🌿 सर्ग 1: नारदजी का वाल्मीकि मुनि को संक्षेपसे श्रीरामचरित्र सुनाना
Narada narrates the summary of Shri Rama's story to Valmiki
कुल श्लोक: 100
श्लोक 1
ॐ तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम्।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुंगवम्॥
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुंगवम्॥
॥ 1.1.1 ॥
श्लोक 2
को न्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान्।
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः॥
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः॥
॥ 1.1.2 ॥
श्लोक 3
चारित्रेण च को युक्तः सर्वभूतेषु को हितः।
विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः॥
विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः॥
॥ 1.1.3 ॥
श्लोक 4
आत्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः।
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे॥
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे॥
॥ 1.1.4 ॥
श्लोक 5
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे।
महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम्॥
महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम्॥
॥ 1.1.5 ॥
श्लोक 6
श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः।
श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत्॥
श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत्॥
॥ 1.1.6 ॥
श्लोक 7
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः।
मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः॥
मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः॥
॥ 1.1.7 ॥
श्लोक 8
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः।
नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी॥
नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी॥
॥ 1.1.8 ॥
श्लोक 9
बुद्धिमान् नीतिमान् वाग्मी श्रीमान् शत्रुनिबर्हणः।
विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः॥
विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः॥
॥ 1.1.9 ॥
श्लोक 10
महोरस्को महेष्वासो गूढजत्रुररिन्दमः।
आजानुबाहुः सुशिराः सुललाटः सुविक्रमः॥
आजानुबाहुः सुशिराः सुललाटः सुविक्रमः॥
॥ 1.1.10 ॥
श्लोक 11
समः समविभक्तांगः स्निग्धवर्णः प्रतापवान्।
पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः॥
पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः॥
॥ 1.1.11 ॥
श्लोक 12
धर्मज्ञः सत्यसंधश्च प्रजानां च हिते रतः।
यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान्॥
यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान्॥
॥ 1.1.12 ॥
श्लोक 13
प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः।
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता॥
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता॥
॥ 1.1.13 ॥
श्लोक 14
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता।
वेदवेदांगतत्त्वज्ञो धनुर्वेदे च निष्ठितः॥
वेदवेदांगतत्त्वज्ञो धनुर्वेदे च निष्ठितः॥
॥ 1.1.14 ॥
श्लोक 15
सर्वशास्त्रार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान्।
सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः॥
सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः॥
॥ 1.1.15 ॥
श्लोक 16
सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः।
आर्यः सर्वसमश्चैव सदैव प्रियदर्शनः॥
आर्यः सर्वसमश्चैव सदैव प्रियदर्शनः॥
॥ 1.1.16 ॥
श्लोक 17
स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः।
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव॥
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव॥
॥ 1.1.17 ॥
श्लोक 18
विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः।
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः।
धनदेन समस्त्यागे सत्ये धर्म इवापरः॥
