वाल्मीकि रामायण

बालकाण्ड सर्ग 14 | श्रीमद्वाल्मीकि रामायण

🌿 सर्ग 14: महाराज दशरथ के द्वारा अश्वमेध यज्ञ का सांगोपांग अनुष्ठान
The complete performance of the Ashwamedha Yajna by King Dasharatha
कुल श्लोक: 60
श्लोक 1
अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरंगमे।
सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत॥
॥ 1.14.1 ॥
श्लोक 2
ऋष्यशृंगं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः।
अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः॥
॥ 1.14.2 ॥
श्लोक 3
कर्म कुर्वन्ति विधिवद् याजका वेदपारगाः।
यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः॥
॥ 1.14.3 ॥
श्लोक 4
प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः।
चक्रुश्च विधिवत् सर्वमधिकं कर्म शास्त्रतः॥
॥ 1.14.4 ॥
श्लोक 5
अभिपूज्य तदा हृष्टाः सर्वे चक्रुर्यथाविधि।
प्रातःसवनपूर्वाणि कर्माणि मुनिपुंगवाः॥
॥ 1.14.5 ॥
श्लोक 6
ऐन्द्रश्च विधिवद् दत्तो राजा चाभिषुतोऽनघः।
माध्यन्दिनं च सवनं प्रावर्तत यथाक्रमम्॥
॥ 1.14.6 ॥
श्लोक 7
तृतीयसवनं चैव राज्ञोऽस्य सुमहात्मनः।
चक्रुस्ते शास्त्रतो दृष्ट्वा यथा ब्राह्मणपुंगवाः॥
॥ 1.14.7 ॥
श्लोक 8
आह्वयाञ्चक्रिरे तत्र शक्रादीन्विबुधोत्तमान्।
ऋष्यशृंगादयो मन्त्रैः शिक्षाक्षरसमन्वितैः॥
॥ 1.14.8 ॥
श्लोक 9
गीतिभिर्मधुरैः स्निग्धैर्मन्त्राह्वानैर्यथार्हतः।
होतारो ददुरावाह्य हविर्भागान् दिवौकसाम्॥
॥ 1.14.9 ॥
श्लोक 10
न चाहुतमभूत् तत्र स्खलितं वा न किंचन।
दृश्यते ब्रह्मवत् सर्वं क्षेमयुक्तं हि चक्रिरे॥
॥ 1.14.10 ॥
श्लोक 11
न तेष्वहःसु श्रान्तो वा क्षुधितो वा न दृश्यते।
नाविद्वान् ब्राह्मणः कश्चिन्नाशतानुचरस्तथा॥
॥ 1.14.11 ॥
श्लोक 12
ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते।
तापसा भुञ्जते चापि श्रमणाश्चैव भुञ्जते॥
॥ 1.14.12 ॥
श्लोक 13
वृद्धाश्च व्याधिताश्चैव स्त्रीबालाश्च तथैव च।
अनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते॥
॥ 1.14.13 ॥
श्लोक 14
दीयतां दीयतामन्नं वासांसि विविधानि च।
इति संचोदितास्तत्र तथा चक्रुरनेकशः॥
॥ 1.14.14 ॥
श्लोक 15
अन्नकूटाश्च दृश्यन्ते बहवः पर्वतोपमाः।
दिवसे दिवसे तत्र सिद्धस्य विधिवत् तदा॥
॥ 1.14.15 ॥
श्लोक 16
नानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा।
अन्नपानैः सुविहितास्तस्मिन् यज्ञे महात्मनः॥
॥ 1.14.16 ॥
श्लोक 17
अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः।
अहो तृप्ताः स्म भद्रं ते इति शुश्राव राघवः॥
॥ 1.14.17 ॥
श्लोक 18
स्वलंकृताश्च पुरुषा ब्राह्मणान् पर्यवेषयन्।
उपासन्ते च तानन्ये सुमृष्टमणिकुण्डलाः॥
॥ 1.14.18 ॥
श्लोक 19
कर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि।
प्राहुः सुवाग्मिनो धीराः परस्परजिगीषया॥
॥ 1.14.19 ॥
श्लोक 20
दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः।
सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः॥
॥ 1.14.20 ॥
श्लोक 21
नाषडंगविदत्रासीन्नाव्रतो नाबहुश्रुतः।
सदस्यास्तस्य वै राज्ञो नावादकुशलो द्विजः॥
