वाल्मीकि रामायण

बालकाण्ड सर्ग 27 | श्रीमद्वाल्मीकि रामायण

🌿 सर्ग 27: विश्वामित्र द्वारा श्रीराम को दिव्यास्त्र दान
The bestowal of divine weapons upon Shri Rama by Vishwamitra
कुल श्लोक: 28
श्लोक 1
अथ तां रजनीमुष्य विश्वामित्रो महायशाः।
प्रहस्य राघवं वाक्यमुवाच मधुरस्वरम्॥
॥ 1.27.1 ॥
श्लोक 2
परितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः।
प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः॥
॥ 1.27.2 ॥
श्लोक 3
देवासुरगणान् वापि सगन्धर्वोरगान् भुवि।
यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि॥
॥ 1.27.3 ॥
श्लोक 4
तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः।
दण्डचक्रं महद् दिव्यं तव दास्यामि राघव।
धर्मचक्रं ततो वीर कालचक्रं तथैव च।
विष्णुचक्रं तथात्युग्रमैन्द्रं चक्रं तथैव च॥
॥ 1.27.4 ॥
श्लोक 6
वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा।
अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव।
ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम्॥
॥ 1.27.6 ॥
श्लोक 7
गदे द्वे चैव काकुत्स्थ मोदकीशिखरी शुभे।
प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज।
धर्मपाशमहं राम कालपाशं तथैव च।
वारुणं पाशमस्त्रं च ददाम्यहमनुत्तमम्॥
॥ 1.27.7 ॥
श्लोक 9
अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन।
ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा॥
॥ 1.27.9 ॥
श्लोक 10
आग्नेयमस्त्रं दयितं शिखरं नाम नामतः।
वायव्यं प्रथमं नाम ददामि तव चानघ॥
॥ 1.27.10 ॥
श्लोक 11
अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च।
शक्तिद्वयं च काकुत्स्थ ददामि तव राघव॥
॥ 1.27.11 ॥
श्लोक 12
कङ्कालं मुसलं घोरं कापालमथ किङ्किणीम्।
वधार्थं रक्षसां यानि ददाम्येतानि सर्वशः॥
॥ 1.27.12 ॥
श्लोक 13
वैद्याधरं महास्त्रं च नन्दनं नाम नामतः।
असिरत्नं महाबाहो ददामि नृवरात्मज॥
॥ 1.27.13 ॥
श्लोक 14
गान्धर्वमस्त्रं दयितं मोहनं नाम नामतः।
प्रस्वापनं प्रशमनं दद्मि सौम्यं च राघव॥
॥ 1.27.14 ॥
श्लोक 15
वर्षणं शोषणं चैव संतापनविलापने।
मादनं चैव दुर्धर्षं कन्दर्पदयितं तथा।
गान्धर्वमस्त्रं दयितं मानवं नाम नामतः।
पैशाचमस्त्रं दयितं मोहनं नाम नामतः।
प्रतीच्छ नरशार्दूल राजपुत्र महायशः॥
॥ 1.27.15 ॥
श्लोक 18
तामसं नरशार्दूल सौमनं च महाबलम्।
संवर्तं चैव दुर्धर्षं मौसलं च नृपात्मज।
सत्यमस्त्रं महाबाहो तथा मायामयं परम्।
सौरं तेजःप्रभं नाम परतेजोऽपकर्षणम्॥
॥ 1.27.18 ॥
श्लोक 20
सोमास्त्रं शिशिरं नाम त्वाष्ट्रमस्त्रं सुदारुणम्।
दारुणं च भगस्यापि शीतेषुमथ मानवम्॥
॥ 1.27.20 ॥
श्लोक 21
एतान् राम महाबाहो कामरूपान् महाबलान्।
गृहाण परमोदारान् क्षिप्रमेव नृपात्मज॥
॥ 1.27.21 ॥
श्लोक 22
स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्मुनिवरस्तदा।
ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम्॥
॥ 1.27.22 ॥
श्लोक 23
सर्वसंग्रहणं येषां दैवतैरपि दुर्लभम्।
तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत्॥
॥ 1.27.23 ॥
श्लोक 24
जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः।
उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम्।
ऊचुश्च मुदिता रामं सर्वे प्राञ्जलयस्तदा।
इमे च परमोदार किङ्करास्तव राघव।
यद्यदिच्छसि भद्रं ते तत्सर्वं करवाम वै॥
॥ 1.27.24 ॥
श्लोक 26
ततो रामः प्रसन्नात्मा तैरित्युक्तो महाबलैः।
प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना।
मानसा मे भविष्यध्वमिति तान्यभ्यचोदयत्॥
॥ 1.27.26 ॥
श्लोक 28
ततः प्रीतमना रामो विश्वामित्रं महामुनिम्।
अभिवाद्य महातेजा गमनायोपचक्रमे॥
॥ 1.27.28 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तविंशः सर्गः ॥२७॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में सत्ताईसवाँ सर्ग पूरा हुआ॥२७॥
🔍 शब्दार्थ
संस्कृत शब्द हिंदी अर्थ
इति इस प्रकार (अव्यय, समाप्ति सूचक)
आर्षे ऋषि प्रोक्त में (सप्तमी विभक्ति)
श्रीमद्रामायणे श्रीरामायण में (सप्तमी विभक्ति)
वाल्मीकीये वाल्मीकि द्वारा रचित में (सप्तमी विभक्ति)
आदिकाव्ये आदिकाव्य में (सप्तमी विभक्ति)
बालकाण्डे बालकाण्ड में (सप्तमी विभक्ति)
सप्तविंशः सत्ताईसवाँ (प्रथमा विभक्ति)
सर्गः सर्ग (प्रथमा विभक्ति)
॥२७॥ ॥२७॥ (सर्ग संख्या)

ॐ श्रीरामाय नमः

वाल्मीकि रामायणम् | श्रीरामसमर्पितम्

www.valmikiramayan.in