🌿 सर्ग 44: ब्रह्माजी का भगीरथ को पितरों के तर्पण की आज्ञा देना, गंगावतरण के उपाख्यान की महिमा
Brahma commands Bhagiratha to offer libations to his ancestors, and the glory of the Ganga's descent narrative
कुल श्लोक: 23
श्लोक 1
स गत्वा सागरं राजा गंगयानुगतस्तदा।
प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः॥
प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः॥
॥ 1.44.1 ॥
श्लोक 2
भस्मन्यथाप्लुते राम गंगायाः सलिलेन वै।
सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत्॥
सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत्॥
॥ 1.44.2 ॥
श्लोक 3
तारिता नरशार्दूल दिवं याताश्च देववत्।
षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः॥
षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः॥
॥ 1.44.3 ॥
श्लोक 4
सागरस्य जलं लोके यावत्स्थास्यति पार्थिव।
सगरस्यात्मजाः सर्वे दिवि स्थास्यन्ति देववत्॥
सगरस्यात्मजाः सर्वे दिवि स्थास्यन्ति देववत्॥
॥ 1.44.4 ॥
श्लोक 5
इयं च दुहिता ज्येष्ठा तव गंगा भविष्यति।
त्वत्कृतेन च नाम्नाथ लोके स्थास्यति विश्रुता॥
त्वत्कृतेन च नाम्नाथ लोके स्थास्यति विश्रुता॥
॥ 1.44.5 ॥
श्लोक 6
गंगा त्रिपथगा नाम दिव्या भागीरथीति च।
त्रीन् पथो भावयन्तीति तस्मात् त्रिपथगा स्मृता॥
त्रीन् पथो भावयन्तीति तस्मात् त्रिपथगा स्मृता॥
॥ 1.44.6 ॥
श्लोक 7
पितामहसरस्त्वेतत् तव नाम्ना भविष्यति।
॥ 1.44.7 ॥
श्लोक 8
अत्र त्रिपथगा देवी स्थानं कृत्वा गमिष्यति।
॥ 1.44.8 ॥
श्लोक 9
अस्य तीरे वपां होष्यस्यश्वमेधशतैरपि।
॥ 1.44.9 ॥
श्लोक 10
तव कर्म गुरुं ज्ञात्वा तुष्टोऽहं पुरुषर्षभ।
॥ 1.44.10 ॥
श्लोक 11
दिलीपेन महाभाग तव पित्रातितेजसा।
पुनर्न शकिता नेतुं गंगां प्रार्थयतानघ॥
पुनर्न शकिता नेतुं गंगां प्रार्थयतानघ॥
॥ 1.44.11 ॥
श्लोक 12
सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ।
प्राप्तोऽसि परमं लोके यशः परमसम्मतम्॥
प्राप्तोऽसि परमं लोके यशः परमसम्मतम्॥
॥ 1.44.12 ॥
श्लोक 13
तच्च गंगावतरणं त्वया कृतमरिंदम।
अनेन च भवान् प्राप्तो धर्मस्यायतनं महत्॥
अनेन च भवान् प्राप्तो धर्मस्यायतनं महत्॥
॥ 1.44.13 ॥
श्लोक 14
प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते।
सलिले पुरुषश्रेष्ठ शुचिः पुण्यफलो भव॥
सलिले पुरुषश्रेष्ठ शुचिः पुण्यफलो भव॥
॥ 1.44.14 ॥
श्लोक 15
पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम्।
स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप॥
स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप॥
॥ 1.44.15 ॥
श्लोक 16
इत्येवमुक्त्वा देवेशः सर्वलोकपितामहः।
यथागतं तथागच्छद देवलोकं महायशाः॥
यथागतं तथागच्छद देवलोकं महायशाः॥
॥ 1.44.16 ॥
श्लोक 17
भगीरथस्तु राजर्षिः कृत्वा सलिलमुत्तमम्।
यथाक्रमं यथान्यायं सागराणां महायशाः॥ कृतोदकः शुची राजा स्वपुरं प्रविवेश ह।
यथाक्रमं यथान्यायं सागराणां महायशाः॥ कृतोदकः शुची राजा स्वपुरं प्रविवेश ह।
॥ 1.44.17 ॥
श्लोक 18
समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास ह॥
॥ 1.44.18 ॥
श्लोक 19
प्रमुमोद च लोकस्तं नृपमासाद्य राघव।
नष्टशोकः समृद्धार्थो बभूव विगतज्वरः॥
नष्टशोकः समृद्धार्थो बभूव विगतज्वरः॥
॥ 1.44.19 ॥
श्लोक 20
एष ते राम गंगाया विस्तरोऽभिहितो मया।
स्वस्ति प्राप्नुहि भद्रं ते संध्याकालोऽतिवर्तते॥
स्वस्ति प्राप्नुहि भद्रं ते संध्याकालोऽतिवर्तते॥
॥ 1.44.20 ॥
श्लोक 21
धन्यं यशस्यमायुष्यं पुत्र्यं स्वर्ग्यमथापि च।
यः श्रावयति विप्रेषु क्षत्रियेष्वितरेषु च ॥
यः श्रावयति विप्रेषु क्षत्रियेष्वितरेषु च ॥
॥ 1.44.21 ॥
श्लोक 22
प्रीयन्ते पितरस्तस्य प्रीयन्ते दैवतानि च।
इदमाख्यानमायुष्यं गंगावतरणं शुभम्॥
इदमाख्यानमायुष्यं गंगावतरणं शुभम्॥
॥ 1.44.22 ॥
श्लोक 23
यः शृणोति च काकुत्स्थ सर्वान् कामानवाप्नुयात्।
सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिश्च वर्धते॥
सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिश्च वर्धते॥
॥ 1.44.23 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुश्चत्वारिंशः सर्गः॥४४॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में चौवालीसवाँ सर्ग पूरा हुआ।४४॥
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में चौवालीसवाँ सर्ग पूरा हुआ।४४॥
🔍 शब्दार्थ
| संस्कृत शब्द | हिंदी अर्थ |
|---|---|
| इति | इस प्रकार (अव्यय) |
| आर्षे | ऋषि द्वारा कथित (सप्तमी विभक्ति) |
| श्रीमद्रामायणे | श्रीमद्रामायण में (सप्तमी विभक्ति) |
| वाल्मीकीये | वाल्मीकि द्वारा रचित (सप्तमी विभक्ति) |
| आदिकाव्ये | आदिकाव्य में (सप्तमी विभक्ति) |
| बालकाण्डे | बालकाण्ड में (सप्तमी विभक्ति) |
| चतुश्चत्वारिंशः | चौवालीसवाँ (प्रथमा विभक्ति) |
| सर्गः | सर्ग (प्रथमा विभक्ति) |
| ॥४४॥ | संख्या ४४ (सर्ग संख्या) |