वाल्मीकि रामायण

बालकाण्ड सर्ग 43 | श्रीमद्वाल्मीकि रामायण

🌿 सर्ग 43: भगीरथ की तपस्या, भगवान् शङ्कर का गंगा को अपने सिर पर धारण करना, भगीरथ के पितरों का उद्धार
Bhagiratha's penance, Lord Shankara holding Ganga on his head, and the salvation of Bhagiratha's ancestors
कुल श्लोक: 41
श्लोक 1
देवदेवे गते तस्मिन् सोऽङ्गुष्ठाग्रनिपीडिताम्।
कृत्वा वसुमतीं राम वत्सरं समुपासत॥
॥ 1.43.1 ॥
श्लोक 2
अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः।
उमापतिः पशुपती राजानमिदमब्रवीत्॥
॥ 1.43.2 ॥
श्लोक 3
प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तव प्रियम्।
शिरसा धारयिष्यामि शैलराजसुतामहम्॥
॥ 1.43.3 ॥
श्लोक 4
ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता।
तदा सातिमहद्रूपं कृत्वा वेगं च दुःसहम्॥ आकाशादपतद् राम शिवे शिवशिरस्युत।
॥ 1.43.4 ॥
श्लोक 5
अचिन्तयच्च सा देवी गंगा परमदुर्धरा॥ विशाम्यहं हि पातालं स्रोतसा गृह्य शङ्करम्।
॥ 1.43.5 ॥
श्लोक 6
तस्यावलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः॥ तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा।
॥ 1.43.6 ॥
श्लोक 7
सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि॥ हिमवत्प्रतिमे राम जटामण्डलगह्वरे।
॥ 1.43.7 ॥
श्लोक 8
सा कथंचिन्महीं गन्तुं नाशक्नोद् यत्नमास्थिता॥
॥ 1.43.8 ॥
श्लोक 9
नैव सा निर्गमं लेभे जटामण्डलमन्ततः।
तत्रैवाबभ्रमद् देवी संवत्सरगणान् बहून्॥
॥ 1.43.9 ॥
श्लोक 10
तामपश्यत् पुनस्तत्र तपः परममास्थितः।
स तेन तोषितश्चासीदत्यन्तं रघुनन्दन॥
॥ 1.43.10 ॥
श्लोक 11
विससर्ज ततो गंगां हरो बिन्दुसरः प्रति।
तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे॥
॥ 1.43.11 ॥
श्लोक 12
हलादिनी पावनी चैव नलिनी च तथैव च।
तिस्रः प्राची दिशं जग्मुर्गङ्गाः शिवजलाः शुभाः॥
॥ 1.43.12 ॥
श्लोक 13
सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी।
तिस्रश्चैता दिशं जग्मुः प्रतीची तु दिशं शुभाः॥
॥ 1.43.13 ॥
श्लोक 14
सप्तमी चान्वगात् तासां भगीरथरथं तदा।
भगीरथोऽपि राजर्षिर्दिव्यं स्यन्दनमास्थितः॥ प्रायादग्रे महातेजा गंगा तं चाप्यनुव्रजत्।
॥ 1.43.14 ॥
श्लोक 15
गगनाच्छंकरशिरस्ततो धरणिमागता॥
॥ 1.43.15 ॥
श्लोक 16
असर्पत जलं तत्र तीव्रशब्दपुरस्कृतम्।
मत्स्यकच्छपसङ्घश्च शिंशुमारगणैस्तथा॥ पतद्भिः पतितैश्चैव व्यरोचत वसुंधरा।
॥ 1.43.16 ॥
श्लोक 17
ततो देवर्षिगन्धर्वा यक्षसिद्धगणास्तथा॥ व्यलोकयन्त ते तत्र गगनाद् गां गतां तदा।
विमानैर्नगराकारैर्हयैर्गजवरैस्तदा ॥
॥ 1.43.17 ॥
श्लोक 18
पारिप्लवगताश्चापि देवतास्तत्र विष्ठिताः।
तदद्भुतमिमं लोके गंगावतरमुत्तमम्॥
॥ 1.43.18 ॥
श्लोक 19
दिदृक्षवो देवगणाः समीयुरमितौजसः।
॥ 1.43.19 ॥
श्लोक 20
सम्पतद्भिः सुरगणैस्तेषां चाभरणौजसा॥ शतादित्यमिवाभाति गगनं गततोयदम्।
॥ 1.43.20 ॥
श्लोक 21
शिंशुमारोरगगणैर्मीनैरपि च चञ्चलैः ॥ विद्युद्भिरिव विक्षिप्तैराकाशमभवत् तदा।
॥ 1.43.21 ॥
श्लोक 22
पाण्डुरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा॥ शारदाभ्रेरिवाकीर्णं गगनं हंससम्प्लवैः।
