वाल्मीकि रामायण

बालकाण्ड सर्ग 15 | श्रीमद्वाल्मीकि रामायण

🌿 सर्ग 15: ऋष्यशृंग द्वारा राजा दशरथ के पुत्रेष्टि यज्ञ का आरम्भ, ब्रह्माजी का रावण के वध का उपाय ढूँढ़ निकालना तथा भगवान् विष्णु का देवताओं को आश्वासन देना
Rishyashringa begins the Putreshti Yajna for King Dasharatha, Brahma finds a way to kill Ravana, and Lord Vishnu assures the gods
कुल श्लोक: 34
श्लोक 1
मेधावी तु ततो ध्यात्वा स किञ्चिदिदमुत्तरम्।
लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमब्रवीत्॥
॥ 1.15.1 ॥
श्लोक 2
इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात्।
अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः॥
॥ 1.15.2 ॥
श्लोक 3
ततः प्राक्रमदिष्टिं तां पुत्रीयां पुत्रकारणात्।
जुहावाग्नौ च तेजस्वी मन्त्रदृष्टेन कर्मणा॥
॥ 1.15.3 ॥
श्लोक 4
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।
भागप्रतिग्रहार्थं वै समवेता यथाविधि॥
॥ 1.15.4 ॥
श्लोक 5
ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः।
अब्रुवँल्लोककर्तारं ब्रह्माणं वचनं ततः॥
॥ 1.15.5 ॥
श्लोक 6
भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः।
सर्वान् नो बाधते वीर्याच्छासितुं तं न शक्नुमः॥
॥ 1.15.6 ॥
श्लोक 7
त्वया तस्मै वरो दत्तः प्रीतेन भगवंस्तदा।
मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे॥
॥ 1.15.7 ॥
श्लोक 8
उद्वेजयति लोकांस्त्रीनुच्छ्रितान् द्वेष्टि दुर्मतिः।
शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति॥
॥ 1.15.8 ॥
श्लोक 9
ऋषीन् यक्षान् सगन्धर्वान् ब्राह्मणानसुरांस्तदा।
अतिक्रामति दुर्धर्षो वरदानेन मोहितः॥
॥ 1.15.9 ॥
श्लोक 10
नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः।
चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि न कम्पते॥
॥ 1.15.10 ॥
श्लोक 11
तन्महन्नो भयं तस्माद् राक्षसाद् घोरदर्शनात्।
वधार्थं तस्य भगवन्नुपायं कर्तुमर्हसि॥
॥ 1.15.11 ॥
श्लोक 12
एवमुक्तः सुरैः सर्वैश्चिन्तयित्वा ततोऽब्रवीत्।
हन्तायं विदितस्तस्य वधोपायो दुरात्मनः॥
॥ 1.15.12 ॥
श्लोक 13
तेन गन्धर्वयक्षाणां देवतानां च रक्षसाम्।
अवध्योऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया॥
॥ 1.15.13 ॥
श्लोक 14
नाकीर्तयदवज्ञानात् तद् रक्षो मानुषांस्तदा।
तस्मात् स मानुषाद् वध्यो मृत्युरन्योऽस्य विद्यते॥
॥ 1.15.14 ॥
श्लोक 15
एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम्।
देवा महर्षयः सर्वे प्रहृष्टास्तेऽभवंस्तदा॥
॥ 1.15.15 ॥
श्लोक 16
एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः।
शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः।
वैनतेयं समारुह्य भास्करस्तोयदं यथा॥
॥ 1.15.16 ॥
श्लोक 17
तप्तहाटककेयूरो वन्द्यमानः सुरोत्तमैः।
ब्रह्मणा च समागत्य तत्र तस्थौ समाहितः॥
॥ 1.15.17 ॥
श्लोक 18
