वाल्मीकि रामायण

बालकाण्ड सर्ग 26 | श्रीमद्वाल्मीकि रामायण

🌿 सर्ग 26: श्रीराम द्वारा ताटका का वध
The slaying of Tataka by Shri Rama
कुल श्लोक: 36
श्लोक 1
मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः।
राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः॥
॥ 1.26.1 ॥
श्लोक 2
पितुर्वचननिर्देशात् पितुर्वचनगौरवात्।
वचनं कौशिकस्येति कर्तव्यमविशङ्कया।
अनुशिष्टोऽस्म्ययोध्यायां गुरुमध्ये महात्मना।
पित्रा दशरथेनाहं नावज्ञेयं हि तद्वचः॥
॥ 1.26.2 ॥
श्लोक 4
सोऽहं पितुर्वचः श्रुत्वा शासनाद् ब्रह्मवादिनः।
करिष्यामि न संदेहस्ताटकावधमुत्तमम्॥
॥ 1.26.4 ॥
श्लोक 5
गोब्राह्मणहितार्थाय देशस्य च हिताय च।
तव चैवाप्रमेयस्य वचनं कर्तुमुद्यतः॥
॥ 1.26.5 ॥
श्लोक 6
एवमुक्त्वा धनुर्मध्ये बद्ध्वा मुष्टिमरिंदमः।
ज्याघोषमकरोत् तीव्रं दिशः शब्देन नादयन्॥
॥ 1.26.6 ॥
श्लोक 7
तेन शब्देन वित्रस्तास्ताटकावनवासिनः।
ताटका च सुसंक्रुद्धा तेन शब्देन मोहिता॥
॥ 1.26.7 ॥
श्लोक 8
तं शब्दमभिनिध्याय राक्षसी क्रोधमूर्च्छिता।
श्रुत्वा चाभ्यद्रवत् क्रुद्धा यत्र शब्दो विनिःसृतः॥
॥ 1.26.8 ॥
श्लोक 9
तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम्।
प्रमाणेनातिवृद्धां च लक्ष्मणं सोऽभ्यभाषत॥
॥ 1.26.9 ॥
श्लोक 10
पश्य लक्ष्मण यक्षिण्या भैरवं दारुणं वपुः।
भिद्येरन् दर्शनादस्या भीरूणां हृदयानि च॥
॥ 1.26.10 ॥
श्लोक 11
एतां पश्य दुराधर्षां मायाबलसमन्विताम्।
विनिवृत्तां करोम्यद्य हृतकर्णाग्रनासिकाम्॥
॥ 1.26.11 ॥
श्लोक 12
न ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम्।
वीर्यं चास्या गतिं चैव हन्यामिति हि मे मतिः॥
॥ 1.26.12 ॥
श्लोक 13
एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्च्छिता।
उद्यम्य बाहू गर्जन्ती राममेवाभ्यधावत॥
॥ 1.26.13 ॥
श्लोक 14
विश्वामित्रस्तु ब्रह्मर्षिर्हुङ्कारेणाभिभर्त्स्य ताम्।
स्वस्ति राघवयोरस्तु जयं चैवाभ्यभाषत॥
॥ 1.26.14 ॥
श्लोक 15
उद्धून्वाना रजो घोरं ताटका राघवावुभौ।
रजोमेघेन महता मुहूर्तं सा व्यमोहयत्॥
॥ 1.26.15 ॥
श्लोक 16
ततो मायां समास्थाय शिलावर्षेण राघवौ।
अवाकिरत् सुमहता ततश्चुक्रोध राघवः॥
॥ 1.26.16 ॥
श्लोक 17
शिलावर्षं महत् तस्याः शरवर्षेण राघवः।
प्रतिवार्योपधावन्त्याः करौ चिच्छेद पत्रिभिः॥
॥ 1.26.17 ॥
श्लोक 18
ततश्छिन्नभुजां श्रान्तामभ्याशे परिगर्जतीम्।
सौमित्रिरकरोत् क्रोधाद्धृतकर्णाग्रनासिकाम्॥
॥ 1.26.18 ॥
श्लोक 19
कामरूपधरा सा तु कृत्वा रूपाण्यनेकशः।
अन्तर्धानं गता यक्षी मोहयन्ती स्वमायया॥
॥ 1.26.19 ॥
श्लोक 20
अश्मवर्षं विमुञ्चन्ती भैरवं विचचार सा।
ततस्तावश्मवर्षेण कीर्यमाणौ समन्ततः।
