वाल्मीकि रामायण

बालकाण्ड सर्ग 19 | श्रीमद्वाल्मीकि रामायण

🌿 सर्ग 19: विश्वामित्र के मुख से श्रीराम को साथ ले जाने की माँग सुनकर राजा दशरथ का दुःखित एवं मूर्च्छित होना
King Dasharatha, upon hearing Vishwamitra's demand to take Rama with him, becomes grief-stricken and faints
कुल श्लोक: 21
श्लोक 1
तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम्।
हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत॥
॥ 1.19.1 ॥
श्लोक 2
सदृशं राजशार्दूल तवैव भुवि नान्यतः।
महावंशप्रसूतस्य वसिष्ठव्यपदेशिनः॥
॥ 1.19.2 ॥
श्लोक 3
यत् तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम्।
कुरुष्व राजशार्दूल भव सत्यप्रतिश्रवः॥
॥ 1.19.3 ॥
श्लोक 4
अहं नियममातिष्ठे सिद्ध्यर्थं पुरुषर्षभ।
तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ॥
॥ 1.19.4 ॥
श्लोक 5
व्रते तु बहुशश्चीर्णे समाप्त्यां राक्षसाविमौ।
मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ॥
॥ 1.19.5 ॥
श्लोक 6
तौ मांसरुधिरौघेण वेदिं तामभ्यवर्षताम्।
अवधूते तथाभूते तस्मिन् नियमनिश्चये।
कृतश्रमो निरुत्साहस्तस्माद् देशादपाक्रमे॥
॥ 1.19.6 ॥
श्लोक 7
न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव।
तथाभूता हि सा चर्या न शापस्तत्र मुच्यते॥
॥ 1.19.7 ॥
श्लोक 8
स्वपुत्रं राजशार्दूल रामं सत्यपराक्रमम्।
काकपक्षधरं वीरं ज्येष्ठं मे दातुमर्हसि॥
॥ 1.19.8 ॥
श्लोक 9
शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा।
राक्षसा ये विकर्तारस्तेषामपि विनाशने।
श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशयः॥
॥ 1.19.9 ॥
श्लोक 11
त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति।
न च तौ राममासाद्य शक्तौ स्थातुं कथंचन॥
॥ 1.19.11 ॥
श्लोक 12
न च तौ राघवादन्यो हन्तुमुत्सहते पुमान्।
वीर्योत्सिक्तौ हि तौ पापौ कालपाशवशंगतौ।
रामस्य राजशार्दूल न पर्याप्तौ महात्मनः॥
॥ 1.19.12 ॥
श्लोक 13
न च पुत्रगतं स्नेहं कर्तुमर्हसि पार्थिव।
अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ॥
॥ 1.19.13 ॥
श्लोक 14
अहं वेद्मि महात्मानं रामं सत्यपराक्रमम्।
वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः॥
॥ 1.19.14 ॥
श्लोक 15
यदि ते धर्मलाभं तु यशश्च परमं भुवि।
स्थिरमिच्छसि राजेन्द्र रामं मे दातुमर्हसि॥
॥ 1.19.15 ॥
श्लोक 16
यद्यभ्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः।
वसिष्ठप्रमुखाः सर्वे ततो रामं विसर्जय॥
॥ 1.19.16 ॥
श्लोक 17
अभिप्रेतमसंसक्तमात्मजं दातुमर्हसि।
दशरात्रं हि यज्ञस्य रामं राजीवलोचनम्॥
॥ 1.19.17 ॥
श्लोक 18
नात्येति कालो यज्ञस्य यथायं मम राघव।
तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः॥
॥ 1.19.18 ॥
श्लोक 19
इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः।
विरराम महातेजा विश्वामित्रो महामतिः॥
॥ 1.19.19 ॥
श्लोक 20
स तन्निशम्य राजेन्द्रो विश्वामित्रवचः शुभम्।
शोकेन महताविष्टश्चचाल च मुमोह च॥
॥ 1.19.20 ॥
श्लोक 21
लब्धसंज्ञस्तदोत्थाय व्यषीदत भयान्वितः।
इति हृदयमनोविदारणं मुनिवचनं तदतीव शुश्रुवान्।
नरपतिरभवन्महान् महात्मा व्यथितमनाः प्रचचाल चासनात्॥
॥ 1.19.21 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनविंशः सर्गः॥१९॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में उन्नीसवाँ सर्ग पूरा हुआ॥१९॥
🔍 शब्दार्थ
संस्कृत शब्द हिंदी अर्थ
इति इस प्रकार (अव्यय, समाप्ति सूचक)
आर्षे ऋषि प्रोक्त में (सप्तमी विभक्ति)
श्रीमद्रामायणे श्रीरामायण में (सप्तमी विभक्ति)
वाल्मीकीये वाल्मीकि द्वारा रचित में (सप्तमी विभक्ति)
आदिकाव्ये आदिकाव्य में (सप्तमी विभक्ति)
बालकाण्डे बालकाण्ड में (सप्तमी विभक्ति)
एकोनविंशः उन्नीसवाँ (प्रथमा विभक्ति)
सर्गः सर्ग (प्रथमा विभक्ति)
॥१९॥ ॥१९॥ (सर्ग संख्या)

ॐ श्रीरामाय नमः

वाल्मीकि रामायणम् | श्रीरामसमर्पितम्

www.valmikiramayan.in