वाल्मीकि रामायण

बालकाण्ड सर्ग 13 | श्रीमद्वाल्मीकि रामायण

🌿 सर्ग 13: यज्ञ की तैयारी, राजाओं को बुलाने के आदेश एवं उनका सत्कार तथा पत्नियों सहित राजा दशरथ का यज्ञ की दीक्षा लेना
Preparation for the sacrifice, orders to invite the kings and their reception, and King Dasharatha along with his wives taking the vow for the sacrifice
कुल श्लोक: 40
श्लोक 1
पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत्।
प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान्॥
॥ 1.13.1 ॥
श्लोक 2
अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च।
अब्रवीत् प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम्॥
॥ 1.13.2 ॥
श्लोक 3
यज्ञो मे क्रियतां ब्रह्मन् यथोक्तं मुनिपुंगव।
यथा न विघ्नाः क्रियन्ते यज्ञांगेषु विधीयताम्॥
॥ 1.13.3 ॥
श्लोक 4
भवान् स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान्।
वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः॥
॥ 1.13.4 ॥
श्लोक 5
तथेति च स राजानमब्रवीद द्विजसत्तमः।
करिष्ये सर्वमेवैतद् भवता यत् समर्थितम्॥
॥ 1.13.5 ॥
श्लोक 6
ततोऽब्रवीद् द्विजान् वृद्धान् यज्ञकर्मसुनिष्ठितान्।
स्थापत्ये निष्ठितांश्चैव वृद्धान् परमधार्मिकान्॥
॥ 1.13.6 ॥
श्लोक 7
कान्तिकान् शिल्पकारान् वर्धकीन् खनकानपि।
गणकान् शिल्पिनश्चैव तथैव नटनर्तकान्॥
॥ 1.13.7 ॥
श्लोक 8
तथा शुचीन् शास्त्रविदः पुरुषान् सुबहुश्रुतान्।
यज्ञकर्म समीहन्तां भवन्तो राजशासनात्॥
॥ 1.13.8 ॥
श्लोक 9
इष्टका बहुसाहस्री शीघ्रमानीयतामिति।
उपकार्याः क्रियन्तां च राज्ञो बहुगुणान्विताः॥
॥ 1.13.9 ॥
श्लोक 10
ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः।
भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः॥
॥ 1.13.10 ॥
श्लोक 11
तथा पौरजनस्यापि कर्तव्याश्च सुविस्तराः।
आगतानां सुदूराच्च पार्थिवानां पृथक् पृथक्॥
॥ 1.13.11 ॥
श्लोक 12
वाजिवारणशालाश्च तथा शय्यागृहाणि च।
भटानां महदावासा वैदेशिकनिवासिनाम्॥
॥ 1.13.12 ॥
श्लोक 13
आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः।
तथा पौरजनस्यापि जनस्य बहुशोभनम्।
दातव्यमन्नं विधिवत् सत्कृत्य न तु लीलया॥
॥ 1.13.13 ॥
श्लोक 14
सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः।
न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि॥
॥ 1.13.14 ॥
श्लोक 15
यज्ञकर्मसु ये व्यग्राः पुरुषाः शिल्पिनस्तथा।
तेषामपि विशेषेण पूजा कार्या यथाक्रमम्॥
॥ 1.13.15 ॥
श्लोक 16
ये स्युः सम्पूजिताः सर्वे वसुभिर्भोजनेन च।
यथा सर्वं सुविहितं न किंचित् परिहीयते।
तथा भवन्तः कुर्वन्तु प्रीतियुक्तेन चेतसा॥
॥ 1.13.16 ॥
श्लोक 18
ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन्।
यथेष्टं तत् सुविहितं न किंचित् परिहीयते।
यथोक्तं तत् करिष्यामो न किंचित्परिहास्यते॥
॥ 1.13.18 ॥
श्लोक 19
ततः सुमन्त्रमाहूय वसिष्ठो वाक्यमब्रवीत्।
निमन्त्रयस्व नृपतीन् पृथिव्यां ये च धार्मिकाः।
ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्चैव सहस्रशः॥
॥ 1.13.19 ॥
श्लोक 21
समानयस्व सत्कृत्य सर्वदेशेषु मानवान्।
मिथिलाधिपतिं शूरं जनकं सत्यवादिनम्।
तमानय महाभागं स्वयमेव सुसत्कृतम्।
