वाल्मीकि रामायण

बालकाण्ड सर्ग 11 | श्रीमद्वाल्मीकि रामायण

🌿 सर्ग 11: सुमन्त्र के कहने से राजा दशरथ का सपरिवार अंगराज के यहाँ जाकर वहाँ से शान्ता और ऋष्यश्रृंग को अपने घर ले आना
On Sumantra's advice, King Dasharatha goes with his family to the King of Anga and brings Shanta and Rishyashringa to his home
कुल श्लोक: 31
श्लोक 1
भूय एव हि राजेन्द्र शृणु मे वचनं हितम्।
यथा स देवप्रवरः कथयामास बुद्धिमान्॥
॥ 1.11.1 ॥
श्लोक 2
इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः।
नाम्ना दशरथो राजा श्रीमान् सत्यप्रतिश्रवः॥
॥ 1.11.2 ॥
श्लोक 3
अंगराजेन सख्यं च तस्य राज्ञो भविष्यति।
कन्या चास्य महाभागा शान्ता नाम भविष्यति॥
॥ 1.11.3 ॥
श्लोक 4
पुत्रस्त्वंगस्य राज्ञस्तु रोमपाद इति श्रुतः।
तं स राजा दशरथो गमिष्यति महायशाः॥
॥ 1.11.4 ॥
श्लोक 5
अनपत्योऽस्मि धर्मात्मन् शान्ताभर्ता मम क्रतुम्।
आहरेत त्वयाऽऽज्ञप्तः संतानार्थं कुलस्य च॥
॥ 1.11.5 ॥
श्लोक 6
श्रुत्वा राज्ञोऽथ तद् वाक्यं मनसा स विचिन्त्य च।
प्रदास्यते पुत्रवन्तं शान्ताभर्तारमात्मवान्॥
॥ 1.11.6 ॥
श्लोक 7
प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः।
आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना॥
॥ 1.11.7 ॥
श्लोक 8
तं च राजा दशरथो यशस्कामः कृताञ्जलिः।
ऋष्यशृंगं द्विजश्रेष्ठं वरयिष्यति धर्मवित्॥
॥ 1.11.8 ॥
श्लोक 9
यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः।
लभते च स तं कामं द्विजमुख्याद्विशाम्पतिः॥
॥ 1.11.9 ॥
श्लोक 10
पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः।
वंशप्रतिष्ठानकराः सर्वभूतेषु विश्रुताः॥
॥ 1.11.10 ॥
श्लोक 11
एवं स देवप्रवरः पूर्वं कथितवान् कथाम्।
सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः॥
॥ 1.11.11 ॥
श्लोक 12
स त्वं पुरुषशार्दूल समानय ससत्कृतम्।
स्वयमेव महाराज गत्वा सबलवाहनः॥
॥ 1.11.12 ॥
श्लोक 13
सुमन्त्रस्य वचः श्रुत्वा हृष्टो दशरथोऽभवत्।
अनुमान्य वसिष्ठं च सूतवाक्यं निशाम्य च॥ सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः।
॥ 1.11.13 ॥
श्लोक 14
वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः।
अभिचक्राम तं देशं यत्र वै मुनिपुंगवः॥
॥ 1.11.14 ॥
श्लोक 15
आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम्।
ऋषिपुत्रं ददर्शाथो दीप्यमानमिवानलम्॥
॥ 1.11.15 ॥
श्लोक 16
ततो राजा यथायोग्यं पूजां चक्रे विशेषतः।
सखित्वात् तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना।
रोमपादेन चाख्यातमृषिपुत्राय धीमते॥ सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत्।
॥ 1.11.16 ॥
श्लोक 18
एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः।
सप्ताष्टदिवसान् राजा राजानमिदमब्रवीत्।
शान्ता तव सुता राजन् सह भर्त्रा विशाम्पते॥ मदीयं नगरं यातु कार्यं हि महदुद्यतम्।
॥ 1.11.18 ॥
श्लोक 20
तथेति राजा संश्रुत्य गमनं तस्य धीमतः।
उवाच वचनं विप्रं गच्छ त्वं सह भार्यया।
ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा ॥
॥ 1.11.20 ॥
श्लोक 22
स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया।
तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसा।
ननन्दतुर्दशरथो रोमपादश्च वीर्यवान्।
ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः॥
॥ 1.11.22 ॥
श्लोक 24
पौरेषु प्रेषयामास दूतान् वै शीघ्रगामिनः।
क्रियतां नगरं सर्वं क्षिप्रमेव स्वलंकृतम्।
धूपितं सिक्तसम्मृष्टं पताकाभिरलंकृतम्॥
॥ 1.11.24 ॥
श्लोक 25
ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम्।
तथा चक्रुश्च तत् सर्वं राज्ञा यत् प्रेषितं तदा॥
॥ 1.11.25 ॥
श्लोक 26
ततः स्वलंकृतं राजा नगरं प्रविवेश ह।
शङ्खदुन्दुभिनिर्हादैः पुरस्कृत्वा द्विजर्षभम्॥
॥ 1.11.26 ॥
श्लोक 27
ततः प्रमुदिताः सर्वे दृष्ट्वा वै नागरा द्विजम्।
प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा।
यथा दिवि सुरेन्द्रेण सहस्राक्षेण काश्यपम्॥
॥ 1.11.27 ॥
श्लोक 29
अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा च शास्त्रतः।
कृतकृत्यं तदात्मानं मेने तस्योपवाहनात्॥
॥ 1.11.29 ॥
श्लोक 30
अन्तःपुराणि सर्वाणि शान्तां दृष्ट्वा तथागताम्।
सह भर्त्रा विशालाक्षीं प्रीत्यानन्दमुपागमन्॥
॥ 1.11.30 ॥
श्लोक 31
पूज्यमाना तु ताभिः सा राज्ञा चैव विशेषतः।
उवास तत्र सुखिता कञ्चित् कालं सहद्विजा॥
॥ 1.11.31 ॥
सर्ग समाप्ति
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकादशः सर्गः ॥११॥
📖 हिंदी अनुवाद:
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके बालकाण्डमें ग्यारहवाँ सर्ग पूरा हुआ। ११॥
🔍 शब्दार्थ
संस्कृत शब्द हिंदी अर्थ
इति इस प्रकार (अव्यय, समाप्ति सूचक)
आर्षे ऋषि प्रोक्त में (सप्तमी विभक्ति)
श्रीमद्रामायणे श्रीरामायण में (सप्तमी विभक्ति)
वाल्मीकीये वाल्मीकि द्वारा रचित में (सप्तमी विभक्ति)
आदिकाव्ये आदिकाव्य में (सप्तमी विभक्ति)
बालकाण्डे बालकाण्ड में (सप्तमी विभक्ति)
एकादशः ग्यारहवाँ (प्रथमा विभक्ति)
सर्गः सर्ग (प्रथमा विभक्ति)
॥११॥ ॥११॥ (सर्ग संख्या)

ॐ श्रीरामाय नमः

वाल्मीकि रामायणम् | श्रीरामसमर्पितम्

www.valmikiramayan.in