वाल्मीकि रामायण

बालकाण्ड सर्ग 37 | श्रीमद्वाल्मीकि रामायण

🌿 सर्ग 37: गंगा से कार्तिकेय की उत्पत्ति का प्रसंग
The episode of the birth of Kartikeya from Ganga
कुल श्लोक: 32
श्लोक 1
तप्यमाने तदा देवे सेन्द्राः साग्निपुरोगमाः।
सेनापतिमभीप्सन्तः पितामहमुपागमन्॥
॥ 1.37.1 ॥
श्लोक 2
ततोऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम्।
प्रणिपत्य सुराराम सेन्द्राः साग्निपुरोगमाः॥
॥ 1.37.2 ॥
श्लोक 3
येन सेनापतिर्देव दत्तो भगवता पुरा।
स तपः परमास्थाय तप्यते स्म सहोमया॥
॥ 1.37.3 ॥
श्लोक 4
यदत्रानन्तरं कार्यं लोकानां हितकाम्यया।
संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः॥
॥ 1.37.4 ॥
श्लोक 5
देवतानां वचः श्रुत्वा सर्वलोकपितामहः।
सान्त्वयन् मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत्॥
॥ 1.37.5 ॥
श्लोक 6
शैलपुत्र्या यदुक्तं तन्न प्रजाः स्वासु पत्निषु।
तस्या वचनमक्लिष्टं सत्यमेव न संशयः॥
॥ 1.37.6 ॥
श्लोक 7
इयमाकाशगंगा च यस्यां पुत्रं हुताशनः।
जनयिष्यति देवानां सेनापतिमरिंदमम्॥
॥ 1.37.7 ॥
श्लोक 8
ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तं सुतम्।
उमायास्तबहुमतं भविष्यति न संशयः॥
॥ 1.37.8 ॥
श्लोक 9
तच्छ्रत्वा वचनं तस्य कृतार्था रघुनन्दन।
प्रणिपत्य सुराः सर्वे पितामहमपूजयन्॥
॥ 1.37.9 ॥
श्लोक 10
ते गत्वा परमं राम कैलासं धातुमण्डितम्।
अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः॥
॥ 1.37.10 ॥
श्लोक 11
देवकार्यमिदं देव समाधत्स्व हुताशन।
शैलपुत्र्यां महातेजो गंगायां तेज उत्सृज॥
॥ 1.37.11 ॥
श्लोक 12
देवतानां प्रतिज्ञाय गंगामभ्येत्य पावकः।
गर्भ धारय वै देवि देवतानामिदं प्रियम्॥
॥ 1.37.12 ॥
श्लोक 13
इत्येतद् वचनं श्रुत्वा दिव्यं रूपमधारयत्।
स तस्या महिमां दृष्ट्वा समन्तादवशीर्यत॥
॥ 1.37.13 ॥
श्लोक 14
समन्ततस्तदा देवीमभ्यषिञ्चत पावकः।
सर्वस्रोतांसि पूर्णानि गंगाया रघुनन्दन॥
॥ 1.37.14 ॥
श्लोक 15
तमुवाच ततो गंगा सर्वदेवपुरोगमम्।
अशक्ता धारणे देव तेजस्तव समुद्धतम्॥ दह्यमानाग्निना तेन सम्प्रव्यथितचेतना।
॥ 1.37.15 ॥
श्लोक 16
अथाब्रवीदिदं गंगां सर्वदेवहुताशनः॥ इह हैमवते पार्वे गर्भोऽयं संनिवेश्यताम्।
॥ 1.37.16 ॥
श्लोक 17
श्रुत्वा त्वग्निवचो गंगा तं गर्भमतिभास्वरम्॥ उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदानघ।
॥ 1.37.17 ॥
श्लोक 18
यदस्या निर्गतं तस्मात् तप्तजाम्बूनदप्रभम्॥ काञ्चनं धरणी प्राप्तं हिरण्यमतुलप्रभम्।
॥ 1.37.18 ॥
श्लोक 19
ताम्रं काष्र्णायसं चैव तैक्ष्ण्यादेवाभिजायत॥
॥ 1.37.19 ॥
श्लोक 20
मलं तस्याभवत् तत्र त्रपु सीसकमेव च।
तदेतद्धरणीं प्राप्य नानाधातुरवर्धत ॥
॥ 1.37.20 ॥
श्लोक 21
निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम्।
सर्वं पर्वतसंनद्धं सौवर्णमभवद् वनम्॥
॥ 1.37.21 ॥
श्लोक 22
जातरूपमिति ख्यातं तदाप्रभृति राघव।
सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम्।
तृणवृक्षलतागुल्मं सर्वं भवति काञ्चनम् ॥
॥ 1.37.22 ॥
श्लोक 23
तं कुमारं ततो जातं सेन्द्राः सह मरुद्गणाः।
क्षीरसम्भावनार्थाय कृत्तिकाः समयोजयन्॥
॥ 1.37.23 ॥
श्लोक 24
ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम्।
ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः॥
॥ 1.37.24 ॥
श्लोक 25
ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन्।
पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशयः॥
॥ 1.37.25 ॥
श्लोक 26
तेषां तद् वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे।
स्नापयन् परया लक्ष्या दीप्यमानं यथानलम्॥
॥ 1.37.26 ॥
श्लोक 27
स्कन्द इत्यब्रुवन् देवाः स्कन्नं गर्भपरिस्रवे।
कार्तिकेयं महाबाहुं काकुत्स्थ ज्वलनोपमम्॥
॥ 1.37.27 ॥
श्लोक 28
प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम्।
षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः॥
॥ 1.37.28 ॥
श्लोक 29
गृहीत्वा क्षीरमेकाना सुकुमारवपुस्तदा।
अजयत् स्वेन वीर्येण दैत्यसैन्यगणान् विभुः॥
॥ 1.37.29 ॥
श्लोक 30
सुरसेनागणपतिमभ्यषिञ्चन्महाद्युतिम्।
ततस्तममराः सर्वे समेत्याग्निपुरोगमाः॥
॥ 1.37.30 ॥
श्लोक 31
एष ते राम गंगाया विस्तरोऽभिहितो मया।
कुमारसम्भवश्चैव धन्यः पुण्यस्तथैव च॥
॥ 1.37.31 ॥
श्लोक 32
भक्तश्च यः कार्तिकेये काकुत्स्थ भुवि मानवः।
आयुष्मान् पुत्रपौत्रैश्च स्कन्दसालोक्यतां व्रजेत्॥
॥ 1.37.32 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तत्रिंशः सर्गः॥३७॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में सैंतीसवाँ सर्ग पूरा हुआ ॥३७॥
🔍 शब्दार्थ
संस्कृत शब्द हिंदी अर्थ
इति इस प्रकार (अव्यय)
आर्षे ऋषि द्वारा कथित (सप्तमी विभक्ति)
श्रीमद्रामायणे श्रीमद्रामायण में (सप्तमी विभक्ति)
वाल्मीकीये वाल्मीकि द्वारा रचित (सप्तमी विभक्ति)
आदिकाव्ये आदिकाव्य में (सप्तमी विभक्ति)
बालकाण्डे बालकाण्ड में (सप्तमी विभक्ति)
सप्तत्रिंशः सैंतीसवाँ (प्रथमा विभक्ति)
सर्गः सर्ग (प्रथमा विभक्ति)
॥३७॥ संख्या ३७ (सर्ग संख्या)

ॐ श्रीरामाय नमः

वाल्मीकि रामायणम् | श्रीरामसमर्पितम्

www.valmikiramayan.in