॥ 1.14.21 ॥
श्लोक 22
प्राप्ते यूपोच्छ्रये तस्मिन् षड् बैल्वाः खादिरास्तथा।
तावन्तो बिल्वसहिताः पर्णिनश्च तथा परे॥
॥ 1.14.22 ॥
श्लोक 23
श्लेष्मातकमयो दिष्टो देवदारुमयस्तथा।
द्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ॥
॥ 1.14.23 ॥
श्लोक 24
कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः।
शोभार्थं तस्य यज्ञस्य काञ्चनालंकृता भवन्॥
॥ 1.14.24 ॥
श्लोक 25
एकविंशतियूपास्ते एकविंशत्यरत्नयः।
वासोभिरेकविंशद्भिरेकैकं समलंकृताः॥
॥ 1.14.25 ॥
श्लोक 26
विन्यस्ता विधिवत् सर्वे शिल्पिभिः सुकृता दृढाः।
अष्टास्रयः सर्व एव श्लक्ष्णरूपसमन्विताः॥
॥ 1.14.26 ॥
श्लोक 27
आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च पूजिताः।
सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि॥
॥ 1.14.27 ॥
श्लोक 28
इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः।
चितोऽग्निर्ब्राह्मणैस्तत्र कुशलैः शिल्पकर्मणि॥
॥ 1.14.28 ॥
श्लोक 29
स चित्यो राजसिंहस्य संचितः कुशलैर्द्विजैः।
गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः॥
॥ 1.14.29 ॥
श्लोक 30
नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम्।
उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः॥
॥ 1.14.30 ॥
श्लोक 31
शामित्रे तु हयस्तत्र तथा जलचराश्च ये।
ऋषिभिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा॥
॥ 1.14.31 ॥
श्लोक 32
पशूनां त्रिशतं तत्र यूपेषु नियतं तदा।
अश्वरत्नोत्तमं तत्र राज्ञो दशरथस्य ह॥
॥ 1.14.32 ॥
श्लोक 33
कौसल्या तं हयं तत्र परिचर्य समन्ततः।
कृपाणैर्विशशासैनं त्रिभिः परमया मुदा॥
॥ 1.14.33 ॥
श्लोक 34
पतत्त्रिणा तदा सार्धं सुस्थितेन च चेतसा।
अवसद् रजनीमेकां कौसल्या धर्मकाम्यया॥
॥ 1.14.34 ॥
श्लोक 35
होताध्वर्युस्तथोद्गाता हस्तेन समयोजयन्।
महिष्या परिवृत्त्यार्थं वावातामपरां तथा॥
॥ 1.14.35 ॥
श्लोक 36
पतत्त्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः।
ऋत्विक्परमसम्पन्नः श्रपयामास शास्त्रतः॥
॥ 1.14.36 ॥
श्लोक 37
धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः।
यथाकालं यथान्यायं निर्णुदन् पापमात्मनः॥
॥ 1.14.37 ॥
श्लोक 38
हयस्य यानि चांगानि तानि सर्वाणि ब्राह्मणाः।
अग्नौ प्रास्यन्ति विधिवत् समस्ताः षोडशर्विजः॥
॥ 1.14.38 ॥
श्लोक 39
प्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः।
अश्वमेधस्य यज्ञस्य वैतसो भाग इष्यते॥
॥ 1.14.39 ॥
श्लोक 40
त्र्यहोऽश्वमेधः संख्यातः कल्पसूत्रेण ब्राह्मणैः।
चतुष्टोममहस्तस्य प्रथमं परिकल्पितम्॥
॥ 1.14.40 ॥
श्लोक 41
उक्थ्यं द्वितीयं संख्यातमतिरात्रं तथोत्तरम्।
कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात्॥
॥ 1.14.41 ॥
श्लोक 42
ज्योतिष्टोमायुषी चैवमतिरात्रौ च निर्मितौ।
अभिजिद्विश्वजिच्चैवमाप्तोर्यामौ महाक्रतुः॥
॥ 1.14.42 ॥
श्लोक 43
प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः।
अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम्॥
॥ 1.14.43 ॥
श्लोक 44
