वाल्मीकि रामायण

बालकाण्ड सर्ग 40 | श्रीमद्वाल्मीकि रामायण

🌿 सर्ग 40: सगर के पुत्रों का पृथ्वी को खोदते हुए कपिलजी के पास पहुँचना और उनके रोष से जलकर भस्म होना
Sagara's sons reach Kapila while digging the earth and are burnt to ashes by his wrath
कुल श्लोक: 30
श्लोक 1
देवतानां वचः श्रुत्वा भगवान् वै पितामहः।
प्रत्युवाच सुसंत्रस्तान् कृतान्तबलमोहितान्॥
॥ 1.40.1 ॥
श्लोक 2
यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः।
महिषी माधवस्यैषा स एव भगवान् प्रभुः॥
॥ 1.40.2 ॥
श्लोक 3
कापिलं रूपमास्थाय धारयत्यनिशं धराम्।
तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः॥
॥ 1.40.3 ॥
श्लोक 4
पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः।
सगरस्य च पुत्राणां विनाशो दीर्घदर्शिनाम्॥
॥ 1.40.4 ॥
श्लोक 5
पितामहवचः श्रुत्वा त्रयस्त्रिंशदरिंदमाः।
देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम्॥
॥ 1.40.5 ॥
श्लोक 6
सगरस्य च पुत्राणां प्रादुरासीन्महास्वनः ।
पृथिव्यां भिद्यमानायां निर्घातसमनिःस्वनः॥
॥ 1.40.6 ॥
श्लोक 7
ततो भित्त्वा महीं सर्वां कृत्वा चापि प्रदक्षिणम्।
सहिताः सागराः सर्वे पितरं वाक्यमब्रुवन्॥
॥ 1.40.7 ॥
श्लोक 8
परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिताः।
देवदानवरक्षांसि पिशाचोरगपन्नगाः॥
॥ 1.40.8 ॥
श्लोक 9
न च पश्यामहेऽश्वं ते अश्वहर्तारमेव च।
किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम्॥
॥ 1.40.9 ॥
श्लोक 10
तेषां तद् वचनं श्रुत्वा पुत्राणां राजसत्तमः ।
समन्युरब्रवीद् वाक्यं सगरो रघुनन्दन॥
॥ 1.40.10 ॥
श्लोक 11
भूयः खनत भद्रं वो विभेद्य वसुधातलम्।
अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तत॥
॥ 1.40.11 ॥
श्लोक 12
पितुर्वचनमासाद्य सगरस्य महात्मनः।
षष्टिः पुत्रसहस्राणि रसातलमभिद्रवन्॥
॥ 1.40.12 ॥
श्लोक 13
खन्यमाने ततस्तस्मिन् ददृशुः पर्वतोपमम्।
दिशागजं विरूपाक्षं धारयन्तं महीतलम्॥
॥ 1.40.13 ॥
श्लोक 14
सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन।
धारयामास शिरसा विरूपाक्षो महागजः॥
॥ 1.40.14 ॥
श्लोक 15
यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः।
खेदात् शिरो विधुन्वन् हि भूमिकम्पं करोति वै॥
॥ 1.40.15 ॥
श्लोक 16
ते तं प्रदक्षिणं कृत्वा दिशापालं महागजम्।
मानयन्तो हि ते राम जग्मुर्भित्त्वा रसातलम्॥
॥ 1.40.16 ॥
श्लोक 17
ततः पूर्वां दिशं भित्त्वा दक्षिणां बिभिदुः पुनः।
दक्षिणस्यामपि दिशि ददृशुस्ते महागजम्॥
॥ 1.40.17 ॥
श्लोक 18
महापद्मं महात्मानं सुमहत्पर्वतोपमम्।
शिरसा धारयन्तं गां विस्मयं जग्मुरुत्तमम्॥
॥ 1.40.18 ॥
श्लोक 19
ते तं प्रदक्षिणं कृत्वा सगरस्य महात्मनः।
षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम्॥
॥ 1.40.19 ॥
श्लोक 20
पश्चिमायामपि दिशि महान्तमचलोपमम्।
दिशागजं सौमनसं ददृशुस्ते महाबलाः॥
॥ 1.40.20 ॥
श्लोक 21
ते तं प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम्।
खनन्तः समुपाक्रान्ता दिशं सोमवतीं तदा ॥
॥ 1.40.21 ॥
श्लोक 22
उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डुरम्।
भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम्॥
॥ 1.40.22 ॥
श्लोक 23
समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम्।
षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधातलम्॥
॥ 1.40.23 ॥
श्लोक 24
ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम्।
रोषादभ्यखनन् सर्वे पृथिवीं सगरात्मजाः॥
॥ 1.40.24 ॥
श्लोक 25
ते तु सर्वे महात्मानो भीमवेगा महाबलाः।
ददृशुः कपिलं तत्र वासुदेवं सनातनम्॥
॥ 1.40.25 ॥
श्लोक 26
हयं च तस्य देवस्य चरन्तमविदूरतः।
प्रहर्षमतुलं प्राप्ताः सर्वे ते रघुनन्दन ॥
॥ 1.40.26 ॥
श्लोक 27
ते तं यज्ञहनं ज्ञात्वा क्रोधपर्याकुलेक्षणाः।
खनित्रलांगलधरा नानावृक्षशिलाधराः॥
॥ 1.40.27 ॥
श्लोक 28
अभ्यधावन्त संक्रुद्धास्तिष्ठ तिष्ठति चाब्रुवन्।

अस्माकं त्वं हि तुरगं यज्ञियं हृतवानसि॥ दुर्मेधस्त्वं हि सम्प्राप्तान् विद्धि नः सगरात्मजान्।
॥ 1.40.28 ॥
श्लोक 29
श्रुत्वा तद् वचनं तेषां कपिलो रघुनन्दन॥ रोषेण महताविष्टो हुङ्कारमकरोत् तदा।
॥ 1.40.29 ॥
श्लोक 30
ततस्तेनाप्रमेयेण कपिलेन महात्मना।
भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः॥
॥ 1.40.30 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चत्वारिंशः सर्गः॥४०॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में चालीसवाँ सर्ग पूरा हुआ। ४०॥
🔍 शब्दार्थ
संस्कृत शब्द हिंदी अर्थ
इति इस प्रकार (अव्यय)
आर्षे ऋषि द्वारा कथित (सप्तमी विभक्ति)
श्रीमद्रामायणे श्रीमद्रामायण में (सप्तमी विभक्ति)
वाल्मीकीये वाल्मीकि द्वारा रचित (सप्तमी विभक्ति)
आदिकाव्ये आदिकाव्य में (सप्तमी विभक्ति)
बालकाण्डे बालकाण्ड में (सप्तमी विभक्ति)
चत्वारिंशः चालीसवाँ (प्रथमा विभक्ति)
सर्गः सर्ग (प्रथमा विभक्ति)
॥४०॥ संख्या ४० (सर्ग संख्या)

ॐ श्रीरामाय नमः

वाल्मीकि रामायणम् | श्रीरामसमर्पितम्

www.valmikiramayan.in