पूर्वं सम्बन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते॥
॥ 1.13.21 ॥
श्लोक 23
तथा काशिपतिं स्निग्धं सततं प्रियवादिनम्।
सदवृत्तं देवसंकाशं स्वयमेवानयस्व ह॥
॥ 1.13.23 ॥
श्लोक 24
तथा केकयराजानं वृद्धं परमधार्मिकम्।
श्वशुरं राजसिंहस्य सपुत्रं तमिहानय॥
॥ 1.13.24 ॥
श्लोक 25
अंगेश्वरं महेष्वासं रोमपादं सुसत्कृतम्।
वयस्यं राजसिंहस्य सपुत्रं तमिहानय॥
॥ 1.13.25 ॥
श्लोक 26
तथा कोसलराजानं भानुमन्तं सुसत्कृतम्।
मगधाधिपतिं शूरं सर्वशास्त्रविशारदम्।
प्राप्तिशं परमोदारं सत्कृतं पुरुषर्षभम्॥
॥ 1.13.26 ॥
श्लोक 27
राज्ञः शासनमादाय चोदयस्व नृपर्षभान्।
प्राचीनान् सिन्धुसौवीरान् सौराष्ट्रेयांश्च पार्थिवान्॥
॥ 1.13.27 ॥
श्लोक 28
दाक्षिणात्यान् नरेन्द्रांश्च समस्तानानयस्व ह।
सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले।
तानानय यथा क्षिप्रं सानुगान् सहबान्धवान्।
एतान् दूतैर्महाभागैरानयस्व नृपाज्ञया॥
॥ 1.13.28 ॥
श्लोक 30
वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितं तदा।
व्यादिशत् पुरुषांस्तत्र राज्ञामानयने शुभान्॥
॥ 1.13.30 ॥
श्लोक 31
स्वयमेव हि धर्मात्मा प्रयातो मुनिशासनात्।
सुमन्त्रस्त्वरितो भूत्वा समानेतुं महामतिः॥
॥ 1.13.31 ॥
श्लोक 32
ते च कर्मान्तिकाः सर्वे वसिष्ठाय महर्षये।
सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम्॥
॥ 1.13.32 ॥
श्लोक 33
ततः प्रीतो द्विजश्रेष्ठस्तान् सर्वान् मुनिरब्रवीत्।
अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा।
अवज्ञया कृतं हन्याद् दातारं नात्र संशयः॥
॥ 1.13.33 ॥
श्लोक 34
ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः।
बहूनि रत्नान्यादाय राज्ञो दशरथस्य ह॥
॥ 1.13.34 ॥
श्लोक 35
ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत्।
उपयाता नरव्याघ्र राजानस्तव शासनात्।
मयापि सत्कृताः सर्वे यथार्ह राजसत्तम॥
॥ 1.13.35 ॥
श्लोक 37
यज्ञियं च कृतं सर्वं पुरुषैः सुसमाहितैः।
निर्यातु च भवान् यष्टुं यज्ञायतनमन्तिकात्॥
॥ 1.13.37 ॥
श्लोक 38
सर्वकामैरुपहृतैरुपेतं वै समन्ततः।
द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम्॥
॥ 1.13.38 ॥
श्लोक 39
तथा वसिष्ठवचनादृष्यशृंगस्य चोभयोः।
दिवसे शुभनक्षत्रे निर्यातो जगतीपतिः॥
॥ 1.13.39 ॥
श्लोक 40
ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः।
ऋष्यशृंगं पुरस्कृत्य यज्ञकर्मारभंस्तदा।
यज्ञवाटं गताः सर्वे यथाशास्त्रं यथाविधि।
श्रीमांश्च सह पत्नीभी राजा दीक्षामुपाविशत्॥
॥ 1.13.40 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयोदशः सर्गः ॥१३॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके बालकाण्डमें तेरहवाँ सर्ग पूरा हुआ॥१३॥
🔍 शब्दार्थ
संस्कृत शब्द हिंदी अर्थ
इति इस प्रकार (अव्यय, समाप्ति सूचक)
आर्षे ऋषि प्रोक्त में (सप्तमी विभक्ति)
श्रीमद्रामायणे श्रीरामायण में (सप्तमी विभक्ति)
वाल्मीकीये वाल्मीकि द्वारा रचित में (सप्तमी विभक्ति)
आदिकाव्ये आदिकाव्य में (सप्तमी विभक्ति)
बालकाण्डे बालकाण्ड में (सप्तमी विभक्ति)
त्रयोदशः तेरहवाँ (प्रथमा विभक्ति)
सर्गः सर्ग (प्रथमा विभक्ति)
॥१३॥ ॥१३॥ (सर्ग संख्या)

ॐ श्रीरामाय नमः

वाल्मीकि रामायणम् | श्रीरामसमर्पितम्

www.valmikiramayan.in