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः।
धनदेन समस्त्यागे सत्ये धर्म इवापरः॥
॥ 1.1.18 ॥
श्लोक 19
तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम्।
ज्येष्ठं ज्येष्ठगुणैर्युक्तं प्रियं दशरथः सुतम्।
प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया।
यौवराज्येन संयोक्तुमैच्छत् प्रीत्या महीपतिः॥
ज्येष्ठं ज्येष्ठगुणैर्युक्तं प्रियं दशरथः सुतम्।
प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया।
यौवराज्येन संयोक्तुमैच्छत् प्रीत्या महीपतिः॥
॥ 1.1.19 ॥
श्लोक 21
तस्याभिषेकसम्भारान् दृष्ट्वा भार्याथ कैकयी।
पूर्वं दत्तवरा देवी वरमेनमयाचत॥
पूर्वं दत्तवरा देवी वरमेनमयाचत॥
॥ 1.1.21 ॥
श्लोक 22
विवासनं च रामस्य भरतस्याभिषेचनम्॥
॥ 1.1.22 ॥
श्लोक 23
स सत्यवचनाद् राजा धर्मपाशेन संयतः।
विवासयामास सुतं रामं दशरथः प्रियम्॥
विवासयामास सुतं रामं दशरथः प्रियम्॥
॥ 1.1.23 ॥
श्लोक 24
स जगाम वनं वीरः प्रतिज्ञामनुपालयन्।
पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात्॥
पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात्॥
॥ 1.1.24 ॥
श्लोक 25
तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह।
स्नेहाद् विनयसम्पन्नः सुमित्रानन्दवर्धनः॥
स्नेहाद् विनयसम्पन्नः सुमित्रानन्दवर्धनः॥
॥ 1.1.25 ॥
श्लोक 26
भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन्।
रामस्य दयिता भार्या नित्यं प्राणसमा हिता॥
रामस्य दयिता भार्या नित्यं प्राणसमा हिता॥
॥ 1.1.26 ॥
श्लोक 27
जनकस्य कुले जाता देवमायेव निर्मिता।
सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः॥
सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः॥
॥ 1.1.27 ॥
श्लोक 28
सीताप्यनुगता रामं शशिनं रोहिणी यथा।
पौरैरनुगतो दूरं पित्रा दशरथेन च॥
पौरैरनुगतो दूरं पित्रा दशरथेन च॥
॥ 1.1.28 ॥
श्लोक 29
श्रृंगवेरपुरे सूतं गंगाकुले व्यसर्जयत्।
गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम्॥
गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम्॥
॥ 1.1.29 ॥
श्लोक 30
गुहेन सहितो रामो लक्ष्मणेन च सीतया।
ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः॥
ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः॥
॥ 1.1.30 ॥
श्लोक 31
चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात्।
रम्यमावसथं कृत्वा रममाणा वने त्रयः॥
रम्यमावसथं कृत्वा रममाणा वने त्रयः॥
॥ 1.1.31 ॥
श्लोक 32
देवगन्धर्वसंकाशास्तत्र ते न्यवसन् सुखम्।
चित्रकूटं गते रामे पुत्रशोकातुरस्तदा॥
चित्रकूटं गते रामे पुत्रशोकातुरस्तदा॥
॥ 1.1.32 ॥
श्लोक 33
राजा दशरथः स्वर्गं जगाम विलपन् सुतम्।
गते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः॥
गते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः॥
॥ 1.1.33 ॥
श्लोक 34
नियुज्यमानो राज्याय नैच्छद् राज्यं महाबलः।
स जगाम वनं वीरो रामपादप्रसादकः॥
स जगाम वनं वीरो रामपादप्रसादकः॥
॥ 1.1.34 ॥
श्लोक 35
गत्वा तु स महात्मानं रामं सत्यपराक्रमम्।
अयाचद् भ्रातरं राममार्यभावपुरस्कृतः॥
अयाचद् भ्रातरं राममार्यभावपुरस्कृतः॥
॥ 1.1.35 ॥
श्लोक 36
त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत्।
रामोऽपि परमोदारः सुमुखः सुमहायशाः॥
रामोऽपि परमोदारः सुमुखः सुमहायशाः॥
॥ 1.1.36 ॥
श्लोक 37
न चैच्छत् पितुरादेशाद् राज्यं रामो महाबलः।
पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः॥
पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः॥
॥ 1.1.37 ॥
श्लोक 38
निवर्तयामास ततो भरतं भरताग्रजः।
स काममनवाप्यैव रामपादावुपस्पृशन्॥
स काममनवाप्यैव रामपादावुपस्पृशन्॥
॥ 1.1.38 ॥
श्लोक 39
नन्दिग्रामेऽकरोद् राज्यं रामागमनकांक्षया।
गते तु भरते श्रीमान् सत्यसंधो जितेन्द्रियः॥
गते तु भरते श्रीमान् सत्यसंधो जितेन्द्रियः॥
॥ 1.1.39 ॥
श्लोक 40
रामस्तु पुनरालक्ष्य नागरस्य जनस्य च।
तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह॥
तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह॥
॥ 1.1.40 ॥
श्लोक 41
