वाल्मीकि रामायण

बालकाण्ड सर्ग 39 | श्रीमद्वाल्मीकि रामायण

🌿 सर्ग 39: इन्द्र के द्वारा राजा सगर के यज्ञ सम्बन्धी अश्व का अपहरण, सगरपुत्रों द्वारा सारी पृथ्वी का भेदन
The abduction of King Sagara's sacrificial horse by Indra, and the piercing of the entire earth by Sagara's sons
कुल श्लोक: 26
श्लोक 1
विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दनः।
उवाच परमप्रीतो मुनिं दीप्तमिवानलम्॥
॥ 1.39.1 ॥
श्लोक 2
श्रोतुमिच्छामि भद्रं ते विस्तरेण कथामिमाम्।
पूर्वजो मे कथं ब्रह्मन् यज्ञं वै समुपाहरत्॥
॥ 1.39.2 ॥
श्लोक 3
तस्य तद् वचनं श्रुत्वा कौतूहलसमन्वितः।
विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव॥
॥ 1.39.3 ॥
श्लोक 4
श्रूयतां विस्तरो राम सगरस्य महात्मनः ।
शंकरश्वशुरो नाम्ना हिमवानिति विश्रुतः॥ विन्ध्यपर्वतमासाद्य निरीक्षेते परस्परम्।
॥ 1.39.4 ॥
श्लोक 5
तयोर्मध्ये समभवद् यज्ञः स पुरुषोत्तम॥
॥ 1.39.5 ॥
श्लोक 6
स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि।
तस्याश्वचयाँ काकुत्स्थ दृढधन्वा महारथः॥ अंशुमानकरोत् तात सगरस्य मते स्थितः।
॥ 1.39.6 ॥
श्लोक 7
तस्य पर्वणि तं यज्ञं यजमानस्य वासवः॥ राक्षसी तनुमास्थाय यज्ञियाश्वमपाहरत्।
॥ 1.39.7 ॥
श्लोक 8
ह्रियमाणे तु काकुत्स्थ तस्मिन्नश्वे महात्मनः॥ उपाध्यायगणाः सर्वे यजमानमथाब्रुवन्।
॥ 1.39.8 ॥
श्लोक 9
अयं पर्वणि वेगेन यज्ञियाश्वोऽपनीयते॥ हर्तारं जहि काकुत्स्थ हयश्चैवोपनीयताम्।
॥ 1.39.9 ॥
श्लोक 10
यज्ञच्छिद्रं भवत्येतत् सर्वेषामशिवाय नः॥ तत् तथा क्रियतां राजन् यज्ञोऽच्छिद्रः कृतो भवेत्
॥ 1.39.10 ॥
श्लोक 11
सोपाध्यायवचः श्रुत्वा तस्मिन् सदसि पार्थिवः॥ षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ह।
॥ 1.39.11 ॥
श्लोक 12
गतिं पुत्रा न पश्यामि रक्षसां पुरुषर्षभाः॥ मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः।
॥ 1.39.12 ॥
श्लोक 13
तद् गच्छथ विचिन्वध्वं पुत्रका भद्रमस्तु वः॥ समुद्रमालिनी सर्वां पृथिवीमनुगच्छथ।
॥ 1.39.13 ॥
श्लोक 14
एकैकं योजनं पुत्रा विस्तारमभिगच्छत॥ यावत् तुरगसंदर्शस्तावत् खनत मेदिनीम्।
॥ 1.39.14 ॥
श्लोक 15
तमेव हयहर्तारं मार्गमाणा ममाज्ञया॥
॥ 1.39.15 ॥
श्लोक 16
दीक्षितः पौत्रसहितः सोपाध्यायगणस्त्वहम्।
इह स्थास्यामि भद्रं वो यावत् तुरगदर्शनम्॥
॥ 1.39.16 ॥
श्लोक 17
ते सर्वे हृष्टमनसो राजपुत्रा महाबलाः।
जग्मुर्महीतलं राम पितुर्वचनयन्त्रिताः॥
॥ 1.39.17 ॥
श्लोक 18
गत्वा तु पृथिवीं सर्वामदृष्ट्वा तं महाबलाः।
योजनायामविस्तारमेकैको धरणीतलम्।
बिभिदुः पुरुषव्याघ्रा वज्रस्पर्शसमैर्भुजैः॥
॥ 1.39.18 ॥
श्लोक 19
शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः।
भिद्यमाना वसुमती ननाद रघुनन्दन॥
॥ 1.39.19 ॥
श्लोक 20
नागानां वध्यमानानामसुराणां च राघव।
राक्षसानां दुराधर्षं सत्त्वानां निनदोऽभवत्॥
॥ 1.39.20 ॥
श्लोक 21
योजनानां सहस्राणि षष्टिं तु रघुनन्दन।
बिभिदुर्धरणी राम रसातलमनुत्तमम्॥
॥ 1.39.21 ॥
श्लोक 22
एवं पर्वतसम्बाधं जम्बूद्वीपं नृपात्मजाः।
खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः॥
॥ 1.39.22 ॥
श्लोक 23
ततो देवाः सगन्धर्वाः सासुराः सहपन्नगाः।
सम्भ्रान्तमनसः सर्वे पितामहमुपागमन्॥
॥ 1.39.23 ॥
श्लोक 24
ते प्रसाद्य महात्मानं विषण्णवदनास्तदा।
ऊचुः परमसंत्रस्ताः पितामहमिदं वचः॥
॥ 1.39.24 ॥
श्लोक 25
भगवन् पृथिवी सर्वा खन्यते सगरात्मजैः।
बहवश्च महात्मानो वध्यन्ते जलचारिणः॥
॥ 1.39.25 ॥
श्लोक 26
अयं यज्ञहरोऽस्माकमनेनाश्वोऽपनीयते।
इति ते सर्वभूतानि हिंसन्ति सगरात्मजाः॥
॥ 1.39.26 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनचत्वारिंशः सर्गः॥३९॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में उनतालीसवाँ सर्ग पूरा हुआ॥३९॥
🔍 शब्दार्थ
संस्कृत शब्द हिंदी अर्थ
इति इस प्रकार (अव्यय)
आर्षे ऋषि द्वारा कथित (सप्तमी विभक्ति)
श्रीमद्रामायणे श्रीमद्रामायण में (सप्तमी विभक्ति)
वाल्मीकीये वाल्मीकि द्वारा रचित (सप्तमी विभक्ति)
आदिकाव्ये आदिकाव्य में (सप्तमी विभक्ति)
बालकाण्डे बालकाण्ड में (सप्तमी विभक्ति)
एकोनचत्वारिंशः उनतालीसवाँ (प्रथमा विभक्ति)
सर्गः सर्ग (प्रथमा विभक्ति)
॥३९॥ संख्या ३९ (सर्ग संख्या)

ॐ श्रीरामाय नमः

वाल्मीकि रामायणम् | श्रीरामसमर्पितम्

www.valmikiramayan.in