वाल्मीकि रामायण

बालकाण्ड सर्ग 4 | श्रीमद्वाल्मीकि रामायण

🌿 सर्ग 4: महर्षि वाल्मीकि का चौबीस हजार श्लोकों से युक्त रामायणकाव्य का निर्माण कर लव-कुशको पढ़ाना, लव और कुश का अयोध्या में श्रीराम द्वारा सम्मानित हो रामदरबार में रामायण गान सुनाना
Sage Valmiki composes the Ramayana epic of 24,000 verses and teaches it to Lava and Kusha; they are honored by Shri Rama in Ayodhya and recite the Ramayana in his court
कुल श्लोक: 36
श्लोक 1
प्राप्तराजस्य रामस्य वाल्मीकिर्भगवानृषिः।
चकार चरितं कृत्स्नं विचित्रपदमर्थवत्॥
॥ 1.4.1 ॥
श्लोक 2
चतुर्विंशत्सहस्राणि श्लोकानामुक्तवानृषिः।
तथा सर्गशतान् पञ्च षटकाण्डानि तथोत्तरम्॥
॥ 1.4.2 ॥
श्लोक 3
कृत्वा तु तन्महाप्राज्ञः सभविष्यं सहोत्तरम्।
चिन्तयामास को न्वेतत् प्रयुञ्जीयादिति प्रभुः॥
॥ 1.4.3 ॥
श्लोक 4
तस्य चिन्तयमानस्य महर्षेर्विभुप्रभोः।
अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ॥
॥ 1.4.4 ॥
श्लोक 5
कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ।
भ्रातरौ स्वरसम्पन्नौ ददर्शाश्रमवासिनौ॥
॥ 1.4.5 ॥
श्लोक 6
स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ।
वेदोपबृंहणार्थाय तावग्राहयत प्रभुः॥
॥ 1.4.6 ॥
श्लोक 7
काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत्।
पौलस्त्यवधमित्येवं चकार चरितव्रतः॥
॥ 1.4.7 ॥
श्लोक 8
पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम्।
जातिभिः सप्तभिर्युक्तं तन्त्रीलयसमन्वितम्॥
॥ 1.4.8 ॥
श्लोक 9
रसैः शृंगारकरुणहास्य रौद्रभयानकैः।
वीरादिभी रसैर्युक्तं काव्यमेतदगायताम्॥
॥ 1.4.9 ॥
श्लोक 10
तौ तु गान्धर्वतत्त्वज्ञौ स्थानमूर्च्छनकोविदौ।
भ्रातरौ स्वरसम्पन्नौ गन्धर्वाविव रूपिणौ॥
॥ 1.4.10 ॥
श्लोक 11
सुलक्षणौ सुवपुषौ राममूर्त्यनुकारिणौ।
रामाद्भिन्नौ सुसंकाशौ भ्रातरौ भ्रातृवत्सलौ॥
॥ 1.4.11 ॥
श्लोक 12
तौ राजपुत्रौ कात्स्न्येन धर्म्यमाख्यानमुत्तमम्।
वाचोविधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ ॥
॥ 1.4.12 ॥
श्लोक 13
ऋषीणां च द्विजातीनां साधूनां च समागमे।
यथोपदेशं तत्त्वज्ञौ जगतुः सुसमाहितौ॥
॥ 1.4.13 ॥
श्लोक 14
महात्मानौ महाभागौ सर्वलक्षणलक्षितौ।
तौ कदाचित् समेतानामृषीणां भावितात्मनाम्॥
॥ 1.4.14 ॥
श्लोक 15
मध्ये सभं समीपस्थाविदं काव्यमगायताम्।
तच्छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः ॥
॥ 1.4.15 ॥
श्लोक 16
साधु साध्विति तावूचुः परं विस्मयमागताः।
ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः॥
॥ 1.4.16 ॥
श्लोक 17
प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ।
अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः॥
