वाल्मीकि रामायण

बालकाण्ड सर्ग 20 | श्रीमद्वाल्मीकि रामायण

🌿 सर्ग 20: राजा दशरथ का विश्वामित्र को अपना पुत्र देने से इनकार करना और विश्वामित्र का कुपित होना
King Dasharatha refuses to give his son to Vishwamitra, and Vishwamitra becomes angry
कुल श्लोक: 28
श्लोक 1
तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम्।
मुहूर्तमिव निःसंज्ञः संज्ञावानिदमब्रवीत्॥
॥ 1.20.1 ॥
श्लोक 2
ऊनषोडशवर्षो मे रामो राजीवलोचनः।
न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः॥
॥ 1.20.2 ॥
श्लोक 3
इयमक्षौहिणी सेना यस्याहं पतिरीश्वरः।
अनया सहितो गत्वा योद्धाहं तैर्निशाचरैः॥
॥ 1.20.3 ॥
श्लोक 4
इमे शूराश्च विक्रान्ता भृत्यामेऽस्त्रविशारदाः।
योग्या रक्षोगणैर्योढुं न रामं नेतुमर्हसि॥
॥ 1.20.4 ॥
श्लोक 5
अहमेव धनुष्पाणिर्गोप्ता समरमूर्धनि।
यावत् प्राणान् धरिष्यामि तावद् योत्स्ये निशाचरैः॥
॥ 1.20.5 ॥
श्लोक 6
निर्विघ्ना व्रतचर्या सा भविष्यति सुरक्षिता।
अहं तत्र गमिष्यामि न रामं नेतुमर्हसि॥
॥ 1.20.6 ॥
श्लोक 7
बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम्।
न चास्त्रबलसंयुक्तो न च युद्धविशारदः॥
॥ 1.20.7 ॥
श्लोक 8
न चासौ रक्षसां योग्यः कूटयुद्धा हि राक्षसाः।
विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे।
जीवितुं मुनिशार्दूलं न रामं नेतुमर्हसि॥
॥ 1.20.8 ॥
श्लोक 9
यदि वा राघवं ब्रह्मन् नेतुमिच्छसि सुव्रत।
चतुरंगसमायुक्तं मया सह च तं नय॥
॥ 1.20.9 ॥
श्लोक 10
षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक।
कृच्छ्रेणोत्पादितश्चायं न रामं नेतुमर्हसि॥
॥ 1.20.10 ॥
श्लोक 11
चतुर्णामात्मजानां हि प्रीतिः परमिका मम।
ज्येष्ठे धर्मप्रधाने च न रामं नेतुमर्हसि॥
॥ 1.20.11 ॥
श्लोक 12
किंवीर्या राक्षसास्ते च कस्य पुत्राश्च के च ते।
कथं प्रमाणाः के चैतान् रक्षन्ति मुनिपुंगव।
कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम्॥
॥ 1.20.12 ॥
श्लोक 14
मामकैर्वा बलैर्ब्रह्मन् मया वा कूटयोधिनाम्।
सर्वं मे शंस भगवन् कथं तेषां मया रणे।
स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः॥
॥ 1.20.14 ॥
श्लोक 15
तस्य तद् वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत।
पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः।
स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम्।
महाबलो महावीर्यो राक्षसैर्बहुभिर्वृतः॥
॥ 1.20.15 ॥
श्लोक 17
श्रूयते च महाराज रावणो राक्षसाधिपः।
साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः॥
॥ 1.20.17 ॥
श्लोक 18
यदा न खलु यज्ञस्य विघ्नकर्ता महाबलः।
तेन संचोदितौ तौ तु राक्षसौ च महाबलौ।
मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः॥
॥ 1.20.18 ॥
श्लोक 20
इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा।
नहि शक्तोऽस्मि संग्रामे स्थातुं तस्य दुरात्मनः॥
॥ 1.20.20 ॥
श्लोक 21
स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके।
मम चैवाल्पभाग्यस्य दैवतं हि भवान् गुरुः॥
॥ 1.20.21 ॥
श्लोक 22
देवदानवगन्धर्वा यक्षाः पतगपन्नगाः।
न शक्ता रावणं सोढुं किं पुनर्मानवा युधि॥
॥ 1.20.22 ॥
श्लोक 23
स तु वीर्यवतां वीर्यमादत्ते युधि रावणः।
तेन चाहं न शक्तोऽस्मि संयोद्धुं तस्य वा बलैः।
सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः॥
॥ 1.20.23 ॥
श्लोक 24
कथमप्यमरप्रख्यं संग्रामाणामकोविदम्।
बालं मे तनयं ब्रह्मन् नैव दास्यामि पुत्रकम्॥
॥ 1.20.24 ॥
श्लोक 25
अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः।
यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम्।
मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ॥
॥ 1.20.25 ॥
श्लोक 27
तयोरन्यतरं योद्धुं यास्यामि ससुहृद्गणः।
अन्यथा त्वनुनेष्यामि भवन्तं सहबान्धवः॥
॥ 1.20.27 ॥
श्लोक 28
इति नरपतिजल्पनाद् द्विजेन्द्रं कुशिकसुतं सुमहान् विवेश मन्युः।
सुहुत इव मखेऽग्निराज्यसिक्तः समभवदुज्ज्वलितो महर्षिवह्निः॥
॥ 1.20.28 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे विंशः सर्गः ॥२०॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में बीसवाँ सर्ग पूरा हुआ॥२०॥
🔍 शब्दार्थ
संस्कृत शब्द हिंदी अर्थ
इति इस प्रकार (अव्यय, समाप्ति सूचक)
आर्षे ऋषि प्रोक्त में (सप्तमी विभक्ति)
श्रीमद्रामायणे श्रीरामायण में (सप्तमी विभक्ति)
वाल्मीकीये वाल्मीकि द्वारा रचित में (सप्तमी विभक्ति)
आदिकाव्ये आदिकाव्य में (सप्तमी विभक्ति)
बालकाण्डे बालकाण्ड में (सप्तमी विभक्ति)
विंशः बीसवाँ (प्रथमा विभक्ति)
सर्गः सर्ग (प्रथमा विभक्ति)
॥२०॥ ॥२०॥ (सर्ग संख्या)

ॐ श्रीरामाय नमः

वाल्मीकि रामायणम् | श्रीरामसमर्पितम्

www.valmikiramayan.in