🌿 सर्ग 42: अंशुमान् और भगीरथ की तपस्या, ब्रह्माजी का भगीरथ को अभीष्ट वर देना, गंगा जी को धारण करनेके लिये भगवान् शङ्कर को राजी करना
Penance of Anshuman and Bhagiratha, Brahma grants Bhagiratha the desired boon, and persuading Lord Shankara to hold Ganga
कुल श्लोक: 25
श्लोक 1
कालधर्मं गते राम सगरे प्रकृतीजनाः।
राजानं रोचयामासुरंशुमन्तं सुधार्मिकम्॥
राजानं रोचयामासुरंशुमन्तं सुधार्मिकम्॥
॥ 1.42.1 ॥
श्लोक 2
स राजा सुमहानासीदंशुमान् रघुनन्दन।
तस्य पुत्रो महानासीद् दिलीप इति विश्रुतः॥
तस्य पुत्रो महानासीद् दिलीप इति विश्रुतः॥
॥ 1.42.2 ॥
श्लोक 3
तस्मै राज्यं समादिश्य दिलीपे रघुनन्दन।
हिमवच्छिखरे रम्ये तपस्तेपे सुदारुणम्॥
हिमवच्छिखरे रम्ये तपस्तेपे सुदारुणम्॥
॥ 1.42.3 ॥
श्लोक 4
द्वात्रिंशच्छतसाहस्रं वर्षाणि सुमहायशाः।
तपोवनगतो राजा स्वर्गं लेभे तपोधनः॥
तपोवनगतो राजा स्वर्गं लेभे तपोधनः॥
॥ 1.42.4 ॥
श्लोक 5
दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम्।
दुःखोपहतया बुद्धया निश्चयं नाध्यगच्छत॥
दुःखोपहतया बुद्धया निश्चयं नाध्यगच्छत॥
॥ 1.42.5 ॥
श्लोक 6
कथं गंगावतरणं कथं तेषां जलक्रिया।
तारयेयं कथं चैतानिति चिन्तापरोऽभवत्॥
तारयेयं कथं चैतानिति चिन्तापरोऽभवत्॥
॥ 1.42.6 ॥
श्लोक 7
तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः।
पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः॥
पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः॥
॥ 1.42.7 ॥
श्लोक 8
दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान्।
त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत्॥
त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत्॥
॥ 1.42.8 ॥
श्लोक 9
अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति।
व्याधिना नरशार्दूल कालधर्ममुपेयिवान्॥
व्याधिना नरशार्दूल कालधर्ममुपेयिवान्॥
॥ 1.42.9 ॥
श्लोक 10
इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा।
राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभः॥
राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभः॥
॥ 1.42.10 ॥
श्लोक 11
भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दन।
अनपत्यो महाराजः प्रजाकामः स च प्रजाः॥ मन्त्रिष्वाधाय तद् राज्यं गंगावतरणे रतः।
अनपत्यो महाराजः प्रजाकामः स च प्रजाः॥ मन्त्रिष्वाधाय तद् राज्यं गंगावतरणे रतः।
॥ 1.42.11 ॥
श्लोक 12
तपो दीर्घ समातिष्ठद् गोकर्णे रघुनन्दन॥
॥ 1.42.12 ॥
श्लोक 13
ऊर्ध्वबाहुः पञ्चतपा मासाहारो जितेन्द्रियः।
तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः॥ अतीतानि महाबाहो तस्य राज्ञो महात्मनः।
तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः॥ अतीतानि महाबाहो तस्य राज्ञो महात्मनः।