प्रविश्य तु महारण्यं रामो राजीवलोचनः।
विराधं राक्षसं हत्वा शरभंगं ददर्श ह॥
विराधं राक्षसं हत्वा शरभंगं ददर्श ह॥
॥ 1.1.41 ॥
श्लोक 42
सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा।
अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम्॥
अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम्॥
॥ 1.1.42 ॥
श्लोक 43
खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ।
वसतस्तस्य रामस्य वने वनचरैः सह॥
वसतस्तस्य रामस्य वने वनचरैः सह॥
॥ 1.1.43 ॥
श्लोक 44
ऋषयोऽभ्यागमन् सर्वे वधायासुररक्षसाम्।
स तेषां प्रतिशुश्राव राक्षसानां तदा वने॥
स तेषां प्रतिशुश्राव राक्षसानां तदा वने॥
॥ 1.1.44 ॥
श्लोक 45
प्रतिज्ञातश्च रामेण वधः संयति रक्षसाम्।
ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम्॥
ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम्॥
॥ 1.1.45 ॥
श्लोक 46
तेन तत्रैव वसता जनस्थाननिवासिनी।
विरूपिता शूर्पणखा राक्षसी कामरूपिणी॥
विरूपिता शूर्पणखा राक्षसी कामरूपिणी॥
॥ 1.1.46 ॥
श्लोक 47
ततः शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान्।
खरं त्रिशिरसं चैव दूषणं चैव राक्षसम्॥
खरं त्रिशिरसं चैव दूषणं चैव राक्षसम्॥
॥ 1.1.47 ॥
श्लोक 48
निजघान रणे रामस्तेषां चैव पदानुगान्।
वने तस्मिन् निवसता जनस्थाननिवासिनाम्॥
वने तस्मिन् निवसता जनस्थाननिवासिनाम्॥
॥ 1.1.48 ॥
श्लोक 49
रक्षसां निहतान्यासन् सहस्राणि चतुर्दश।
ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्च्छितः॥
ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्च्छितः॥
॥ 1.1.49 ॥
श्लोक 50
सहायं वरयामास मारीचं नाम राक्षसम्।
वार्यमाणः सुबहुशो मारीचेन स रावणः॥
वार्यमाणः सुबहुशो मारीचेन स रावणः॥
॥ 1.1.50 ॥
श्लोक 51
न विरोधो बलवता क्षमो रावण तेन ते।
अनादृत्य तु तद्वाक्यं रावणः कालचोदितः॥
अनादृत्य तु तद्वाक्यं रावणः कालचोदितः॥
॥ 1.1.51 ॥
श्लोक 52
जगाम सहमारीचस्तस्याश्रमपदं तदा।
तेन मायाविना दूरमपवाह्य नृपात्मजौ॥
तेन मायाविना दूरमपवाह्य नृपात्मजौ॥
॥ 1.1.52 ॥
श्लोक 53
जहार भार्यां रामस्य गृधं हत्वा जटायुषम्।
गृधं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम्॥
गृधं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम्॥
॥ 1.1.53 ॥
श्लोक 54
राघवः शोकसंतप्तो विललापाकुलेन्द्रियः।
ततस्तेनैव शोकेन गृधं दग्ध्वा जटायुषम्॥
ततस्तेनैव शोकेन गृधं दग्ध्वा जटायुषम्॥
॥ 1.1.54 ॥
श्लोक 55
मार्गमाणो वने सीतां राक्षसं संददर्श ह।
कबन्धं नाम रूपेण विकृतं घोरदर्शनम्॥
कबन्धं नाम रूपेण विकृतं घोरदर्शनम्॥
॥ 1.1.55 ॥
श्लोक 56
तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः।
स चास्य कथयामास शबरी धर्मचारिणीम्॥
स चास्य कथयामास शबरी धर्मचारिणीम्॥
॥ 1.1.56 ॥
श्लोक 57
श्रमणां धर्मनिपुणामभिगच्छेति राघव।
सोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः॥
सोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः॥
॥ 1.1.57 ॥
श्लोक 58
शबर्या पूजितः सम्यग् रामो दशरथात्मजः।
पम्पातीरे हनुमता संगतो वानरेण ह॥
पम्पातीरे हनुमता संगतो वानरेण ह॥
॥ 1.1.58 ॥
श्लोक 59
हनुमद्वचनाच्चैव सुग्रीवेण समागतः।
सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः॥
सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः॥
॥ 1.1.59 ॥
श्लोक 60
आदितस्तद् यथावृत्तं सीतायाश्च विशेषतः।
सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः॥
सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः॥
॥ 1.1.60 ॥
श्लोक 61
चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम्।
ततो वानरराजेन वैरानुकथनं प्रति॥
ततो वानरराजेन वैरानुकथनं प्रति॥
॥ 1.1.61 ॥
श्लोक 62
रामायावेदितं सर्वं प्रणयाद् दुःखितेन च।
प्रतिज्ञातं च रामेण तदा वालिवधं प्रति॥
प्रतिज्ञातं च रामेण तदा वालिवधं प्रति॥
॥ 1.1.62 ॥
श्लोक 63
वालिनश्च बलं तत्र कथयामास वानरः।
सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे॥
सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे॥