उद्गात्रे तु तथोदीचीं दक्षिणैषा विनिर्मिता।
अश्वमेधे महायज्ञे स्वयंभूविहिते पुरा॥
॥ 1.14.44 ॥
श्लोक 45
क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः।
ऋत्विग्भ्यो हि ददौ राजा धरां तां कुलवर्धनः॥
॥ 1.14.45 ॥
श्लोक 46
एवं दत्त्वा प्रहृष्टोऽभूच्छ्रीमानिक्ष्वाकुनन्दनः।
ब्राह्मणाः ऋत्विजस्त्वब्रुवन् सर्वे राजानं गतकिल्बिषम्॥
॥ 1.14.46 ॥
श्लोक 47
भवानेव महीं कृत्स्नामेको रक्षितुमर्हति।
न भूम्या कार्यमस्माकं नहि शक्ताः स्म पालने॥
॥ 1.14.47 ॥
श्लोक 48
रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप।
निष्क्रयं किंचिदेवेह प्रयच्छतु भवानिति॥
॥ 1.14.48 ॥
श्लोक 49
मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम्।
तत् प्रयच्छ नृपश्रेष्ठ धरण्या न प्रयोजनम्॥
॥ 1.14.49 ॥
श्लोक 50
एवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः।
गवां शतसहस्राणि दश तेभ्यो ददौ नृपः॥ दशकोटिं सुवर्णस्य रजतस्य चतुर्गुणम्॥
॥ 1.14.50 ॥
श्लोक 51
ऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु।
ऋष्यशृंगाय मुनये वसिष्ठाय च धीमते॥
॥ 1.14.51 ॥
श्लोक 52
ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः।
सुप्रीतमनसः सर्वे प्रत्यूचुर्मुदिता भृशम्॥
॥ 1.14.52 ॥
श्लोक 53
ततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः।
जाम्बूनदं कोटिसंख्यं ब्राह्मणेभ्यो ददौ तदा॥
॥ 1.14.53 ॥
श्लोक 54
दरिद्राय द्विजायाथ हस्ताभरणमुत्तमम्।
कस्मैचिद् याचमानाय ददौ राघवनन्दनः॥
॥ 1.14.54 ॥
श्लोक 55
ततः प्रीतेषु विधिवद् द्विजेषु द्विजवत्सलः।
प्रणाममकरोत् तेषां हर्षव्याकुलितेन्द्रियः॥
॥ 1.14.55 ॥
श्लोक 56
तस्याशिषोऽथ विविधा ब्राह्मणैः समुदाहृताः।
उदारस्य नृवीरस्य धरण्यां पतितस्य च॥
॥ 1.14.56 ॥
श्लोक 57
ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम्।
पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः॥
॥ 1.14.57 ॥
श्लोक 58
ततोऽब्रवीदृष्यश्रृंगं राजा दशरथस्तदा।
कुलस्य वर्धनं तत् तु कर्तुमर्हसि सुव्रत॥
॥ 1.14.58 ॥
श्लोक 59
तथेति च स राजानमुवाच द्विजसत्तमः।
भविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः॥
॥ 1.14.59 ॥
श्लोक 60
स तस्य वाक्यं मधुरं निशम्य प्रणम्य तस्मै प्रयतो नृपेन्द्रः।
जगाम हर्षं परमं महात्मा तमृष्यश्रृंगं पुनरप्युवाच॥
॥ 1.14.60 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्दशः सर्गः॥१४॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके बालकाण्डमें चौदहवाँ सर्ग पूरा हुआ॥१४॥
🔍 शब्दार्थ
संस्कृत शब्द हिंदी अर्थ
इति इस प्रकार (अव्यय, समाप्ति सूचक)
आर्षे ऋषि प्रोक्त में (सप्तमी विभक्ति)
श्रीमद्रामायणे श्रीरामायण में (सप्तमी विभक्ति)
वाल्मीकीये वाल्मीकि द्वारा रचित में (सप्तमी विभक्ति)
आदिकाव्ये आदिकाव्य में (सप्तमी विभक्ति)
बालकाण्डे बालकाण्ड में (सप्तमी विभक्ति)
चतुर्दशः चौदहवाँ (प्रथमा विभक्ति)
सर्गः सर्ग (प्रथमा विभक्ति)
॥१४॥ ॥१४॥ (सर्ग संख्या)

ॐ श्रीरामाय नमः

वाल्मीकि रामायणम् | श्रीरामसमर्पितम्

www.valmikiramayan.in