🌿 सर्ग 3: वाल्मीकि मुनि द्वारा रामायण काव्य में निबद्ध विषयों का संक्षेप से उल्लेख
Sage Valmiki's brief mention of the topics incorporated into the Ramayana epic
कुल श्लोक: 39
श्लोक 1
श्रुत्वा वस्तु समग्रं तद्धर्मार्थसहितं हितम्।
व्यक्तमन्वेषते भूयो यद् वृत्तं तस्य धीमतः॥
व्यक्तमन्वेषते भूयो यद् वृत्तं तस्य धीमतः॥
॥ 1.3.1 ॥
श्लोक 2
उपस्पृश्योदकं सम्यङ्मुनिः स्थित्वा कृताञ्जलिः।
प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम्॥
प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम्॥
॥ 1.3.2 ॥
श्लोक 3
रामलक्ष्मणसीताभी राज्ञा दशरथेन च।
सभार्येण सराष्ट्रेण यत् प्राप्तं तत्र तत्त्वतः॥
सभार्येण सराष्ट्रेण यत् प्राप्तं तत्र तत्त्वतः॥
॥ 1.3.3 ॥
श्लोक 4
हसितं भाषितं चैव गतिर्यावच्च चेष्टितम्।
तत् सर्वं धर्मवीर्येण यथावत् सम्प्रपश्यति॥
तत् सर्वं धर्मवीर्येण यथावत् सम्प्रपश्यति॥
॥ 1.3.4 ॥
श्लोक 5
स्त्रीतृतीयेन च तथा यत् प्राप्तं चरता वने।
सत्यसंधेन रामेण तत् सर्वं चान्ववैक्षत॥
सत्यसंधेन रामेण तत् सर्वं चान्ववैक्षत॥
॥ 1.3.5 ॥
श्लोक 6
ततः पश्यति धर्मात्मा तत् सर्वं योगमास्थितः।
पुरा यत् तत्र निर्वृत्तं पाणावामलकं यथा॥
पुरा यत् तत्र निर्वृत्तं पाणावामलकं यथा॥
॥ 1.3.6 ॥
श्लोक 7
तत् सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महामतिः।
अभिरामस्य रामस्य तत् सर्वं कर्तुमुद्यतः॥
अभिरामस्य रामस्य तत् सर्वं कर्तुमुद्यतः॥
॥ 1.3.7 ॥
श्लोक 8
कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम्।
समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम्॥
समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम्॥
॥ 1.3.8 ॥
श्लोक 9
स यथा कथितं पूर्वं नारदेन महात्मना।
रघुवंशस्य चरितं चकार भगवान् मुनिः॥
रघुवंशस्य चरितं चकार भगवान् मुनिः॥
॥ 1.3.9 ॥
श्लोक 10
जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम्।
लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम्॥
लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम्॥
॥ 1.3.10 ॥
श्लोक 11
नाना चित्राः कथाश्चान्या विश्वामित्रसहायने।
जानक्याश्च विवाहं च धनुषश्च विभेदनम्॥
जानक्याश्च विवाहं च धनुषश्च विभेदनम्॥
॥ 1.3.11 ॥
श्लोक 12
रामरामविवादं च गुणान् दाशरथेस्तथा।
तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम्॥
तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम्॥
॥ 1.3.12 ॥
श्लोक 13
विघातं चाभिषेकस्य रामस्य च विवासनम्।
राज्ञः शोकं विलापं च परलोकस्य चाश्रयम्॥
राज्ञः शोकं विलापं च परलोकस्य चाश्रयम्॥
॥ 1.3.13 ॥
श्लोक 14
प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम्।
निषादाधिपसंवादं सूतोपावर्तनं तथा॥
निषादाधिपसंवादं सूतोपावर्तनं तथा॥
॥ 1.3.14 ॥
श्लोक 15
गंगायाश्चापि संतारं भरद्वाजस्य दर्शनम्।
भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम्॥
भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम्॥
॥ 1.3.15 ॥
श्लोक 16
वास्तुकर्म निवेशं च भरतागमनं तथा।
प्रसादनं च रामस्य पितुश्च सलिलक्रियाम्॥
प्रसादनं च रामस्य पितुश्च सलिलक्रियाम्॥
॥ 1.3.16 ॥
श्लोक 17
पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम्।
दण्डकारण्यगमनं विराधस्य वधं तथा॥
दण्डकारण्यगमनं विराधस्य वधं तथा॥
॥ 1.3.17 ॥
श्लोक 18
दर्शनं शरभंगस्य सुतीक्ष्णेन समागमम्।
अनसूयासमाख्यां च अंगरागस्य चार्पणम्॥
अनसूयासमाख्यां च अंगरागस्य चार्पणम्॥
॥ 1.3.18 ॥
श्लोक 19
दर्शनं चाप्यगस्त्यस्य धनुषो ग्रहणं तथा।
शूर्पणख्याश्च संवादं विरूपकरणं तथा॥
शूर्पणख्याश्च संवादं विरूपकरणं तथा॥
॥ 1.3.19 ॥
श्लोक 20
वधं खरत्रिशिरसोरुत्थानं रावणस्य च।
मारीचस्य वधं चैव वैदेह्या हरणं तथा॥
मारीचस्य वधं चैव वैदेह्या हरणं तथा॥
॥ 1.3.20 ॥
श्लोक 21
राघवस्य विलापं च गृध्रराजनिबर्हणम्।
कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम्॥
कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम्॥
॥ 1.3.21 ॥
श्लोक 22
