वाल्मीकि रामायण

बालकाण्ड सर्ग 36 | श्रीमद्वाल्मीकि रामायण

🌿 सर्ग 36: देवताओं का शिव-पार्वती को सुरतक्रीडा से निवृत्त करना तथा उमादेवी का देवताओं और पृथ्वी को शाप देना
The gods dissuade Shiva and Parvati from amorous play and Goddess Uma curses the gods and the Earth
कुल श्लोक: 27
श्लोक 1
उक्तवाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ।
प्रतिनन्द्य कथां वीरावूचतुर्मुनिपुंगवम्॥
॥ 1.36.1 ॥
श्लोक 2
धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया।
दुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसि।
विस्तरं विस्तरज्ञोऽसि दिव्यमानुषसम्भवम्॥
॥ 1.36.2 ॥
श्लोक 3
त्रीन् पथो हेतुना केन प्लावयेल्लोकपावनी।
कथं गंगा त्रिपथगा विश्रुता सरिदुत्तमा॥
॥ 1.36.3 ॥
श्लोक 4
त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता।
तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः॥ निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत्।
॥ 1.36.4 ॥
श्लोक 5
पुरा राम कृतोद्वाहः शितिकण्ठो महातपाः॥ दृष्ट्वा च भगवान् देवीं मैथुनायोपचक्रमे।
॥ 1.36.5 ॥
श्लोक 6
तस्य संक्रीडमानस्य महादेवस्य धीमतः।
शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम्॥
॥ 1.36.6 ॥
श्लोक 7
न चापि तनयो राम तस्यामासीत् परंतप।
सर्वे देवाः समुद्युक्ताः पितामहपुरोगमाः॥
॥ 1.36.7 ॥
श्लोक 8
यदिहोत्पद्यते भूतं कस्तत् प्रतिसहिष्यति।
अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन्॥
॥ 1.36.8 ॥
श्लोक 9
देवदेव महादेव लोकस्यास्य हिते रत।
सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि॥
॥ 1.36.9 ॥
श्लोक 10
न लोका धारयिष्यन्ति तव तेजः सुरोत्तम।
ब्राह्मण तपसा युक्तो देव्या सह तपश्चर॥
॥ 1.36.10 ॥
श्लोक 11
त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय।
रक्ष सर्वानिमाल्लोकान् नालोकं कर्तुमर्हसि ॥
॥ 1.36.11 ॥
श्लोक 12
देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः।
बाढमित्यब्रवीत् सर्वान् पुनश्चेदमुवाच ह॥
॥ 1.36.12 ॥
श्लोक 13
धारयिष्याम्यहं तेजस्तेजसैव सहोमया।
त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु॥
॥ 1.36.13 ॥
श्लोक 14
यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम्।
धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः॥
॥ 1.36.14 ॥
श्लोक 15
एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम्।
यत्तेजः क्षुभितं ह्यद्य तद्धरा धारयिष्यति॥
॥ 1.36.15 ॥
श्लोक 16
एवमुक्तः सुरपतिः प्रमुमोच महाबलः।
तेजसा पृथिवी येन व्याप्ता सगिरिकानना॥
॥ 1.36.16 ॥
श्लोक 17
ततो देवाः पुनरिदमूचुश्चापि हुताशनम्।
आविश त्वं महातेजो रौद्रं वायुसमन्वितः॥
॥ 1.36.17 ॥
श्लोक 18
तदग्निना पुनर्व्याप्तं संजातं श्वेतपर्वतम्।
दिव्यं शरवणं चैव पावकादित्यसंनिभम्॥
॥ 1.36.18 ॥
श्लोक 19
यत्र जातो महातेजाः कार्तिकेयोऽग्निसम्भवः ।
अथोमां च शिवं चैव देवाः सर्षिगणास्तथा॥ पूजयामासुरत्यर्थं सुप्रीतमनसस्तदा।
॥ 1.36.19 ॥
श्लोक 20
अथ शैलसुता राम त्रिदशानिदमब्रवीत्॥ समन्युरशपत् सर्वान् क्रोधसंरक्तलोचना।
॥ 1.36.20 ॥
श्लोक 21
यस्मान्निवारिता चाहं संगता पुत्रकाम्यया॥ अपत्यं स्वेषु दारेषु नोत्पादयितुमर्हथ।
॥ 1.36.21 ॥
श्लोक 22
अद्यप्रभृति युष्माकमप्रजाः सन्तु पत्नयः॥
॥ 1.36.22 ॥
श्लोक 23
एवमुक्त्वा सुरान् सर्वान् शशाप पृथिवीमपि।
अवने नैकरूपा त्वं बहभार्या भविष्यसि ॥
॥ 1.36.23 ॥
श्लोक 24
न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता।
प्राप्स्यसि त्वं सुदुर्मेधो मम पुत्रमनिच्छती॥
॥ 1.36.24 ॥
श्लोक 25
तान् सर्वान् पीडितान् दृष्ट्वा सुरान् सुरपतिस्तदा।
गमनायोपचक्राम दिशं वरुणपालिताम्॥
॥ 1.36.25 ॥
श्लोक 26
स गत्वा तप आतिष्ठत् पार्श्वे तस्योत्तरे गिरेः।
हिमवत्प्रभवे श्रृंगे सह देव्या महेश्वरः॥
॥ 1.36.26 ॥
श्लोक 27
एष ते विस्तरो राम शैलपुत्र्या निवेदितः।
गंगायाः प्रभवं चैव शृणु मे सहलक्ष्मण ॥
॥ 1.36.27 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्त्रिंशः सर्गः॥३६॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में छत्तीसवाँ सर्ग पूरा हुआ॥३६॥
🔍 शब्दार्थ
संस्कृत शब्द हिंदी अर्थ
इति इस प्रकार (अव्यय)
आर्षे ऋषि द्वारा कथित (सप्तमी विभक्ति)
श्रीमद्रामायणे श्रीमद्रामायण में (सप्तमी विभक्ति)
वाल्मीकीये वाल्मीकि द्वारा रचित (सप्तमी विभक्ति)
आदिकाव्ये आदिकाव्य में (सप्तमी विभक्ति)
बालकाण्डे बालकाण्ड में (सप्तमी विभक्ति)
षट्त्रिंशः छत्तीसवाँ (प्रथमा विभक्ति)
सर्गः सर्ग (प्रथमा विभक्ति)
॥३६॥ संख्या ३६ (सर्ग संख्या)

ॐ श्रीरामाय नमः

वाल्मीकि रामायणम् | श्रीरामसमर्पितम्

www.valmikiramayan.in