॥ 1.4.17 ॥
श्लोक 18
चिरनिर्वृत्तमप्येतत् प्रत्यक्षमिव दर्शितम्।
प्रविश्य तावुभौ सुष्ठ तथाभावमगायताम्।
सहितौ मधुरं रक्तं सम्पन्नं स्वरसम्पदा॥
॥ 1.4.18 ॥
श्लोक 19
एवं प्रशस्यमानौ तौ तपः श्लाघ्यैर्महर्षिभिः।
संरक्ततरमत्यर्थं मधुरं तावगायताम्॥
॥ 1.4.19 ॥
श्लोक 20
प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ।
प्रसन्नो वल्कलं कश्चिद् ददौ ताभ्यां महायशाः।
अन्यः कृष्णाजिनमदाद् यज्ञसूत्रं तथापरः॥
॥ 1.4.20 ॥
श्लोक 22
कश्चित् कमण्डलुं प्रादान्मौजीमन्यो महामुनिः।
बृसीमन्यस्तदा प्रादात् कौपीनमपरो मुनिः॥
॥ 1.4.22 ॥
श्लोक 23
ताभ्यां ददौ तदा हृष्टः कुठारमपरो मुनिः।
काषायमपरो वस्त्रं चीरमन्यो ददौ मुनिः॥
॥ 1.4.23 ॥
श्लोक 24
जटाबन्धनमन्यस्तु काष्ठरज्जुं मुदान्वितः।
यज्ञभाण्डमृषिः कश्चित् काष्ठभारं तथापरः॥
॥ 1.4.24 ॥
श्लोक 25
औदुम्बरी बृसीमन्यः स्वस्ति केचित् तदावदन्।
आयुष्यमपरे प्राहुर्मुदा तत्र महर्षयः॥ ददुश्चैवं वरान् सर्वे मुनयः सत्यवादिनः।
॥ 1.4.25 ॥
श्लोक 26
आश्चर्यमिदमाख्यानं मुनिना सम्प्रकीर्तितम्।
परं कवीनामाधारं समाप्तं च यथाक्रमम्॥
॥ 1.4.26 ॥
श्लोक 27
अभिगीतमिदं गीतं सर्वगीतिषु कोविदौ।
आयुष्यं पुष्टिजननं सर्वश्रुतिमनोहरम्॥
॥ 1.4.27 ॥
श्लोक 28
प्रशस्यमानौ सर्वत्र कदाचित् तत्र गायकौ।
रथ्यासु राजमार्गेषु ददर्श भरताग्रजः॥
॥ 1.4.28 ॥
श्लोक 29
स्ववेश्म चानीय ततो भ्रातरौ स कुशीलवौ।
पूजयामास पूजाौँ रामः शत्रुनिबर्हणः॥
॥ 1.4.29 ॥
श्लोक 30
आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः।
उपोपविष्टैः सचिवैर्भ्रातृभिश्च समन्वितः॥
॥ 1.4.30 ॥
श्लोक 31
दृष्ट्वा तु रूपसम्पन्नौ विनीतौ भ्रातरावुभौ।
उवाच लक्ष्मणं रामः शत्रुजं भरतं तथा॥
॥ 1.4.31 ॥
श्लोक 32
श्रूयतामेतदाख्यानमनयोर्देववर्चसोः।
विचित्रार्थपदं सम्यग्गायकौ समचोदयत्॥
॥ 1.4.32 ॥
श्लोक 33
तौ चापि मधुरं रक्तं स्वचित्तायतनिःस्वनम्।
तन्त्रीलयवदत्यर्थं विश्रुतार्थमगायताम्।
लादयत् सर्वगात्राणि मनांसि हृदयानि च।
श्रोत्राश्रयसुखं गेयं तद् बभौ जनसंसदि॥
॥ 1.4.33 ॥
श्लोक 35
इमौ मुनी पार्थिवलक्षणान्वितौ कुशीलवौ चैव महातपस्विनौ।
ममापि तद् भूतिकरं प्रचक्षते महानुभावं चरितं निबोधत॥
॥ 1.4.35 ॥
श्लोक 36
ततस्तु तौ रामवचःप्रचोदितावगायतां मार्गविधानसम्पदा।
स चापि रामः परिषद्गतः शनैर्बुभूषयासक्तमना बभूव ॥
॥ 1.4.36 ॥
सर्ग समाप्ति
इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्थः सर्गः॥४॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके बालकाण्डमें चौथा सर्ग पूरा हुआ॥४॥

ॐ श्रीरामाय नमः

वाल्मीकि रामायणम् | श्रीरामसमर्पितम्

www.valmikiramayan.in