🌿 सर्ग 2: रामायण काव्य का उपक्रम- तमसा के तटपर क्रौञ्चवध से संतप्त हुए महर्षि वाल्मीकि के शोक का श्लोक-रूप में प्रकट होना तथा ब्रह्माजी का उन्हें रामचरित्रमय काव्य के निर्माण का आदेश देना
The genesis of the Ramayana: Sage Valmiki's sorrow upon seeing the killing of a Krauncha bird takes the form of a Shloka, and Lord Brahma commands him to compose the epic of Rama's story
कुल श्लोक: 43
श्लोक 1
नारदस्य तु तद् वाक्यं श्रुत्वा वाक्यविशारदः।
पूजयामास धर्मात्मा सहशिष्यो महामुनिम्॥
पूजयामास धर्मात्मा सहशिष्यो महामुनिम्॥
॥ 1.2.1 ॥
श्लोक 2
यथावत् पूजितस्तेन देवर्षिर्नारदस्तथा।
आपृच्छ्यैवाभ्यनुज्ञातः स जगाम विहायसम्॥
आपृच्छ्यैवाभ्यनुज्ञातः स जगाम विहायसम्॥
॥ 1.2.2 ॥
श्लोक 3
स मुहूर्तं गते तस्मिन् देवलोकं मुनिस्तदा।
जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः॥
जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः॥
॥ 1.2.3 ॥
श्लोक 4
स तु तीरं समासाद्य तमसाया मुनिस्तदा।
शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम्॥
शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम्॥
॥ 1.2.4 ॥
श्लोक 5
अकर्दममिदं तीर्थं भरद्वाज निशामय।
रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा॥
रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा॥
॥ 1.2.5 ॥
श्लोक 6
न्यस्यतां कलशस्तात दीयतां वल्कलं मम।
इदमेवावगाहिष्ये तमसातीर्थमुत्तमम्॥
इदमेवावगाहिष्ये तमसातीर्थमुत्तमम्॥
॥ 1.2.6 ॥
श्लोक 7
एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना।
प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः॥
प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः॥
॥ 1.2.7 ॥
श्लोक 8
स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः।
विचचार ह पश्यंस्तत् सर्वतो विपुलं वनम्॥
विचचार ह पश्यंस्तत् सर्वतो विपुलं वनम्॥
॥ 1.2.8 ॥
श्लोक 9
तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम्।
ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिःस्वनम्॥
ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिःस्वनम्॥
॥ 1.2.9 ॥
श्लोक 10
तस्मात् तु मिथुनादेकं पुमांसं पापनिश्चयः।
जघान वैरनिलयो निषादस्तस्य पश्यतः॥
जघान वैरनिलयो निषादस्तस्य पश्यतः॥
॥ 1.2.10 ॥
श्लोक 11
तं शोणितपरीतांगं चेष्टमानं महीतले।
भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम्॥
भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम्॥
॥ 1.2.11 ॥
श्लोक 12
वियुक्ता पतिना तेन द्विजेन सहचारिणा।
ताम्रशीर्षेण मत्तेन पत्रिणा सहितेन वै॥
ताम्रशीर्षेण मत्तेन पत्रिणा सहितेन वै॥
॥ 1.2.12 ॥
श्लोक 13
तथाविधं द्विजं दृष्ट्वा निषादेन निपातितम्।
ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत॥
ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत॥
॥ 1.2.13 ॥
श्लोक 14
ततः करुणवेदित्वादधर्मोऽयमिति द्विजः।
निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत्॥
निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत्॥
॥ 1.2.14 ॥
श्लोक 15
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम्॥
यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम्॥
॥ 1.2.15 ॥
श्लोक 16
तस्येत्थं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः।
शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया॥
शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया॥
॥ 1.2.16 ॥
श्लोक 17
चिन्तयन् स महाप्राज्ञश्चकार मतिमान्मतिम्।
शिष्यं चैवाब्रवीद् वाक्यमिदं स मुनिपुंगवः ॥
शिष्यं चैवाब्रवीद् वाक्यमिदं स मुनिपुंगवः ॥
॥ 1.2.17 ॥
श्लोक 18
पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः।
शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा॥
शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा॥
॥ 1.2.18 ॥
श्लोक 19
शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम्।
प्रतिजग्राह संतुष्टस्तस्य तुष्टोऽभवन्मुनिः॥
प्रतिजग्राह संतुष्टस्तस्य तुष्टोऽभवन्मुनिः॥
॥ 1.2.19 ॥
श्लोक 20
सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि।
तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः॥
तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः॥
॥ 1.2.20 ॥
श्लोक 21
भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान् गुरोः।
कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह॥
कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह॥
॥ 1.2.21 ॥
श्लोक 22
स प्रविश्याश्रमपदं शिष्येण सह धर्मवित्।
उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः ॥
उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः ॥
॥ 1.2.22 ॥
श्लोक 23
आजगाम ततो ब्रह्मा लोककर्ता स्वयं प्रभुः।
चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुंगवम्॥
चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुंगवम्॥
॥ 1.2.23 ॥
श्लोक 24
वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः।
प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः॥
प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः॥
॥ 1.2.24 ॥
श्लोक 25
पूजयामास तं देवं पाद्यासनवन्दनैः।
प्रणम्य विधिवच्चैनं पृष्ट्वा चैव निरामयम्॥
प्रणम्य विधिवच्चैनं पृष्ट्वा चैव निरामयम्॥
॥ 1.2.25 ॥
श्लोक 26
अथोपविश्य भगवानासने परमार्चिते।
वाल्मीकये च ऋषये संदिदेशासनं ततः॥
वाल्मीकये च ऋषये संदिदेशासनं ततः॥
॥ 1.2.26 ॥
श्लोक 27
ब्रह्मणा समनुज्ञातः सोऽप्युपाविशदासने।
उपविष्टे तदा तस्मिन् साक्षाल्लोकपितामहे।
तद्गतेनैव मनसा वाल्मीकिध्यानमास्थितः।
पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना।
यत् तादृशं चारुरवं क्रौञ्चं हन्यादकारणात्॥
उपविष्टे तदा तस्मिन् साक्षाल्लोकपितामहे।
तद्गतेनैव मनसा वाल्मीकिध्यानमास्थितः।
पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना।
यत् तादृशं चारुरवं क्रौञ्चं हन्यादकारणात्॥
॥ 1.2.27 ॥
श्लोक 29
शोचन्नेव पुनः क्रौञ्चीमुपश्लोकमिमं जगौ।
पुनरन्तर्गतमना भूत्वा शोकपरायणः॥
पुनरन्तर्गतमना भूत्वा शोकपरायणः॥
॥ 1.2.29 ॥
श्लोक 30
तमुवाच ततो ब्रह्मा प्रहसन् मुनिपुंगवम्।
श्लोक एवास्त्वयं बद्धो नात्र कार्या विचारणा।
मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती॥
श्लोक एवास्त्वयं बद्धो नात्र कार्या विचारणा।
मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती॥
॥ 1.2.30 ॥
श्लोक 32
रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम।
धर्मात्मनो भगवतो लोके रामस्य धीमतः।
वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम्॥
धर्मात्मनो भगवतो लोके रामस्य धीमतः।
वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम्॥
॥ 1.2.32 ॥
श्लोक 33
रहस्यं च प्रकाशं च यद् वृत्तं तस्य धीमतः।
रामस्य सहसौमित्रे राक्षसानां च सर्वशः।
वैदेह्याश्चैव यद् वृत्तं प्रकाशं यदि वा रहः।
तच्चाप्यविदितं सर्वं विदितं ते भविष्यति॥
रामस्य सहसौमित्रे राक्षसानां च सर्वशः।
वैदेह्याश्चैव यद् वृत्तं प्रकाशं यदि वा रहः।
तच्चाप्यविदितं सर्वं विदितं ते भविष्यति॥
॥ 1.2.33 ॥
श्लोक 35
न ते वागनृता काव्ये काचिदत्र भविष्यति।
कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम्॥
कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम्॥
॥ 1.2.35 ॥
श्लोक 36
यावत् स्थास्यन्ति गिरयः सरितश्च महीतले।
तावद् रामायणकथा लोकेषु प्रचरिष्यति॥
तावद् रामायणकथा लोकेषु प्रचरिष्यति॥
॥ 1.2.36 ॥
श्लोक 37
रामस्य च कथा त्वत्कृता प्रचरिष्यति।
तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि॥
तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि॥
॥ 1.2.37 ॥
श्लोक 38
इत्युक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत।
ततः सशिष्यो भगवान् मुनिर्विस्मयमाययौ॥
ततः सशिष्यो भगवान् मुनिर्विस्मयमाययौ॥
॥ 1.2.38 ॥
श्लोक 39
तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनः।
मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः॥
मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः॥
॥ 1.2.39 ॥
श्लोक 40
समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा।
सोऽनुव्याहरणाद् भूयः शोकः श्लोकत्वमागतः ॥
सोऽनुव्याहरणाद् भूयः शोकः श्लोकत्वमागतः ॥
॥ 1.2.40 ॥
श्लोक 41
तस्य बुद्धिरियं जाता महर्षेर्भावितात्मनः।
कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम्॥
कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम्॥
॥ 1.2.41 ॥
श्लोक 42
उदारवृत्तार्थपदैर्मनोरमैस्तदास्य रामस्य चकार कीर्तिमान्।
समाक्षरैः श्लोकशतैर्यशस्विनो यशस्करं काव्यमुदारदर्शनः॥
समाक्षरैः श्लोकशतैर्यशस्विनो यशस्करं काव्यमुदारदर्शनः॥
॥ 1.2.42 ॥
श्लोक 43
तदुपगतसमाससंधियोगं सममधुरोपनतार्थवाक्यबद्धम्।
रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम्॥
रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम्॥
॥ 1.2.43 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वितीयः सर्गः ॥२॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके बालकाण्ड में दूसरा सर्ग पूरा हुआ॥२॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके बालकाण्ड में दूसरा सर्ग पूरा हुआ॥२॥
🔍 शब्दार्थ
| संस्कृत शब्द | हिंदी अर्थ |
|---|---|
| इति | इस प्रकार (अव्यय, समाप्ति सूचक) |
| आर्षे | ऋषि प्रोक्त में (सप्तमी विभक्ति) |
| श्रीमद्रामायणे | श्रीरामायण में (सप्तमी विभक्ति) |
| वाल्मीकीये | वाल्मीकि द्वारा रचित में (सप्तमी विभक्ति) |
| आदिकाव्ये | आदिकाव्य में (सप्तमी विभक्ति) |
| बालकाण्डे | बालकाण्ड में (सप्तमी विभक्ति) |
| द्वितीयः | दूसरा (प्रथमा विभक्ति) |
| सर्गः | सर्ग (प्रथमा विभक्ति) |
| ॥२॥ | ॥२॥ (सर्ग संख्या) |