दृष्ट्वा गाधिसुतः श्रीमानिदं वचनमब्रवीत्।
अलं ते घृणया राम पापैषा दुष्टचारिणी।
यज्ञविघ्नकरी यक्षी पुरा वर्धेत मायया।
वध्यतां तावदेवैषा पुरा सन्ध्या प्रवर्तते।
रक्षांसि सन्ध्याकाले तु दुर्धर्षाणि भवन्ति हि॥
॥ 1.26.20 ॥
श्लोक 23
इत्युक्तः स तु तां यक्षीमश्मवृष्ट्याभिवर्षिणीम्।
दर्शयन् शब्दवेधित्वं तां रुरोध स सायकैः॥
॥ 1.26.23 ॥
श्लोक 24
सा रुद्धा बाणजालेन मायाबलसमन्विता।
अभिदुद्राव काकुत्स्थं लक्ष्मणं च विनेदुषी।
तामापतन्तीं वेगेन विक्रान्तामशनीमिव।
शरेणोरसि विव्याध सा पपात ममार च॥
॥ 1.26.24 ॥
श्लोक 26
तां हतां भीमसंकाशां दृष्ट्वा सुरपतिस्तदा।
साधु साध्विति काकुत्स्थं सुराश्चाप्यभिपूजयन्॥
॥ 1.26.26 ॥
श्लोक 27
उवाच परमप्रीतः सहस्राक्षः पुरन्दरः।
सुराश्च सर्वे संहृष्टा विश्वामित्रमथाब्रुवन्॥
॥ 1.26.27 ॥
श्लोक 28
मुने कौशिक भद्रं ते सेन्द्राः सर्वे मरुद्गणाः।
तोषिताः कर्मणानेन स्नेहं दर्शय राघवे॥
॥ 1.26.28 ॥
श्लोक 29
प्रजापतेः कृशाश्वस्य पुत्रान् सत्यपराक्रमान्।
तपोबलभृतो ब्रह्मन् राघवाय निवेदय॥
॥ 1.26.29 ॥
श्लोक 30
पात्रभूतश्च ते ब्रह्मंस्तवानुगमने रतः।
कर्तव्यं सुमहत् कर्म सुराणां राजसूनुना॥
॥ 1.26.30 ॥
श्लोक 31
एवमुक्त्वा सुराः सर्वे जग्मुर्हृष्टा विहायसम्।
विश्वामित्रं पूजयन्तस्ततः सन्ध्या प्रवर्तते॥
॥ 1.26.31 ॥
श्लोक 32
ततो मुनिवरः प्रीतस्ताटकावधतोषितः।
मूर्ध्नि राममुपाघ्राय इदं वचनमब्रवीत्॥
॥ 1.26.32 ॥
श्लोक 33
इहाद्य रजनीं राम वसाम शुभदर्शन।
श्वः प्रभाते गमिष्यामस्तदाश्रमपदं मम॥
॥ 1.26.33 ॥
श्लोक 34
विश्वामित्रवचः श्रुत्वा हृष्टो दशरथात्मजः।
उवास रजनीं तत्र ताटकाया वने सुखम्॥
॥ 1.26.34 ॥
श्लोक 35
मुक्तशापं वनं तच्च तस्मिन्नेव तदाहनि।
रमणीयं विबभ्राज यथा चैत्ररथं वनम्॥
॥ 1.26.35 ॥
श्लोक 36
निहत्य तां यक्षसुतां स रामः प्रशस्यमानः सुरसिद्धसङ्घैः।
उवास तस्मिन् मुनिना सहैव प्रभातवेलां प्रतिबोध्यमानः॥
॥ 1.26.36 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षड्विंशः सर्गः ॥२६॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में छब्बीसवाँ सर्ग पूरा हुआ॥२६॥
🔍 शब्दार्थ
संस्कृत शब्द हिंदी अर्थ
इति इस प्रकार (अव्यय, समाप्ति सूचक)
आर्षे ऋषि प्रोक्त में (सप्तमी विभक्ति)
श्रीमद्रामायणे श्रीरामायण में (सप्तमी विभक्ति)
वाल्मीकीये वाल्मीकि द्वारा रचित में (सप्तमी विभक्ति)
आदिकाव्ये आदिकाव्य में (सप्तमी विभक्ति)
बालकाण्डे बालकाण्ड में (सप्तमी विभक्ति)
षड्विंशः छब्बीसवाँ (प्रथमा विभक्ति)
सर्गः सर्ग (प्रथमा विभक्ति)
॥२६॥ ॥२६॥ (सर्ग संख्या)

ॐ श्रीरामाय नमः

वाल्मीकि रामायणम् | श्रीरामसमर्पितम्

www.valmikiramayan.in