॥ 1.42.13 ॥
श्लोक 14
सुप्रीतो भगवान् ब्रह्मा प्रजानां प्रभुरीश्वरः॥ ततः सुरगणैः सार्धमुपागम्य पितामहः।
॥ 1.42.14 ॥
श्लोक 15
भगीरथं महात्मानं तप्यमानमथाब्रवीत्॥
॥ 1.42.15 ॥
श्लोक 16
भगीरथ महाराज प्रीतस्तेऽहं जनाधिप।
तपसा च सुतप्तेन वरं वरय सुव्रत॥
तपसा च सुतप्तेन वरं वरय सुव्रत॥
॥ 1.42.16 ॥
श्लोक 17
तमुवाच महातेजाः सर्वलोकपितामहम्।
भगीरथो महाबाहुः कृताञ्जलिपुटः स्थितः॥
भगीरथो महाबाहुः कृताञ्जलिपुटः स्थितः॥
॥ 1.42.17 ॥
श्लोक 18
यदि मे भगवान् प्रीतो यद्यस्ति तपसःफलम्।
सगरस्यात्मजाः सर्वे मत्तः सलिलमाप्नुयुः॥
सगरस्यात्मजाः सर्वे मत्तः सलिलमाप्नुयुः॥
॥ 1.42.18 ॥
श्लोक 19
गंगायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम्।
स्वर्गं गच्छेयुरत्यन्तं सर्वे च प्रपितामहाः॥
स्वर्गं गच्छेयुरत्यन्तं सर्वे च प्रपितामहाः॥
॥ 1.42.19 ॥
श्लोक 20
देव याचे ह संतत्यै नावसीदेत् कुलं च नः।
इक्ष्वाकूणां कुले देव एष मेऽस्तु वरः परः॥
इक्ष्वाकूणां कुले देव एष मेऽस्तु वरः परः॥
॥ 1.42.20 ॥
श्लोक 21
उक्तवाक्यं तु राजानं सर्वलोकपितामहः।
प्रत्युवाच शुभां वाणी मधुरां मधुराक्षराम्॥
प्रत्युवाच शुभां वाणी मधुरां मधुराक्षराम्॥
॥ 1.42.21 ॥
श्लोक 22
मनोरथो महानेष भगीरथ महारथ।
एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्धन॥
एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्धन॥
॥ 1.42.22 ॥
श्लोक 23
इयं हैमवती ज्येष्ठा गंगा हिमवतः सुता।
तां वै धारयितुं राजन् हरस्तत्र नियुज्यताम्॥
तां वै धारयितुं राजन् हरस्तत्र नियुज्यताम्॥
॥ 1.42.23 ॥
श्लोक 24
गंगायाः पतनं राजन् पृथिवी न सहिष्यते।
तां वै धारयितुं राजन् नान्यं पश्यामि शूलिनः॥
तां वै धारयितुं राजन् नान्यं पश्यामि शूलिनः॥
॥ 1.42.24 ॥
श्लोक 25
तमेवमुक्त्वा राजानं गंगां चाभाष्य लोककृत्।
जगाम त्रिदिवं देवैः सर्वैः सह मरुद्गणैः॥
जगाम त्रिदिवं देवैः सर्वैः सह मरुद्गणैः॥
॥ 1.42.25 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विचत्वारिंशः सर्गः॥४२॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में बयालीसवाँ सर्ग पूरा हुआ।४२॥
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में बयालीसवाँ सर्ग पूरा हुआ।४२॥
🔍 शब्दार्थ
| संस्कृत शब्द | हिंदी अर्थ |
|---|---|
| इति | इस प्रकार (अव्यय) |
| आर्षे | ऋषि द्वारा कथित (सप्तमी विभक्ति) |
| श्रीमद्रामायणे | श्रीमद्रामायण में (सप्तमी विभक्ति) |
| वाल्मीकीये | वाल्मीकि द्वारा रचित (सप्तमी विभक्ति) |
| आदिकाव्ये | आदिकाव्य में (सप्तमी विभक्ति) |
| बालकाण्डे | बालकाण्ड में (सप्तमी विभक्ति) |
| द्विचत्वारिंशः | बयालीसवाँ (प्रथमा विभक्ति) |
| सर्गः | सर्ग (प्रथमा विभक्ति) |
| ॥४२॥ | संख्या ४२ (सर्ग संख्या) |