तमब्रुवन् सुराः सर्वे समभिष्टुत्य संनताः।
त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया॥
॥ 1.15.18 ॥
श्लोक 19
राज्ञो दशरथस्य त्वमयोध्याधिपतेर्विभो।
धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः।
अस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु च॥
॥ 1.15.19 ॥
श्लोक 21
विष्णो पुत्रत्वमागच्छ कृत्वाऽऽत्मानं चतुर्विधम्।
तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम्।
अवध्यं दैवतैर्विष्णो समरे जहि रावणम्॥
॥ 1.15.21 ॥
श्लोक 22
स हि देवान् सगन्धर्वान् सिद्धांश्च ऋषिसत्तमान्।
राक्षसो रावणो मूर्खो वीर्योद्रेकेण बाधते॥
॥ 1.15.22 ॥
श्लोक 23
ऋषयश्च ततस्तेन गन्धर्वाप्सरसस्तथा।
क्रीडन्तो नन्दनवने रौद्रेण विनिपातिताः॥
॥ 1.15.23 ॥
श्लोक 24
वधार्थं वयमायातास्तस्य वै मुनिभिः सह।
सिद्धगन्धर्वयक्षाश्च ततस्त्वां शरणं गताः॥
॥ 1.15.24 ॥
श्लोक 25
त्वं गतिः परमा देव सर्वेषां नः परंतप।
वधाय देवशत्रूणां नृणां लोके मनः कुरु॥
॥ 1.15.25 ॥
श्लोक 26
एवं स्तुतस्तु देवेशो विष्णुस्त्रिदशपुंगवः।
पितामहपुरोगांस्तान् सर्वलोकनमस्कृतः।
अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्मसंहितान्॥
॥ 1.15.26 ॥
श्लोक 28
भयं त्यजत भद्रं वो हितार्थं युधि रावणम्।
सपुत्रपौत्रं सामात्यं समित्रज्ञातिबान्धवम्।
हत्वा क्रूरं दुराधर्षं देवर्षीणां भयावहम्।
दशवर्षसहस्राणि दशवर्षशतानि च।
वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम्॥
॥ 1.15.28 ॥
श्लोक 30
एवं दत्त्वा वरं देवो देवानां विष्णुरात्मवान्।
मानुष्ये चिन्तयामास जन्मभूमिमथात्मनः॥
॥ 1.15.30 ॥
श्लोक 31
ततः पद्मपलाशाक्षः कृत्वाऽऽत्मानं चतुर्विधम्।
पितरं रोचयामास तदा दशरथं नृपम्॥
॥ 1.15.31 ॥
श्लोक 32
ततो देवर्षिगन्धर्वाः सरुद्राः साप्सरोगणाः।
स्तुतिभिर्दिव्यरूपाभिस्तुष्टुवुर्मधुसूदनम्॥
॥ 1.15.32 ॥
श्लोक 33
तमुद्धतं रावणमुग्रतेजसं प्रवृद्धदर्पं त्रिदशेश्वरद्विषम्।
विरावणं साधुतपस्विकण्टकं तपस्विनामुद्धर तं भयावहम्॥
॥ 1.15.33 ॥
श्लोक 34
तमेव हत्वा सबलं सबान्धवं विरावणं रावणमुग्रपौरुषम्।
स्वर्लोकमागच्छ गतज्वरश्चिरं सुरेन्द्रगुप्तं गतदोषकल्मषम्॥
॥ 1.15.34 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चदशः सर्गः ॥१५॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके बालकाण्डमें पंद्रहवाँ सर्ग पूरा हुआ॥१५॥
🔍 शब्दार्थ
संस्कृत शब्द हिंदी अर्थ
इति इस प्रकार (अव्यय, समाप्ति सूचक)
आर्षे ऋषि प्रोक्त में (सप्तमी विभक्ति)
श्रीमद्रामायणे श्रीरामायण में (सप्तमी विभक्ति)
वाल्मीकीये वाल्मीकि द्वारा रचित में (सप्तमी विभक्ति)
आदिकाव्ये आदिकाव्य में (सप्तमी विभक्ति)
बालकाण्डे बालकाण्ड में (सप्तमी विभक्ति)
पञ्चदशः पंद्रहवाँ (प्रथमा विभक्ति)
सर्गः सर्ग (प्रथमा विभक्ति)
॥१५॥ ॥१५॥ (सर्ग संख्या)

ॐ श्रीरामाय नमः

वाल्मीकि रामायणम् | श्रीरामसमर्पितम्

www.valmikiramayan.in