब्दार्थ
| संस्कृत शब्द | हिंदी अर्थ |
|---|---|
| इति | इस प्रकार (अव्यय) |
| आर्षे | ऋषि द्वारा कथित (सप्तमी विभक्ति) |
| श्रीमद्रामायणे | श्रीमद्रामायण में (सप्तमी विभक्ति) |
| वाल्मीकीये | वाल्मीकि द्वारा रचित (सप्तमी विभक्ति) |
| आदिकाव्ये | आदिकाव्य में (सप्तमी विभक्ति) |
| बालकाण्डे | बालकाण्ड में (सप्तमी विभक्ति) |
| पञ्चचत्वारिंशः | पैंतालीसवाँ (प्रथमा विभक्ति) |
| सर्गः | सर्ग (प्रथमा विभक्ति) |
| ॥४५॥ | संख्या ४५ (सर्ग संख्या) |