🌿 सर्ग 17: ब्रह्माजी की प्रेरणा से देवता आदि के द्वारा विभिन्न वानरयूथपतियों की उत्पत्ति
Inspired by Brahma, the gods and others create various Vanara leaders
कुल श्लोक: 37
श्लोक 1
पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः।
उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम्॥
उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम्॥
॥ 1.17.1 ॥
श्लोक 2
सत्यसंधस्य वीरस्य सर्वेषां नो हितैषिणः।
विष्णोः सहायान् बलिनः सृजध्वं कामरूपिणः॥
विष्णोः सहायान् बलिनः सृजध्वं कामरूपिणः॥
॥ 1.17.2 ॥
श्लोक 3
मायाविदश्च शूरांश्च वायुवेगसमान् जवे।
नयज्ञान् बुद्धिसम्पन्नान् विष्णुतुल्यपराक्रमान्॥
नयज्ञान् बुद्धिसम्पन्नान् विष्णुतुल्यपराक्रमान्॥
॥ 1.17.3 ॥
श्लोक 4
असंहार्यानुपायज्ञान् दिव्यसंहननान्वितान्।
सर्वास्त्रगुणसम्पन्नानमृतप्राशनानिव॥
सर्वास्त्रगुणसम्पन्नानमृतप्राशनानिव॥
॥ 1.17.4 ॥
श्लोक 5
अप्सरस्सु च मुख्यासु गन्धर्वीणां तनूषु च।
यक्षपन्नगकन्यासु ऋक्षविद्याधरीषु च॥
यक्षपन्नगकन्यासु ऋक्षविद्याधरीषु च॥
॥ 1.17.5 ॥
श्लोक 6
किन्नरीणां च गात्रेषु वानरीणां तनूषु च।
सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान्॥
सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान्॥
॥ 1.17.6 ॥
श्लोक 7
पूर्वमेव मया सृष्टो जाम्बवानृक्षपुंगवः।
जृम्भमाणस्य सहसा मम वक्त्रादजायत॥
जृम्भमाणस्य सहसा मम वक्त्रादजायत॥
॥ 1.17.7 ॥
श्लोक 8
ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम्।
जनयामासुरेवं ते पुत्रान् वानररूपिणः॥
जनयामासुरेवं ते पुत्रान् वानररूपिणः॥
॥ 1.17.8 ॥
श्लोक 9
ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः।
चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः॥
चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः॥
॥ 1.17.9 ॥
श्लोक 10
वानरेन्द्रं महेन्द्राभमिन्द्रो वालिनमात्मजम्।
सुग्रीवं जनयामास तपनस्तपतां वरः॥
सुग्रीवं जनयामास तपनस्तपतां वरः॥
॥ 1.17.10 ॥
श्लोक 11
बृहस्पतिस्त्वजनयत् तारं नाम महाकपिम्।
सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम्॥
सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम्॥
॥ 1.17.11 ॥
श्लोक 12
धनदस्य सुतः श्रीमान् वानरो गन्धमादनः।
विश्वकर्मा त्वजनयन्नलं नाम महाकपिम्॥
विश्वकर्मा त्वजनयन्नलं नाम महाकपिम्॥
॥ 1.17.12 ॥
श्लोक 13
पावकस्य सुतः श्रीमान् नीलोऽग्निसदृशप्रभः।
तेजसा यशसा वीर्यादत्यरिच्यत वीर्यवान्॥
तेजसा यशसा वीर्यादत्यरिच्यत वीर्यवान्॥
॥ 1.17.13 ॥
श्लोक 14
रूपद्रविणसम्पन्नावश्विनौ रूपसम्मतौ।
मैन्दं च द्विविदं चैव जनयामासतुः स्वयम्॥
मैन्दं च द्विविदं चैव जनयामासतुः स्वयम्॥
॥ 1.17.14 ॥
श्लोक 15
वरुणो जनयामास सुषेणं नाम वानरम्।
शरभं जनयामास पर्जन्यस्तु महाबलः॥
शरभं जनयामास पर्जन्यस्तु महाबलः॥
॥ 1.17.15 ॥
श्लोक 16
मारुतस्यौरसः श्रीमान् हनूमान् नाम वानरः।
वज्रसंहननोपेतो वैनतेयसमो जवे॥
वज्रसंहननोपेतो वैनतेयसमो जवे॥
॥ 1.17.16 ॥
श्लोक 17
सर्ववानरमुख्येषु बुद्धिमान् बलवानपि।
ते सृष्टा बहुसाहस्रा दशग्रीववधोद्यताः॥
ते सृष्टा बहुसाहस्रा दशग्रीववधोद्यताः॥
॥ 1.17.17 ॥
श्लोक 18
अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः।
ते गजाचलसंकाशा वपुष्मन्तो महाबलाः॥
ते गजाचलसंकाशा वपुष्मन्तो महाबलाः॥
॥ 1.17.18 ॥
श्लोक 19
ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे।
यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः।
अजायत समं तेन तस्य तस्य पृथक् पृथक्॥
यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः।
अजायत समं तेन तस्य तस्य पृथक् पृथक्॥
॥ 1.17.19 ॥
श्लोक 20
गोलाङ्गूलेषु चोत्पन्नाः किंचिदुन्नतविक्रमाः।
ऋक्षीषु च तथा जाता वानराः किन्नरीषु च॥
ऋक्षीषु च तथा जाता वानराः किन्नरीषु च॥
॥ 1.17.20 ॥
श्लोक 21
देवा महर्षिगन्धर्वास्तार्क्ष्ययक्षा यशस्विनः।
