वाल्मीकि रामायण

बालकाण्ड सर्ग 21 | श्रीमद्वाल्मीकि रामायण

🌿 सर्ग 21: विश्वामित्र के रोषपूर्ण वचन तथा वसिष्ठ का राजा दशरथ को समझाना
Vishwamitra's angry words and Vashistha's persuasion of King Dasharatha
कुल श्लोक: 22
श्लोक 1
तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम्।
समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम्॥
॥ 1.21.1 ॥
श्लोक 2
पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि।
राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः॥
॥ 1.21.2 ॥
श्लोक 3
यदीदं ते क्षमं राजन् गमिष्यामि यथागतम्।
मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सुहृद्वृतः॥
॥ 1.21.3 ॥
श्लोक 4
तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः।
चचाल वसुधा कृत्स्ना देवानां च भयं महत्॥
॥ 1.21.4 ॥
श्लोक 5
त्रस्तरूपं तु विज्ञाय जगत् सर्वं महानृषिः।
नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत्॥
॥ 1.21.5 ॥
श्लोक 6
इक्ष्वाकूणां कुले जातः साक्षाद् धर्म इवापरः।
धृतिमान् सुव्रतः श्रीमान् न धर्मं हातुमर्हसि॥
॥ 1.21.6 ॥
श्लोक 7
त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः।
स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि॥
॥ 1.21.7 ॥
श्लोक 8
प्रतिश्रुत्य करिष्येति उक्तं वाक्यमकुर्वतः।
इष्टापूर्तवधो भूयात् तस्माद् रामं विसर्जय॥
॥ 1.21.8 ॥
श्लोक 9
कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः।
गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा॥
॥ 1.21.9 ॥
श्लोक 10
एष विग्रहवान् धर्म एष वीर्यवतां वरः।
एष विद्याधिको लोके तपसश्च परायणम्॥
॥ 1.21.10 ॥
श्लोक 11
एषोऽस्त्रान् विविधान् वेत्ति त्रैलोक्ये सचराचरे।
नैनमन्यः पुमान् वेत्ति न च वेत्स्यन्ति केचन॥
॥ 1.21.11 ॥
श्लोक 12
न देवा नर्षयः केचिन्नामरा न च राक्षसाः।
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः॥
॥ 1.21.12 ॥
श्लोक 13
सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः।
कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति॥
॥ 1.21.13 ॥
श्लोक 14
तेऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः।
नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः॥
॥ 1.21.14 ॥
श्लोक 15
जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे।
ते सुतेऽस्त्राणि शस्त्राणि शतं परमभास्वरम्॥
॥ 1.21.15 ॥
श्लोक 16
पञ्चाशतं सुताँल्लेभे जया लब्धवरा वरान्।
वधायासुरसैन्यानामप्रमेयानरूपिणः॥
॥ 1.21.16 ॥
श्लोक 17
सुप्रभाजनयच्चापि पुत्रान् पञ्चाशतं पुनः।
संहारान् नाम दुर्धर्षान् दुराक्रामान् बलीयसः॥
॥ 1.21.17 ॥
श्लोक 18
तानि चास्त्राणि वेत्त्येष यथावत् कुशिकात्मजः।
अपूर्वाणां च जनने शक्तो भूयश्च धर्मवित्॥
॥ 1.21.18 ॥
श्लोक 19
तेनास्य मुनिमुख्यस्य धर्मज्ञस्य महात्मनः।
न किञ्चिदस्त्यविदितं भूतं भव्यं च राघव॥
॥ 1.21.19 ॥
श्लोक 20
एवंवीर्यो महातेजा विश्वामित्रो महायशाः।
न रामगमने राजन् संशयं गन्तुमर्हसि॥
॥ 1.21.20 ॥
श्लोक 21
तेषां निग्रहणे शक्तः स्वयं च कुशिकात्मजः।
तव पुत्रहितार्थाय त्वामुपेत्याभियाचते॥
॥ 1.21.21 ॥
श्लोक 22
इति मुनिवचनात् प्रसन्नचित्तो रघुवृषभश्च मुमोद पार्थिवाग्र्यः।
गमनमभिरुरोच राघवस्य प्रथितयशाः कुशिकात्मजाय बुद्ध्या॥
॥ 1.21.22 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकविंशः सर्गः ॥२१॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में इक्कीसवाँ सर्ग पूरा हुआ॥२१॥
🔍 शब्दार्थ
संस्कृत शब्द हिंदी अर्थ
इति इस प्रकार (अव्यय, समाप्ति सूचक)
आर्षे ऋषि प्रोक्त में (सप्तमी विभक्ति)
श्रीमद्रामायणे श्रीरामायण में (सप्तमी विभक्ति)
वाल्मीकीये वाल्मीकि द्वारा रचित में (सप्तमी विभक्ति)
आदिकाव्ये आदिकाव्य में (सप्तमी विभक्ति)
बालकाण्डे बालकाण्ड में (सप्तमी विभक्ति)
एकविंशः इक्कीसवाँ (प्रथमा विभक्ति)
सर्गः सर्ग (प्रथमा विभक्ति)
॥२१॥ ॥२१॥ (सर्ग संख्या)

ॐ श्रीरामाय नमः

वाल्मीकि रामायणम् | श्रीरामसमर्पितम्

www.valmikiramayan.in