॥ 1.43.22 ॥
श्लोक 23
क्वचिद् द्रुततरं याति कुटिलं क्वचिदायतम्॥ विनतं क्वचिदुद्भूतं क्वचिद् याति शनैः शनैः ।
॥ 1.43.23 ॥
श्लोक 24
सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः॥
॥ 1.43.24 ॥
श्लोक 25
मुहुरूर्ध्वपथं गत्वा पपात वसुधां पुनः।
तच्छंकरशिरोभ्रष्टं भ्रष्टं भूमितले पुनः॥ व्यरोचत तदा तोयं निर्मलं गतकल्मषम्।
॥ 1.43.25 ॥
श्लोक 26
तत्रर्षिगणगन्धर्वा वसुधातलवासिनः॥ भवांगपतितं तोयं पवित्रमिति पस्पृशुः।
॥ 1.43.26 ॥
श्लोक 27
शापात् प्रपतिता ये च गगनाद् वसुधातलम्॥ कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषाः।
॥ 1.43.27 ॥
श्लोक 28
धूतपापाः पुनस्तेन तोयेनाथ शुभान्विताः॥ पुनराकाशमाविश्य स्वाँल्लोकान् प्रतिपेदिरे।
॥ 1.43.28 ॥
श्लोक 29
मुमुदे मुदितो लोकस्तेन तोयेन भास्वता॥ कृताभिषेको गंगायां बभूव गतकल्मषः।
॥ 1.43.29 ॥
श्लोक 30
भगीरथो हि राजर्षिदिव्यं स्यन्दनमास्थितः॥ प्रायादग्रे महाराजस्तं गंगा पृष्ठतोऽन्वगात्।
॥ 1.43.30 ॥
श्लोक 31
देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः॥ गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः।
॥ 1.43.31 ॥
श्लोक 32
सर्पाश्चाप्सरसो राम भगीरथरथानुगाः॥ गंगामन्वगमन् प्रीताः सर्वे जलचराश्च ये।
॥ 1.43.32 ॥
श्लोक 33
यतो भगीरथो राजा ततो गंगा यशस्विनी॥ जगाम सरितां श्रेष्ठा सर्वपापप्रणाशिनी।
॥ 1.43.33 ॥
श्लोक 34
ततो हि यजमानस्य जह्नोरद्भुतकर्मणः॥ गंगा सम्प्लावयामास यज्ञवाटं महात्मनः।
॥ 1.43.34 ॥
श्लोक 35
तस्यावलेपनं ज्ञात्वा क्रुद्धो जह्नुश्च राघव॥ अपिबत् तु जलं सर्वं गंगायाः परमाद्भुतम्।
॥ 1.43.35 ॥
श्लोक 36
ततो देवाः सगन्धर्वा ऋषयश्च सुविस्मिताः॥ पूजयन्ति महात्मानं जह्नुं पुरुषसत्तमम्।
॥ 1.43.36 ॥
श्लोक 37
गंगां चापि नयन्ति स्म दुहितृत्वे महात्मनः॥
॥ 1.43.37 ॥
श्लोक 38
ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत् प्रभुः।
तस्माज्जह्नुसुता गंगा प्रोच्यते जाह्नवीति च॥
॥ 1.43.38 ॥
श्लोक 39
जगाम च पुनर्गङ्गा भगीरथरथानुगा।
सागरं चापि सम्प्राप्ता सा सरित्प्रवरा तदा॥ रसातलमुपागच्छत् सिद्धयर्थं तस्य कर्मणः।
॥ 1.43.39 ॥
श्लोक 40
भगीरथोऽपि राजर्षिर्गङ्गामादाय यत्नतः॥ पितामहान् भस्मकृतानपश्यद् गतचेतनः।
॥ 1.43.40 ॥
श्लोक 41
अथ तद्भस्मनां राशिं गंगासलिलमुत्तमम्।
प्लावयत् पूतपाप्मानः स्वर्गं प्राप्ता रघूत्तम॥
॥ 1.43.41 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिचत्वारिंशः सर्गः॥४३॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में तैंतालीसवाँ सर्ग पूरा हुआ।४३॥
🔍 शब्दार्थ
संस्कृत शब्द हिंदी अर्थ
इति इस प्रकार (अव्यय)
आर्षे ऋषि द्वारा कथित (सप्तमी विभक्ति)
श्रीमद्रामायणे श्रीमद्रामायण में (सप्तमी विभक्ति)
वाल्मीकीये वाल्मीकि द्वारा रचित (सप्तमी विभक्ति)
आदिकाव्ये आदिकाव्य में (सप्तमी विभक्ति)
बालकाण्डे बालकाण्ड में (सप्तमी विभक्ति)
त्रिचत्वारिंशः तैंतालीसवाँ (प्रथमा विभक्ति)
सर्गः सर्ग (प्रथमा विभक्ति)
॥४३॥ संख्या ४३ (सर्ग संख्या)

ॐ श्रीरामाय नमः

वाल्मीकि रामायणम् | श्रीरामसमर्पितम्

www.valmikiramayan.in