॥ 1.1.63 ॥
श्लोक 64
राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम्।
दर्शयामास सुग्रीवो महापर्वतसंनिभम्॥
दर्शयामास सुग्रीवो महापर्वतसंनिभम्॥
॥ 1.1.64 ॥
श्लोक 65
उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः।
पादांगुष्ठेन चिक्षेप सम्पूर्णं दशयोजनम्॥
पादांगुष्ठेन चिक्षेप सम्पूर्णं दशयोजनम्॥
॥ 1.1.65 ॥
श्लोक 66
बिभेद च पुनस्तालान् सप्तैकेन महेषुणा।
गिरिं रसातलं चैव जनयन् प्रत्ययं तदा॥
गिरिं रसातलं चैव जनयन् प्रत्ययं तदा॥
॥ 1.1.66 ॥
श्लोक 67
ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः।
किष्किन्धां रामसहितो जगाम च गुहां तदा॥
किष्किन्धां रामसहितो जगाम च गुहां तदा॥
॥ 1.1.67 ॥
श्लोक 68
ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिंगलः।
तेन नादेन महता निर्जगाम हरीश्वरः॥
तेन नादेन महता निर्जगाम हरीश्वरः॥
॥ 1.1.68 ॥
श्लोक 69
अनुमान्य तदा तारां सुग्रीवेण समागतः।
निजघान च तत्रैनं शरेणैकेन राघवः॥
निजघान च तत्रैनं शरेणैकेन राघवः॥
॥ 1.1.69 ॥
श्लोक 70
ततः सुग्रीववचनाद्धत्वा वालिनमाहवे।
सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत्॥
सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत्॥
॥ 1.1.70 ॥
श्लोक 71
स च सर्वान् समानीय वानरान् वानरर्षभः।
दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम्॥
दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम्॥
॥ 1.1.71 ॥
श्लोक 72
ततो गृध्रस्य वचनात् सम्पातेर्हनुमान् बली।
शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम्॥
शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम्॥
॥ 1.1.72 ॥
श्लोक 73
तत्र लङ्कां समासाद्य पुरीं रावणपालिताम्।
ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम्॥
ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम्॥
॥ 1.1.73 ॥
श्लोक 74
निवेदयित्वाभिज्ञानं प्रवृत्तिं विनिवेद्य च।
समाश्वास्य च वैदेहीं मर्दयामास तोरणम्॥
समाश्वास्य च वैदेहीं मर्दयामास तोरणम्॥
॥ 1.1.74 ॥
श्लोक 75
पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि।
शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत्॥
शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत्॥
॥ 1.1.75 ॥
श्लोक 76
अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद् वरात्।
मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया॥
मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया॥
॥ 1.1.76 ॥
श्लोक 77
ततो दग्ध्वा पुरीं लङ्कामृते सीतां च मैथिलीम्।
रामाय प्रियमाख्यातुं पुनरायान्महाकपिः॥
रामाय प्रियमाख्यातुं पुनरायान्महाकपिः॥
॥ 1.1.77 ॥
श्लोक 78
सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम्।
न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः॥
न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः॥
॥ 1.1.78 ॥
श्लोक 79
ततः सुग्रीवसहितो गत्वा तीरं महोदधेः।
समुद्रं क्षोभयामास शरैरादित्यसंनिभैः॥
समुद्रं क्षोभयामास शरैरादित्यसंनिभैः॥
॥ 1.1.79 ॥
श्लोक 80
दर्शयामास चात्मानं समुद्रः सरितां पतिः।
समुद्रवचनाच्चैव नलं सेतुमकारयत्॥
समुद्रवचनाच्चैव नलं सेतुमकारयत्॥
॥ 1.1.80 ॥
श्लोक 81
तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे।
रामः सीतामनुप्राप्य परां व्रीडामुपागमत्॥
रामः सीतामनुप्राप्य परां व्रीडामुपागमत्॥
॥ 1.1.81 ॥
श्लोक 82
तामुवाच ततो रामः परुषं जनसंसदि।
अमृष्यमाणा सा सीता विवेश ज्वलनं सती॥
अमृष्यमाणा सा सीता विवेश ज्वलनं सती॥
॥ 1.1.82 ॥
श्लोक 83
ततोऽग्निवचनात् सीतां ज्ञात्वा विगतकल्मषाम्।
कर्मणा तेन महता त्रैलोक्यं सचराचरम्॥
कर्मणा तेन महता त्रैलोक्यं सचराचरम्॥
॥ 1.1.83 ॥
श्लोक 84
सदेवर्षिगणं तुष्टं राघवस्य महात्मनः।
बभौ रामः सम्प्रहृष्टः पूजितः सर्वदैवतैः॥
बभौ रामः सम्प्रहृष्टः पूजितः सर्वदैवतैः॥
॥ 1.1.84 ॥
श्लोक 85
अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम्।
कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह॥
कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह॥
॥ 1.1.85 ॥
श्लोक 86
देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान्।
अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृवृतः॥
अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृवृतः॥
॥ 1.1.86 ॥
श्लोक 87
भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः।
भरतस्यान्तिके रामो हनूमन्तं व्यसर्जयत्॥
भरतस्यान्तिके रामो हनूमन्तं व्यसर्जयत्॥
॥ 1.1.87 ॥
श्लोक 88
पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा।
पुष्पकं तत् समारुह्य नन्दिग्रामं ययौ तदा॥
पुष्पकं तत् समारुह्य नन्दिग्रामं ययौ तदा॥
॥ 1.1.88 ॥
श्लोक 89
नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः।
रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान्॥
रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान्॥
॥ 1.1.89 ॥
श्लोक 90
प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः।
निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः॥
निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः॥
॥ 1.1.90 ॥
श्लोक 91
न पुत्रमरणं केचिद् द्रक्ष्यन्ति पुरुषाः क्वचित् ।
नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः॥
नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः॥
॥ 1.1.91 ॥
श्लोक 92
न चाग्निजं भयं किंचिन्नाप्सु मज्जन्ति जन्तवः।
न वातजं भयं किंचिन्नापि ज्वरकृतं तथा॥
न वातजं भयं किंचिन्नापि ज्वरकृतं तथा॥
॥ 1.1.92 ॥
श्लोक 93
न चापि क्षुद्भयं तत्र न तस्करभयं तथा।
नगराणि च राष्ट्राणि धनधान्ययुतानि च॥
नगराणि च राष्ट्राणि धनधान्ययुतानि च॥
॥ 1.1.93 ॥
श्लोक 94
नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा।
अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः॥
अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः॥
॥ 1.1.94 ॥
श्लोक 95
गवां कोट्ययुतं दत्त्वा विद्वद्भयो विधिपूर्वकम्।
असंख्येयं धनं दत्त्वा ब्राह्मणेभ्यो महायशाः॥
असंख्येयं धनं दत्त्वा ब्राह्मणेभ्यो महायशाः॥
॥ 1.1.95 ॥
श्लोक 96
राजवंशान् शतगुणान् स्थापयिष्यति राघवः।
चातुर्वण्र्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति॥
चातुर्वण्र्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति॥
॥ 1.1.96 ॥
श्लोक 97
दशवर्षसहस्राणि दशवर्षशतानि च।
रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति॥
रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति॥
॥ 1.1.97 ॥
श्लोक 98
इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम्।
यः पठेद् रामचरितं सर्वपापैः प्रमुच्यते॥
यः पठेद् रामचरितं सर्वपापैः प्रमुच्यते॥
॥ 1.1.98 ॥
श्लोक 99
एतदाख्यानमायुष्यं पठन् रामायणं नरः।
सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते॥
सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते॥
॥ 1.1.99 ॥
श्लोक 100
पठन् द्विजो वागृषभत्वमीयात् स्यात् क्षत्रियो भूमिपतित्वमीयात्।
वणिग्जनः पण्यफलत्वमीयाज्जनश्च शूद्रोऽपि महत्त्वमीयात्॥
वणिग्जनः पण्यफलत्वमीयाज्जनश्च शूद्रोऽपि महत्त्वमीयात्॥
॥ 1.1.100 ॥
सर्ग समाप्ति
इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे प्रथमः सर्गः॥१॥
📖 हिंदी अनुवाद:
(इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके बालकाण्डमें पहला सर्ग पूरा हुआ॥१॥)
(इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके बालकाण्डमें पहला सर्ग पूरा हुआ॥१॥)
🔍 शब्दार्थ
| संस्कृत शब्द | हिंदी अर्थ |
|---|---|
| इति | इस प्रकार (अव्यय, समाप्ति सूचक) |
| आर्षे | ऋषि प्रोक्त / ऋषि द्वारा रचित में (सप्तमी विभक्ति) |
| श्रीमद्रामायणे | श्रीरामायण में (सप्तमी विभक्ति) |
| वाल्मीकीये | वाल्मीकि द्वारा रचित में (सप्तमी विभक्ति) |
| आदिकाव्ये | आदिकाव्य में (सप्तमी विभक्ति) |
| बालकाण्डे | बालकाण्ड में (सप्तमी विभक्ति) |
| प्रथमः | पहला (प्रथमा विभक्ति) |
| सर्गः | सर्ग (प्रथमा विभक्ति) |
| ॥१॥ | ॥१॥ (सर्ग संख्या) |