🌿 सर्ग 24: श्रीराम और लक्ष्मण का गंगापार होते समय तुमुलध्वनि के विषय में प्रश्न, मलद, करूष एवं ताटका वन का परिचय, ताटका वध की आज्ञा
Rama and Lakshmana question the tumultuous sound while crossing the Ganga; Introduction to Malada, Karusha, and Tataka forest; Order for the slaying of Tataka
कुल श्लोक: 32
श्लोक 1
ततः प्रभाते विमले कृताह्निकमरिन्दमौ।
विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ॥
विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ॥
॥ 1.24.1 ॥
श्लोक 2
ते च सर्वे महात्मानो मुनयः संशितव्रताः।
उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रवन्॥
उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रवन्॥
॥ 1.24.2 ॥
श्लोक 3
आरोहतु भवान् नावं राजपुत्रपुरस्कृतः।
अरिष्टं गच्छ पन्थानं मा भूत् कालस्य पर्ययः॥
अरिष्टं गच्छ पन्थानं मा भूत् कालस्य पर्ययः॥
॥ 1.24.3 ॥
श्लोक 4
विश्वामित्रस्तथेत्युक्त्वा तानृषीन् प्रतिपूज्य च।
ततार सहितस्ताभ्यां सरितं सागरंगमाम्॥
ततार सहितस्ताभ्यां सरितं सागरंगमाम्॥
॥ 1.24.4 ॥
श्लोक 5
तत्र शुश्राव वै शब्दं तोयसंरम्भवर्धितम्।
मध्यमागम्य तोयस्य तस्य शब्दस्य निश्चयम्।
ज्ञातुकामो महातेजाः सह रामः कनीयसा॥
मध्यमागम्य तोयस्य तस्य शब्दस्य निश्चयम्।
ज्ञातुकामो महातेजाः सह रामः कनीयसा॥
॥ 1.24.5 ॥
श्लोक 6
अथ रामः सरिन्मध्ये पप्रच्छ मुनिपुंगवम्।
वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः॥
वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः॥
॥ 1.24.6 ॥
श्लोक 7
राघवस्य वचः श्रुत्वा कौतूहलसमन्वितम्।
कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम्॥
कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम्॥
॥ 1.24.7 ॥
श्लोक 8
कैलासपर्वते राम मनसा निर्मितं परम्।
ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः॥
ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः॥
॥ 1.24.8 ॥
श्लोक 9
तस्मात् सुस्राव सरसः सायोध्यामुपगूहते।
सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता॥
सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता॥
॥ 1.24.9 ॥
श्लोक 10
तस्यायमतुलः शब्दो जाह्नवीमभिवर्तते।
वारिसंक्षोभजो राम प्रणामं नियतः कुरु॥
वारिसंक्षोभजो राम प्रणामं नियतः कुरु॥
॥ 1.24.10 ॥
श्लोक 11
ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ।
तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ॥
तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ॥
॥ 1.24.11 ॥
श्लोक 12
स वनं घोरसंकाशं दृष्ट्वा नरवरात्मजः।
अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुंगवम्॥
अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुंगवम्॥
॥ 1.24.12 ॥
श्लोक 13
अहो वनमिदं दुर्गं झिल्लिकागणसंयुतम्।
भैरवैः श्वापदैः कीर्णं शकुन्तैर्दारुणारवैः।
नानाप्रकारैः शकुनैर्वाश्यद्भिर्भैरवस्वनैः॥
भैरवैः श्वापदैः कीर्णं शकुन्तैर्दारुणारवैः।
नानाप्रकारैः शकुनैर्वाश्यद्भिर्भैरवस्वनैः॥
॥ 1.24.13 ॥
श्लोक 15
सिंहव्याघ्रवराहैश्च वारणैश्चापि शोभितम्।
धवाश्वकर्णककुभैर्बिल्वतिन्दुकपाटलैः।
सङ्कीर्णं बदरीभिश्च किं न्विदं दारुणं वनम्॥
धवाश्वकर्णककुभैर्बिल्वतिन्दुकपाटलैः।
सङ्कीर्णं बदरीभिश्च किं न्विदं दारुणं वनम्॥
॥ 1.24.15 ॥
श्लोक 16
तमुवाच महातेजा विश्वामित्रो महामुनिः।
श्रूयतां वत्स काकुत्स्थ यस्यैतद् दारुणं वनम्॥
श्रूयतां वत्स काकुत्स्थ यस्यैतद् दारुणं वनम्॥
॥ 1.24.16 ॥
श्लोक 17
एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम।
मलदाश्च करूषाश्च देवनिर्माणनिर्मितौ॥