नागाः किंपुरुषाश्चैव सिद्धविद्याधरोरगाः।
बहवो जनयामासुर्हृष्टास्तत्र सहस्रशः॥
नागाः किंपुरुषाश्चैव सिद्धविद्याधरोरगाः।
बहवो जनयामासुर्हृष्टास्तत्र सहस्रशः॥
॥ 1.17.21 ॥
श्लोक 23
चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः।
वानरान् सुमहाकायान् सर्वान् वै वनचारिणः॥
वानरान् सुमहाकायान् सर्वान् वै वनचारिणः॥
॥ 1.17.23 ॥
श्लोक 24
अप्सरस्सु च मुख्यासु तथा विद्याधरीषु च।
नागकन्यासु च तदा गन्धर्वीणां तनूषु च।
कामरूपबलोपेता यथाकामविचारिणः॥
नागकन्यासु च तदा गन्धर्वीणां तनूषु च।
कामरूपबलोपेता यथाकामविचारिणः॥
॥ 1.17.24 ॥
श्लोक 25
सिंहशार्दूलसदृशा दर्पेण च बलेन च।
शिलाप्रहरणाः सर्वे सर्वे पर्वतयोधिनः॥
शिलाप्रहरणाः सर्वे सर्वे पर्वतयोधिनः॥
॥ 1.17.25 ॥
श्लोक 26
नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः।
विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान्द्रुमान्॥
विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान्द्रुमान्॥
॥ 1.17.26 ॥
श्लोक 27
क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम्।
दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवान्॥
दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवान्॥
॥ 1.17.27 ॥
श्लोक 28
नभस्तलं विशेयुश्च गृह्णीयुरपि तोयदान्।
गृह्णीयुरपि मातंगान् मत्तान् प्रव्रजतो वने॥
गृह्णीयुरपि मातंगान् मत्तान् प्रव्रजतो वने॥
॥ 1.17.28 ॥
श्लोक 29
नर्दमानांश्च नादेन पातयेयुर्विहंगमान्।
ईदृशानां प्रसूतानि हरीणां कामरूपिणाम्।
शतं शतसहस्राणि यूथपानां महात्मनाम्॥
ईदृशानां प्रसूतानि हरीणां कामरूपिणाम्।
शतं शतसहस्राणि यूथपानां महात्मनाम्॥
॥ 1.17.29 ॥
श्लोक 31
ते प्रधानेषु यूथेषु हरीणां हरियूथपाः।
बभूवुर्यूथपश्रेष्ठान् वीरांश्चाजनयन् हरीन्।
अन्ये ऋक्षवतः प्रस्थानुपतस्थुः सहस्रशः॥
बभूवुर्यूथपश्रेष्ठान् वीरांश्चाजनयन् हरीन्।
अन्ये ऋक्षवतः प्रस्थानुपतस्थुः सहस्रशः॥
॥ 1.17.31 ॥
श्लोक 32
अन्ये नानाविधान् शैलान् काननानि च भेजिरे।
सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम्।
भ्रातरावुपतस्थुस्ते सर्वे च हरियूथपाः॥
सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम्।
भ्रातरावुपतस्थुस्ते सर्वे च हरियूथपाः॥
॥ 1.17.32 ॥
श्लोक 34
नलं नीलं हनूमन्तमन्यांश्च हरियूथपान्।
ते तार्क्ष्यबलसम्पन्नाः सर्वे युद्धविशारदाः।
विचरन्तोऽर्दयन् सर्वान् सिंहव्याघ्रमहोरगान्॥
ते तार्क्ष्यबलसम्पन्नाः सर्वे युद्धविशारदाः।
विचरन्तोऽर्दयन् सर्वान् सिंहव्याघ्रमहोरगान्॥
॥ 1.17.34 ॥
श्लोक 35
महाबलो महाबाहुर्वाली विपुलविक्रमः।
जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान्॥
जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान्॥
॥ 1.17.35 ॥
श्लोक 36
तैरियं पृथिवी शूरैः सपर्वतवनार्णवा।
कीर्णा विविधसंस्थानैर्नानाव्यञ्जनलक्षणैः॥
कीर्णा विविधसंस्थानैर्नानाव्यञ्जनलक्षणैः॥
॥ 1.17.36 ॥
श्लोक 37
तैर्मेघवृन्दाचलकूटसंनिभैर्महाबलैर्वानरयूथपाधिपैः।
बभूव भूर्भीमशरीररूपैः समावृता रामसहायहेतोः॥
बभूव भूर्भीमशरीररूपैः समावृता रामसहायहेतोः॥
॥ 1.17.37 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तदशः सर्गः॥१७॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में सत्रहवाँ सर्ग पूरा हुआ॥१७॥
इस प्रकार श्रीवाल्मीकि निर्मित आर्षरामायण आदिकाव्य के बालकाण्ड में सत्रहवाँ सर्ग पूरा हुआ॥१७॥
🔍 शब्दार्थ
| संस्कृत शब्द | हिंदी अर्थ |
|---|---|
| इति | इस प्रकार (अव्यय, समाप्ति सूचक) |
| आर्षे | ऋषि प्रोक्त में (सप्तमी विभक्ति) |
| श्रीमद्रामायणे | श्रीरामायण में (सप्तमी विभक्ति) |
| वाल्मीकीये | वाल्मीकि द्वारा रचित में (सप्तमी विभक्ति) |
| आदिकाव्ये | आदिकाव्य में (सप्तमी विभक्ति) |
| बालकाण्डे | बालकाण्ड में (सप्तमी विभक्ति) |
| सप्तदशः | सत्रहवाँ (प्रथमा विभक्ति) |
| सर्गः | सर्ग (प्रथमा विभक्ति) |
| ॥१७॥ | ॥१७॥ (सर्ग संख्या) |