शबरीदर्शनं चैव फलमूलाशनं तथा।
प्रलापं चैव पम्पायां हनूमद्दर्शनं तथा॥
प्रलापं चैव पम्पायां हनूमद्दर्शनं तथा॥
॥ 1.3.22 ॥
श्लोक 23
ऋष्यमूकस्य गमनं सुग्रीवेण समागमम्।
प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम्॥
प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम्॥
॥ 1.3.23 ॥
श्लोक 24
वालिप्रमथनं चैव सुग्रीवप्रतिपादनम्।
ताराविलापं समयं वर्षरात्रनिवासनम्॥
ताराविलापं समयं वर्षरात्रनिवासनम्॥
॥ 1.3.24 ॥
श्लोक 25
कोपं राघवसिंहस्य बलानामुपसंग्रहम्।
दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम्॥
दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम्॥
॥ 1.3.25 ॥
श्लोक 26
अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम्।
प्रायोपवेशनं चैव सम्पातेश्चापि दर्शनम्॥
प्रायोपवेशनं चैव सम्पातेश्चापि दर्शनम्॥
॥ 1.3.26 ॥
श्लोक 27
पर्वतारोहणं चैव सागरस्यापि लङ्घनम्।
समुद्रवचनाच्चैव मैनाकस्य च दर्शनम्॥
समुद्रवचनाच्चैव मैनाकस्य च दर्शनम्॥
॥ 1.3.27 ॥
श्लोक 28
राक्षसीतर्जनं चैव च्छायाग्राहस्य दर्शनम्।
सिंहिकायाश्च निधनं लङ्कामलयदर्शनम्॥
सिंहिकायाश्च निधनं लङ्कामलयदर्शनम्॥
॥ 1.3.28 ॥
श्लोक 29
रात्रौ लङ्काप्रवेशं च एकस्यापि विचिन्तनम्।
आपानभूमिगमनमवरोधस्य दर्शनम्॥
आपानभूमिगमनमवरोधस्य दर्शनम्॥
॥ 1.3.29 ॥
श्लोक 30
दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम्।
अशोकवनिकायानं सीतायाश्चापि दर्शनम्॥
अशोकवनिकायानं सीतायाश्चापि दर्शनम्॥
॥ 1.3.30 ॥
श्लोक 31
अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम्।
राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम्॥
राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम्॥
॥ 1.3.31 ॥
श्लोक 32
मणिप्रदानं सीताया वृक्षभंगं तथैव च।
राक्षसीविद्रवं चैव किंकराणां निबर्हणम्॥
राक्षसीविद्रवं चैव किंकराणां निबर्हणम्॥
॥ 1.3.32 ॥
श्लोक 33
ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम्।
प्रतिप्लवनमेवाथ मधूनां हरणं तथा॥
प्रतिप्लवनमेवाथ मधूनां हरणं तथा॥
॥ 1.3.33 ॥
श्लोक 34
राघवाश्वासनं चैव मणिनिर्यातनं तथा।
संगमं च समुद्रेण नलसेतोश्च बन्धनम्॥
संगमं च समुद्रेण नलसेतोश्च बन्धनम्॥
॥ 1.3.34 ॥
श्लोक 35
प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम्।
विभीषणेन संसर्गं वधोपायनिवेदनम्॥
विभीषणेन संसर्गं वधोपायनिवेदनम्॥
॥ 1.3.35 ॥
श्लोक 36
कुम्भकर्णस्य निधनं मेघनादनिबर्हणम्।
रावणस्य विनाशं च सीतावाप्तिमरेः पुरे ॥
रावणस्य विनाशं च सीतावाप्तिमरेः पुरे ॥
॥ 1.3.36 ॥
श्लोक 37
विभीषणाभिषेकं च पुष्पकस्य च दर्शनम्।
अयोध्यायाश्च गमनं भरद्वाजसमागमम्॥
अयोध्यायाश्च गमनं भरद्वाजसमागमम्॥
॥ 1.3.37 ॥
श्लोक 38
प्रेषणं वायुपुत्रस्य भरतेन समागमम्।
रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम्।
स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम्॥
रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम्।
स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम्॥
॥ 1.3.38 ॥
श्लोक 39
अनागतं च यत् किंचिद् रामस्य वसुधातले।
तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः॥
तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः॥
॥ 1.3.39 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे तृतीयः सर्गः॥३॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में तीसरा सर्ग पूरा हुआ॥३॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में तीसरा सर्ग पूरा हुआ॥३॥
🔍 शब्दार्थ
| संस्कृत शब्द | हिंदी अर्थ |
|---|---|
| इति | इस प्रकार (अव्यय, समाप्ति सूचक) |
| आर्षे | ऋषि प्रोक्त में (सप्तमी विभक्ति) |
| श्रीमद्रामायणे | श्रीरामायण में (सप्तमी विभक्ति) |
| वाल्मीकीये | वाल्मीकि द्वारा रचित में (सप्तमी विभक्ति) |
| आदिकाव्ये | आदिकाव्य में (सप्तमी विभक्ति) |
| बालकाण्डे | बालकाण्ड में (सप्तमी विभक्ति) |
| तृतीयः | तीसरा (प्रथमा विभक्ति) |
| सर्गः | सर्ग (प्रथमा विभक्ति) |
| ॥३॥ | ॥३॥ (सर्ग संख्या) |