मलदाश्च करूषाश्च देवनिर्माणनिर्मितौ॥
॥ 1.24.17 ॥
श्लोक 18
पुरा वृत्रवधे राम मलेन समभिप्लुतम्।
क्षुधा चैव सहस्राक्षं ब्रह्महत्या समाविशत्॥
क्षुधा चैव सहस्राक्षं ब्रह्महत्या समाविशत्॥
॥ 1.24.18 ॥
श्लोक 19
तमिन्द्रं मलिनं देवा ऋषयश्च तपोधनाः।
कलशैः स्नापयामासुर्मलं चास्य प्रमोचयन्॥
कलशैः स्नापयामासुर्मलं चास्य प्रमोचयन्॥
॥ 1.24.19 ॥
श्लोक 20
इह भूम्यां मलं दत्त्वा देवाः कारूषमेव च।
शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे॥
शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे॥
॥ 1.24.20 ॥
श्लोक 21
निर्मलो निष्करूषश्च शुद्ध इन्द्रो यथाभवत्।
ततो देशस्य सुप्रीतो वरं प्रादादनुत्तमम्।
इमौ जनपदौ स्फीतौ ख्यातिं लोके गमिष्यतः।
मलदाश्च करूषाश्च ममाङ्गमलधारिणौ॥
ततो देशस्य सुप्रीतो वरं प्रादादनुत्तमम्।
इमौ जनपदौ स्फीतौ ख्यातिं लोके गमिष्यतः।
मलदाश्च करूषाश्च ममाङ्गमलधारिणौ॥
॥ 1.24.21 ॥
श्लोक 23
साधु साध्विति तं देवाः पाकशासनमब्रुवन्।
देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता॥
देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता॥
॥ 1.24.23 ॥
श्लोक 24
एतौ जनपदौ स्फीतौ दीर्घकालमरिन्दम।
मलदाश्च करूषाश्च मुदिता धनधान्यतः॥
मलदाश्च करूषाश्च मुदिता धनधान्यतः॥
॥ 1.24.24 ॥
श्लोक 25
कस्यचित्त्वथ कालस्य यक्षिणी कामरूपिणी।
बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत्॥
बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत्॥
॥ 1.24.25 ॥
श्लोक 26
ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः।
मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः।
वृत्तबाहुर्महाशीर्षो विपुलास्यतनुर्महान्॥
मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः।
वृत्तबाहुर्महाशीर्षो विपुलास्यतनुर्महान्॥
॥ 1.24.26 ॥
श्लोक 28
राक्षसो भैरवाकारो नित्यं त्रासयते प्रजाः।
इमौ जनपदौ नित्यं विनाशयति राघव।
मलदांश्च करूषांश्च ताटका दुष्टचारिणी॥
इमौ जनपदौ नित्यं विनाशयति राघव।
मलदांश्च करूषांश्च ताटका दुष्टचारिणी॥
॥ 1.24.28 ॥
श्लोक 29
सेयं पन्थानमावृत्य वसत्यत्यर्धयोजने।
अत एव च गन्तव्यं ताटकाया वनं यतः।
स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम्॥
अत एव च गन्तव्यं ताटकाया वनं यतः।
स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम्॥
॥ 1.24.29 ॥
श्लोक 31
मन्नियोगादिमं देशं कुरु निष्कण्टकं पुनः।
नहि कश्चिदिमं देशं शक्तो ह्यागन्तुमीदृशम्॥
नहि कश्चिदिमं देशं शक्तो ह्यागन्तुमीदृशम्॥
॥ 1.24.31 ॥
श्लोक 32
यक्षिण्या घोरया राम उत्सादितमसह्यया।
एतत्ते सर्वमाख्यातं यथैतद् दारुणं वनम्।
यक्ष्या चोत्सादितं सर्वमद्यापि न निवर्तते॥
एतत्ते सर्वमाख्यातं यथैतद् दारुणं वनम्।
यक्ष्या चोत्सादितं सर्वमद्यापि न निवर्तते॥
॥ 1.24.32 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्विंशः सर्गः॥२४॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में चौबीसवाँ सर्ग पूरा हुआ॥२४॥
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में चौबीसवाँ सर्ग पूरा हुआ॥२४॥
🔍 शब्दार्थ
| संस्कृत शब्द | हिंदी अर्थ |
|---|---|
| इति | इस प्रकार (अव्यय, समाप्ति सूचक) |
| आर्षे | ऋषि प्रोक्त में (सप्तमी विभक्ति) |
| श्रीमद्रामायणे | श्रीरामायण में (सप्तमी विभक्ति) |
| वाल्मीकीये | वाल्मीकि द्वारा रचित में (सप्तमी विभक्ति) |
| आदिकाव्ये | आदिकाव्य में (सप्तमी विभक्ति) |
| बालकाण्डे | बालकाण्ड में (सप्तमी विभक्ति) |
| चतुर्विंशः | चौबीसवाँ (प्रथमा विभक्ति) |
| सर्गः | सर्ग (प्रथमा विभक्ति) |
| ॥२४॥ | ॥२४॥ (सर्ग संख्या) |